64048: अतो लोपः =============== **Padacheda:** अतः | S | 6 | 1 | लोपः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The अ standing at the end of a अङ्ग (stem) is elided before an आर्धधातुक affix. Vasu English Translation ------------------------ The अ standing at the end of a अङ्ग (stem) is elided before an आर्धधातुक affix. Thus चिकीर्षिता, चिकीर्षितुम्, and चिकीर्षितव्यम्, from the Desiderative stem चिकीर्ष ॥ So also धिनुतः and कृणुतः from the roots धिन्व् and कृण्व् thus, धिन्व् + उ (3.1.80) = धिन् + अ+ उ (3.1.80) = धिन् + उ (अ being elided before the *ardhatuka* उ) = धिनु, the 3rd Personal dual of it is धिनुतः ॥ The addition of अ by (3.1.80) and its subsequent elision by the present *sutra*, may appear a redundancy, but the elided अ being *sthanivat*, prevents *guna* of धि ॥ So also कृणुतः ॥ See *sutra* (3.1.80). Why do we say "the अ is elided"? Observe चेता, स्रोता here इ and उ have not been elided. Why do we say "अतः with a त्"? The long आ will not be elided : as याता, वाता ॥ Why do we say "before an *Ardhadhatuka*"? Before a *Sarvadhatuka* there will be no elision of अ nor before a *Taddhita* : as वृक्षत्वम् and वृक्षता ॥ Vart:- The elision of such अ takes place even to the supersession of the subsequent rules relating to *Vriddhi* and lengthening. As चिकीर्षकः, जिहीर्षकः, चिकीर्ष्यते and जिहीर्ष्यते ॥ Bhashya ------- अतो लोपः(3046) (लोपाधिकरणम्) (6546 विप्रतिषेधवार्तिकम् ॥ 1 ॥) - ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् - ण्यल्लोपावियङ्यण्वृद्धिगुणदीर्घत्वेभ्यो भवतो विप्रतिषेधेन ॥ (णिलोपेयङादेशयोर्विप्रतिषेधप्रयोजनभाष्यम्) णिलोपस्यावकाशः - कार्यते, हार्यते । इयङादेशस्यावकाशः - श्रियौ, श्रियः । इहोभयं प्राप्नोति - आटिटत्, आशिशत् ॥ ननु चात्र यणादेशेन भवितव्यम् । इदं तर्हि - अततक्षत्, अररक्षत् ॥ (णिलोपयणोर्विप्रतिषेधप्रयोजनभाष्यम्) यणादेशस्यावकाशः - निन्यतुः, निन्युः । णिलोपस्य स एव । इहोभयं प्राप्नोति - आटिटत्, आशिशत् ॥ (णिलोपवृद्ध्योर्विप्रतिषेधप्रयोजनभाष्यम्) वृद्धेरवकाशः - सखायौः, सखायः । णिलोपस्यावकाशः स एव । इहोभयं प्राप्नोति - कारयतेः - कारकः, हारयतेः - हारकः ॥ (णिलोपगुणयोर्विप्रतिषेधप्रयोजनभाष्यम्) गुणस्यावकाशः -चेता, स्तोता । णिलोपस्यावकाशः - आटिटत्, आशिशत् । इहोभयं प्राप्नोति - कारणा, हारणा ॥ (णिलोपदीर्घयोर्विप्रतिषेधप्रयोजनभाष्यम्) दीर्घत्वस्यावकाशः -चीयते, स्तूयते । णिलोपस्य स एव । इहोभयं प्राप्नोति - कार्यते, हार्यते । णिलोपो भवति विप्रतिषेधेन ॥ (णिलोपे पूर्वविप्रतिषेधाक्षेपभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः । न वक्तव्यः । सन्त्वत्रैते विधयः । एतेषु विधिषु कृतेषु स्थानिवद्भावाण्णिग्रहणेन ग्रहणाल्लोपो भविष्यति ॥ (समाधानभाष्यम्) नैवं शक्यम् । इयङादेशे हि दोषः स्यात् । किम् ? अन्त्यलोपः प्रसज्येत ॥ (पूर्वविप्रतिषेधेऽल्लोपेयङ्यणुदाहरणाभावभाष्यम्) अल्लोपस्येयङ्यणोश्च नास्ति सम्प्रधारणा ॥ (अल्लोपवृद्ध्योर्विप्रतिषेधप्रयोजनभाष्यम्) वृद्धेरवकाशः -प्रियमाचष्टे प्रापयति । अल्लोपस्यावकाशः - चिकीर्षिता, चिकीर्षितुम् । इहोभयं प्राप्नोति - चिकीर्षकः, जिहीर्षकः ॥ गुणस्याल्लोपस्य च नास्ति सम्प्रधारणा ॥ (अल्लोपदीर्घत्वयोर्विप्रतिषेधप्रयोजनभाष्यम्) दीर्घत्वस्यावकाशः - अपि काकः श्येनायते । अल्लोपस्य स एव । इहोभयं प्राप्नोति - चिकीर्ष्यते, जिहीर्ष्यते । अल्लोपो भवति विप्रतिषेधेन ॥ (विप्रतिषेधान्यथासिद्धिसाधकभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं - यदिष्टं तद्भवति - इति ॥ Kashika ------- अकारान्तस्यार्धधातुके लोपो भवति। चिकीर्षिता। चिकीर्षितुम्। चिकीर्षितव्यम्। धिनुतः। कृणुतः। अत इति किम्? चेता। स्तोता। तपरकरणं किम्? याता। वाता। आर्धधातुक इति किम्? वृक्षत्वम्। वृक्षता। वृद्धिदीर्घाभ्यामतो लोपः पूर्वविप्रतिषेधेन। चिकीर्षकः। जिहीर्षकः। चिकीर्ष्यते। जिहीर्ष्यते॥ Siddhanta Kaumudi ----------------- आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोनपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्वाद्वेट् । जुगोपिथ । जुगोप्थ । गोपायिता । गोपिता । गोप्ता । गोपाय्यात् । गुप्यात् । अगोपायीत् । अगोपीत् । अगौप्सीत् ।{$ {!396 धूप!} संतापे$} । धूपायति । धूपायांचकार । दुधूप । धूपायितासि । धूपितासि ।{$ {!397 जप!} {!398 जल्प!} व्यक्तायां वाचि$} । जप मानसे च ।{$ {!399 चप!} सान्त्वने$} ।{$ {!400 षप!} समवाये $}। समवायः संबन्धः सम्यगवबोधो वा । सपति ।{$ {!401 रप!} {!402 लप!} व्यक्तायां वाचि$} ।{$ {!403 चुप!} मन्दायां गतौ$} । चोपति । चुचोप । चोपिता ।{$ {!404 तुप!} {!405 तुम्प!} {!406 त्रुप!} {!407 त्रुम्प!} {!408 तुफ!} {!409 तुम्फ!} {!410 त्रुफ!} {!411 त्रुम्फ!} हिंसार्थाः$} । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्त्वान्नलोपो न । किदाशिषि (SK2216) इति कित्वान्नलोपः । तुप्यात् । (गणसूत्रम् -) प्रात्तुम्पतौ गवि कर्तरि इति पारस्करादिगणे पाठात्सुट् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्येसरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितायान्ताः । अष्टावप्युकारवन्तः ।{$ {!412 पर्प!} {!413 रफ!} {!414 रफि!} {!415 अर्ब!} {!416 पर्ब!} {!417 लर्ब!} {!418 बर्ब!} {!419 मर्ब!} {!420 कर्ब!