64042: जनसनखनां सञ्झलोः ======================= **Padacheda:** जन-सन-खनाम् | S | 6 | 3 | सन्-झलोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The long आ is substituted for the final of जन् , सन् and खन् before the consonant beginning Desiderative affix सन् and before any other affix beginning with a इल् consonant which has an indicatory क् or ङ्। Vasu English Translation ------------------------ The long आ is substituted for the final of जन् , सन् and खन् before the consonant beginning Desiderative affix सन् and before any other affix beginning with a झल् consonant which has an indicatory क् or ङ्। Thus जातः, जातवान्, जातिः, सातः, सातवान्, सातिः, सिषासति; खातः, खातवान्, खातिः ॥ In जन् and खन् the Desiderative does not begin with a consonant, but takes the augment इट्, the न् is not therefore elided, as जिजनिषति, चिखनिषति ॥ In the case of the root सन्, the Desiderative takes इ, so we have two forms सिषासति and सिसनिषति (7.2.49). The Desiderative has, therefore, been mentioned in the aphorism, only for the sake of the root सन् ॥ If the phrase सन्झलोः be taken to mean 'the Desiderative beginning with a consonant', then we should read the *anuvritti* of झालि क्ङिति from the preceding *sutras*, to complete the sense of this; and if the phrase means "when the Desiderative of a *jhaladi* affix follows", then we should qualify the word Desiderative by the word *jhal* from the preceding *sutras*. Or we may divide the *sutra* into two (1) Before a कित् or ङित् *jhaladi* affix long आ is the substitute of the न् of '*jan*', '*san*' and '*khan*'. (2) And so is the case, when the Desiderative affix follows, not having the augment इ, for then also the न् of '*jan*', '*san*' and '*khan*' is replaced by long आ ॥ The न् of the root सन् would have required elision by (6.4.37), because this verb belongs to *Tanadi* class, still the आ substitution taught in this *sutra* takes place, by preference, on the maxim of विप्रतिषेधे परं कार्यम् (1.4.2). In fact, though in this section of *asiddha* (6.4.22) one rule is considered as *asiddha* for the purposes of the operations of another rule, yet one rule supersedes another by the maxim of *vipratisedha*. That that maxim applies in this section also, is to be inferred from the employment of the term हल् in (6.4.66), which supersedes the *lopa* of आ taught in (6.4.64), and substitutes instead the long ई ॥ Bhashya ------- जनसनखनां सञ्ञ्झलोः (3040) (सञ्ञ्झलोरन्वयाक्षेपभाष्यम्) अथ किमयं समुच्चयः - सनि च झलादौ चेति, आहोस्वित् सन्विशेषणं झल्ग्रहणं - सनि झलादाविति ? किं चातः ? (समुच्चये दोषभाष्यम्) यदि समुच्चयः, सन्यझलादावपि प्राप्नोति । सिसनिषति, जिजनिषते, चिखनिषति । (विशेषणपक्षे दोषभाष्यम्) अथ सन्विशेषणं झल्ग्रहणम्, जातः - जातवानित्यत्र न प्राप्नोति । यथेच्छसि तथाऽस्तु ॥ (समुच्चये दोषनिवारकभाष्यम्) अस्तु तावत्समुच्चयः । ननु चोक्तं - सन्यझलादावपि प्राप्नोति । नैष दोषः । प्रकृतं झल्ग्रहणमनुवर्तते, तेन सनं विशेषयिष्यामः - सनि झलादाविति । (विशेषणपक्षे दोषनिवारकभाष्यम्) अथ वा पुनरस्तु सन्विशेषणम् । कथं जातः - जातवानिति ? प्रकृतं झलि क्ङितीत्यनुवर्तते ॥ (झल्ग्रहणप्रत्याख्यानभाष्यम्) यद्येवं नार्थो झल्ग्रहणेन । योगविभागः करिष्यते - जनसनखनाम् । अनुनासिकस्याकारो भवति झलि क्ङिति । ततः - सनि च । सनि च जनसनखनामनुनासिकस्याकारो भवति, झलीत्येव । तस्मान्नार्थो झल्ग्रहणेन ॥ (6543 विप्रतिषेधवार्तिकम् ॥ 1 ॥) - सनोतेरनुनासिकलोपादात्वं विप्रतिषेधेन - सनोतेरनुनासिकलोपादात्वं भवति विप्रतिषेधेन । सनोतेरनुनासिकलोपस्यावकाशः - अन्ये तनोत्यादयः । आत्वस्यावकाशः - अन्ये जनादयः । सनोतेरनुनासिकस्योभयं प्राप्नोति - सातः, सातवान् - इति । आत्वं भवति विप्रतिषेधेन ॥ (विप्रतिषेधाक्षेपभाष्यम्) नैष युक्तो विप्रतिषेधः । न हि सनोतेरनुनासिकलोपस्यान्ये तनोत्यादयोऽवकाशः । सनोतेर्यस्तनोत्यादिषु पाठः सोऽनवकाशः । न खल्वप्यात्वस्यान्ये जनादयोऽवकाशः । सनोतेर्यदात्वे ग्रहणं तदनवकाशम्, तस्यानवकाशत्वादयुक्तो विप्रतिषेधः ॥ (सकाराकारयोर्विप्रतिषेधोपपादनभाष्यम्) एवं तर्हि तनोत्यादिषु पाठस्तावत्सावकाशः। कोऽवकाशः। अन्यानि तनोत्यादिकार्याणि - तनादिभ्यस्तथासोः (2.4.79) इति । आत्वेऽपि ग्रहणं सावकाशम् । कोऽवकाशः ? सनि च । ये विभाषा (6.4.43) च । उभयोः सावकाशयोर्युक्तो विप्रतिषेधः ॥ (विप्रतिषेधाक्षेपभाष्यम्) एवमप्ययुक्तो विप्रतिषेधः । पठिष्यति ह्याचार्यः - ।पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य इति । एकस्य हि नामाभावे विप्रतिषेधो न स्यात्, किं पुनर्यत्रोभयं नास्ति ॥ (ज्ञापकेन विप्रतिषेधस्थापनभाष्यम्) नैष दोषः । भवतीह विप्रतिषेधः । किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? आचार्यप्रवृत्तिर्ज्ञापयति - भवतीह विप्रतिषेध इति, यदयं घुमास्थागापाजहातिसां हलि (6.4.66) इति हल्ग्रहणं करोति । कथं कृत्वा ज्ञापकम् ? हल्ग्रहणस्यैतत्प्रयोजनं - हलादावीत्वं यथा स्यात्, इह मा भूत् - गोदः - कम्बलद इति । यदि चात्र विप्रतिषेधो न स्यादिह हल्ग्रहणमनर्थकं स्यात् । अस्त्वत्र इर्त्वम् । इर्त्वस्यासिद्धत्वाल्लोपो भविष्यति । पश्यति त्वाचार्यः - भवतीह विप्रतिषेधः, ततो हल्ग्रहणं करोति ॥ (इर्त्वस्य व्यवस्थार्थत्वबोधनेन ज्ञापकनिराकरणभाष्यम्) नैतदस्ति ज्ञापकम्, व्यवस्थार्थमेतत्स्यात् - हलादावीत्वं यथा स्यादजातौ मा भूदिति । किञ्च स्यात् ? यद्यजादावपीत्वं स्यात्, इयङादेशः प्रसज्येत ॥ (व्यवस्थार्थत्वाक्षेपभाष्यम्) ननु चासिद्धत्वादेवेयङादेशो न भविष्यति ॥ (व्यवस्थार्थत्वसाधकभाष्यम्) न शक्यमीत्वमियङादेशेऽसिद्धं विज्ञातुम् । इह हि दोषः स्यात् - धियौ, धियः । पियौ, पिय इति ॥ (व्यवस्थार्थत्वाक्षेपभाष्यम्) नैतदीत्त्वम् । किं तर्हि ? ध्याप्योः सम्प्रसारणमेतत् ॥ समानाश्रयं खल्वसिद्धं भवति, व्याश्रयं चैतत् । कथम् ? क्वावीत्वम्, क्विबन्तस्य विभक्तावियङादेशः ॥ (व्यवस्थावाचित्वस्थापनभाष्यम्) व्यवस्थार्थमेव तर्हि हल्ग्रहणं कर्तव्यम् । कुतो ह्येतत् - इर्त्वस्यासिद्धत्वाल्लोपः स्यात्, न पुनर्लोपस्यासिद्धत्वादीत्वमिति । तत्र चक्रकमव्यवस्था प्रसज्येत ॥ (ज्ञापकत्वपक्षोपपादकभाष्यम्) नास्ति चक्रकप्रसङ्गः । न ह्यव्यवस्थाकारिणा शास्त्रेण भवितव्यम् । शास्त्रतो नाम व्यवस्था । तत्र इर्त्वस्यासिद्धत्वाल्लोपः, लोपेनावस्थानं भविष्यति । न खल्वपि तस्मिंस्तदेवासिद्धं भवति ॥ (ज्ञापकत्वाक्षेपभाष्यम्) व्यवस्थार्थमेव तर्हि हल्ग्रहणं कर्तव्यम् । हलादावीत्वं यथा स्यात्, अजादौ मा भूदिति । कुतो ह्येतत् - इर्त्वस्यासिद्धत्वाल्लोपः, लोपेनावस्थानं भविष्यति । न पुनर्लोपस्यासिद्धत्वादीत्वमीत्वेन व्यवस्थानं स्यात् ? तदेव खल्वपि तस्मिन्नसिद्धं भवति । कथम् ? पठिष्यति ह्याचार्यः - ।चिणो लुकि तग्रहणानर्थक्यं सङ्घातस्याप्रत्ययत्वात्, तलोपस्य चासिद्धत