} {!421 खर्ब!} {!422 गर्ब!} {!423 शर्ब!} {!424 षर्ब!} {!425 चर्ब!} गतौ$} । आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति ।{$ {!426 कुबि!} आच्छादने$} । कुम्बति ।{$ {!427 लुबि!} {!428 तुबि!} अर्दने$} । लुम्बति । तुम्बति ।{$ {!429 चुबि!} वक्रसंयोगे$} । चुम्बति ।{$ {!430 षृभु!} {!431 षृम्भु!} हिंसार्थौ $}। सर्भति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । षिभु । षिम्भु इत्येके । सेभति । सिम्भति ।{$ {!432 शुभ!} {!433 शुम्भ!} भाषणे$} । भासने इत्येके । हिंसायामित्यन्ये ॥ अथानुनासिकान्ताः ॥ तत्र कम्यन्ता अनुतात्तेतो दश ॥{$ {!434 घिणि!} {!435 घुणि!} {!436 घृणि!} ग्रहणे$} । नुम् । ष्टुत्वम् । घिण्णते । जिघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे ।{$ {!437 घुण!} {!438 घूर्ण!} भ्रमणे$} । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ ।{$ {!439 पण!} व्यवहारे स्तुतौ च$} ।{$ {!440 पन!} च$} । स्तुतावित्येव संबध्यते । पृथङ्निर्देशात् । पनिसाहचर्यात्पणेरपिस्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थात्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायांचकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पनायति । पनायांचकार । पेने ।{$ {!441 भाम!} क्रोधे$} । भामते । बभामे ।{$ {!442 क्षमूष्!} सहने$} । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षन्ध्वे । चक्षमिवहे ॥ Laghu Siddhanta Kaumudi ----------------------- आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके॥ Balamanorama ------------ **अतो लोपः** - अतो लोपः ।अनुदात्तोपदेशवनती॑त्यत उपदेशग्रहणमनुवर्तते । आर्धधातुक इत्यधिकृतम् । तदिह आवर्तते । एकमुपदेशे अन्वेति । द्वितीयं तु लोपे परनिमित्तम् । तदाह — आर्धधातुकोपदेश इतत्यादिना । आर्धधातुकोपदेश इति किम् । अय पय गतौ, आभ्यां क्विपि,लोपो व्यो॑रिति लोपे,ह्रस्वस्य पिती॑ति तुकि, अपृक्तलोपे अत् पत् इतीष्टे । अत्र यलोपे सति अतो लोपो न भवति, आर्धधातुकोपदेशकाले धातोर्यकारान्तत्वात् । 'आर्धधातुकोपदेश' इत्यत्र आर्धधातुकग्रहणाऽभावेचिकीर्षित॑मित्यत्र अल्लोपो न स्यात्, सन उपदेशकाले नकारान्तत्वात् । आर्धधातुकग्रहणे तु न दोषः, अनुबन्धविनिर्मुक्तात्सन्प्रत्ययादेव क्तप्रत्ययस्य आर्धधातुकस्योत्पत्तेः । आर्धधातुके पर इति किम् । कथयति । चुरादावदन्तोऽयम् । अत्र उपधावृद्धिर्न भवति,अचः परस्मि॑न्नित्यल्लोपस्य स्थानिवत्त्वात् । आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परनिमित्तकत्वाऽभावात्स्थानिवत्त्वं न स्यात् । तथा च प्रकृते गोपाय — आमिति स्थिते अतो लोपे गोपायामिति सिध्यति । यद्यपि सवर्णदीर्घेणाप्येतत्सिद्धं, तथापि न्याय्यत्वादतो लोप उपन्यस्तः । आयप्रत्ययाऽभावपक्षे आह — जुगोपेति । पित्त्वेन कित्त्वाऽभावाल्लघूपधगुणः । जुगुपतुरिति । कित्त्वान्न गुणः । ऊदित्त्वाद्वेडिति ।थलादा॑विति शेषः । जुगुपिव — जुगुप्व । जुगुप्म । क्रादिनियमस्तु नञ्प्राप्तस्यैवाऽभावस्य, नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् । गोपायितेति । लुटि आयप्रत्ययपक्षे नित्यमिट् । आयप्रत्ययाऽभावपक्षे इड्विकल्पः । ऊदित्त्वस्य केवले चरितार्थत्वात् । तदाह — गोपिता गोप्तेति । गोपायिष्यति गोपिष्यति गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । आशीर्लिङ आयप्रत्ययपक्षे आह — अगोपायीदिति । आयप्रत्ययाऽभावपक्षे इटि रूपमाह - अगोपीदिति ।इट ईटी॑ति सिज्लोपः ।नेटी॑ति हलन्तलक्षवृद्धेर्निषेधः । इडभावे तु इटः परत्वाऽभावान्न सिल्जोल इत्याह — अगौप्सीदिति ।वदव्रजे॑ति वृद्धिः । अगोपायिष्यत् अगोपिष्यत् अगोप्स्यत् । धूप संताप इति ।गूपूधूपे॑त्यायः । आर्धधातुके तद्विकल्पः । षप समवाय इति । षोपदेशोऽयम् । चुप मन्दायामिति । चवर्गप्रथमादिरयम् । चवर्गद्वितीयादिस्त्वनिट्कः । तुप तुम्पेति । अष्टावप्युदुपधाः, तृतीयचतुर्थौ सप्तमाष्टमौ च रेफवन्त इति मूले स्पष्टीभविष्यति ।तुतुम्पतु॑रित्यत्र नलोपमाशङ्क्याह — संयोगादिति । आशीर्लिङि विशेषमाह — किदाशिषीति । प्रात्तुम्पताविति । श्तिपा निर्देशोऽयम् । प्रात् — प्रेत्युपसर्गात् — तुम्पधातौ परे सुट् स्याद्गवि कर्तरि सतीत्यर्थः । तुपधातोः सुट् आद्यवयवः । सुड्विधावस्मिन् तुम्पताविति श्तिपा निर्देशस्य प्रयोजनमाह — यङ्लुकि नेति ।शपाऽनुबन्धेने॑त्युक्तेरिति भावः । षृभु षृम्भु इति । ऋदुपधौ षोपदेशौ । सृभ्यादिति । आशीर्लिङि अनिदित्त्वान्नलोपः । षिभु षिम्भु इत्येक इति । आद्य इदुपधो, द्वितीयो मोपधः । शुभ शुम्भेति । द्वितीयस्य आशीर्लिङि अनिदित्त्वान्नलोपः । इतिगुपू॑इत्यादयः पवर्गीयान्ताः परस्मैपदिनो गताः । कम्यन्ता इति । 'कमु कान्तौ' इत्येतत्पर्यन्ता इत्यर्थः । घुण घूर्णेति । द्वितीयस्य दीर्घपाटः स्पष्टार्थः,उपधायां चे॑त्येव दीर्घसिद्धेः । केचित्तु घुर्णेति ह्रस्वमेव पठन्ति । स्तुतावित्येवेति । न तु व्यवहार इत्येवकारार्थः । पृथङ्निर्देशादिति । अन्यथापण पन व्यवहारे स्तुतौ चे॑त्येव निर्दिशेदिति भावः । यद्यपि पृथङ्निर्देशो यथासङ्ख्यनिवृत्त्यर्थ इत्यपि वक्तुं शक्यं, तथापि संप्रदायानुरोधादेवमुक्तम् । पनिसाहचर्यादिति । पनधातुः स्तुतावेव वर्तते, तत्साहचर्याद्गुपूधूपविच्छेत्यत्र पणधातुरपिस्तुत्यर्थक एव गृह्रते, न तु व्यवहारार्थकः । अतः स्तुतार्वव पणधातोरायप्रत्ययो न तु व्यवहारे इत्यर्थः । क्रेतव्यद्रव्यस्य मूल्यनिर्धारणाय प्रश्नप्रतिवचनात्मको व्यवहारः । ननु स्तुतौ पणायतीति रूपं वक्ष्यमाणमनुपपन्नं, पणधातोरनुदात्तेत्त्वेनात्मनेपदापत्तेः । न च आयप्रत्ययान्तस्यानुदात्तेत्वं नेति शङ्क्यं, पणधातौ श्रुतस्यानुदात्तेत्त्वस्य 'आनर्थक्यात्तदङ्ग' न्यायेन आयप्रत्ययान्तेऽन्वयोपपत्तेरित्यत आह -स्तुताविति । अनुबन्धस्य अनुदात्तात्मकस्य इतः, — याअर्धधातुकविषये कदाचिदायप्रत्ययविनिर्मुक्ते चरितार्थत्वादायप्रत्ययान्तादात्मनेपदं नेत्यर्थः । एवं च तुल्यन्यायत्वादेकाच उपदेश इति निषेधोऽपि नेति सूचितम् । क्षमष् सहन इति ।षद्भदादिभ्योऽ॑ङित्यर्थं षित्त्वम् । ऊदित्त्वादिड्विकल्पं मत्वाह — चक्षमिषे चक्षंस इति । इडभावपक्षेअनुनासिकस्य क्विझलो॑रिति दीर्घस्तु न भवति, क्विसाहचर्येण तिङ्भिन्नस्यैव झलादेस्तत्र ग्रहणात् । वहिमह्रोरिडभावपक्षे विशेषमाह — म्वोश्च ।मो नो धातो॑रित्यनुवर्तते । तदाह — मान्तस्येति । णत्वमिति । षात्परत्वादट्कुप्वाङिति नकारस्य णत्वमित्यर्थः । कमु कान्ताविति ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थमुदित्त्वम् । कान्तिशब्दस्य प्रभापरत्वभ्रमं व#आरयति — कान्तिरच्छेति ।स्वर्गकाम॑इत्यादौ कमेरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः ।कामोऽभिलाषस्तर्षश्चे॑ त्यमरः । Tattvabodhini ------------- **अतो लोपः** - ॒अनुदात्तोपदेशे॑ति सूत्रादुपदेश इत्यनुवर्ते । तदाह — आर्धधातुकोपदेशेत्यादि । उपदेशे इति किम् । अय पय गतौ । आभ्यां क्विपिवेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेने॑ति वार्तिकात्लोपो व्यो॑रिति यलोपोअतो लोपः॑ इति लोपो मा भूत् । अत् । पत् । इहह्रस्वस्य पिती॑ति तुक् । आर्धधातुके पर इति किम् । कथयते । वृद्धौ कर्तव्यायांअचः परस्मि॑न्निति स्थानिवत्त्वं यथा स्यात् । गोपायामिति । नन्विह आयप्रत्ययस्याऽदन्ततामाश्रित्य लोपकरणे लोपकरणे फलाऽभावादुच्चारणार्थ एव तत्राकारोऽस्त्विति चेत् । अत्राहु — गोपायतं नः॑ इत्यत्र गोपायशब्दस्य धातुत्वाद्धातोरन्त उदात्तो भवति.ततः शबकारेणैकाशेऽपिएकादेश उदात्तने॑त्युदात्त एव,तकाराऽकारस्तुतास्यनुदात्तेन्ङिददुपदेशात् इत्यनुदात्तः । ततश्चउदात्तादनुदात्तस्ये॑ति स्वरितो भवति ।स्वरितात्संहितायामनुदात्ताना॑मितिन॑ इत्यस्य एकश्रुतिः । आयप्रत्ययस्य अनदन्तत्वेतु नेदमिष्टं सिध्यतीति । स्तुतावेवेति । भट्टिस्तु व्यवहारेऽपि आयं प्रयुङ्क्तं — ॒न चोपलेभे वणिजां पणाया॑मिति । वणिजां व्यवहारमित्यर्थः ।अ प्रत्यया॑ दित्यायप्रत्ययान्तादकारप्रत्यये टाप् । चक्षंस इति । इहअनुनासिकस्य क्विझलो॑रित्युपधादीर्घो न कृतः, संज्ञापूर्वकविधेरनित्यत्वादिति स्थितस्य गतिमुत्प्रेक्षयन्ति । Padamanjari ----------- धिनुतः, कृणुत इति । इवि दिवि धिवि प्रीणनार्थाः, कृवि हआआसाकरणयोः, लट्, तस्य तस्, धिन्विकृण्व्योर चेति उप्रत्ययः, अकारोऽन्तादेशश्च, तस्य चोप्रत्ययेऽतो लोपः । एकवचने त्वान्तरेणातो लोपमुप्रत्ययस्य गुणे कृते अतो गुणे इति पररुपेणापि सिद्धिः । चेता, स्तोतेति । तपरकरणस्य पृथग्व्यावर्त्यस्य दर्शयिष्यमाणत्वातद्रहितस्याकाररमात्रस्येदं प्रत्युदाहरणम्, एवं च गुणवृद्ध्योर्दीर्घेषु चरितार्थत्वाद् ह्रस्वेषु लोपप्रसङ्गः । ननु च परत्वाद् गुणो भविष्यति, तस्मात्कृटादिषु गु पुरीषोत्सर्गे, ध्रुव गतिस्थैर्ययोः इत्यत्र लोपप्रसङ्ग उदाहार्यः । याता, वाता तैति । असति तकारेऽत्रापि लोपप्रसङ्गः आतो लोप इटि च इत्येतन्नियमार्थं भविष्यति - आत इट।लेवाजादौ च क्ङिति, नान्यत्रेति नैतदस्ति विपरीतोऽपि नियमः स्यात् - आत एवेटि, नान्यस्येति । था च चिकीर्षितेत्यत्र न स्यात् । वृद्धदीर्घाभ्यामिति । अचो ञ्णितीति वद्धेरेवकाशः नौरितिस अतो लोपस्यावकाशः चिकीर्षितेति, चिकीर्षकः - इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः । वृद्धौ तु युकि - चिकीर्षायक इति स्यात् । अकृत्सार्वधातुकयोः इत्यस्य दीर्घस्यावकाशः चीयते, अतो लोपस्यावकाशः स एवः चिकीर्ष्यते - इत्यत्रोभयप्रसङ्गे पूर्वपिप्रतिषेधः ॥ Nyaas ----- `धिनुतः, कृणुतः` इति। `हिवि दिवि धिवि प्राणनार्थाः` (धातुपाठः-591,592,593), `कृवि हिंसाकरणयोः` (धातुपाठः-598) इदित्वान्नुम्, लट्, तस्, **धिन्विकृण्व्योर च** (3.1.80) इत्युप्रत्ययः, अकारश्चान्तादेशः, तस्यानेन लोपः। अथ तपकरणं किमर्थम्, यावता धातेत्यत्र मा भूत्? ननु च **आतो लोप इटि च** (6.4.64) इति नियमार्थ भविष्यति -आकारस्येटएवाजादौ क्ङिति लोपो भवति? नैतद्सित; विपरीतनियमोऽपि सम्भाव्येत -आत एवेटि क्ङिति नान्यस्येति। तथा च चिकीर्षितेत्यत्र न स्यात्। तस्माद्? विपरीतनियमसम्भावनानिवृत्त्यर्थ तपरकरणम्। विस्पष्टार्थं वा। `वृद्धिदीर्धाभ्याम्` इत्यादि। **अचो ञ्णिति** (7.2.115) इत्यस्यावकाश -कारयति, हारयति, अतो लोपस्यावकाशः -चिकीर्षिता, जिहीर्षितेति; इहोमयं प्राप्नोति -चिकीर्षकः, जिहीर्षक इति, अतो लोप एव भवति पूर्वविप्रतिषेधेन। **अकृत्सार्वधातुकयोर्दीर्घः** (7.4.25) इत्यस्यावकाशः - चीयते, लूयत इति, अतो लोपस्यावकाशः स एव; इहोभयं प्राप्नोति -चिकीष्र्यते, जिहीष्र्यत इति, लोप एव भवति पूर्वविप्रतिषेधेन॥ Prakriyasarvasvam ----------------- अदन्तस्याङ्गस्यार्धधातुके परेऽन्त्यलोपः स्यात् । इति यङकारलोपः । रोरूयः । (वा० ६-१-१२) । एषामचि परे द्विरुक्तिरभ्यासस्यागागमश्च स्यात् । Vartika ------- ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिधेन । Sutra Prayogas -------------- * **दन्दशूकाञ्जिघांसौ** (भट्टिकाव्यम्): `अतो लोपः` इति । * **यायजूकाः** (भट्टिकाव्यम्): `अतो लोपः` इति लोपः। * **रोरुदा-वान्** (भट्टिकाव्यम्): `अतो लोपः` इति अकारलोपः। * **चंक्रमा** (भट्टिकाव्यम्): `अतो लोपः` इति। * **तस्याऽप्यबेभिदिष्टाऽसौ** (भट्टिकाव्यम्): `अतो लोपः` इति अतो लोपः।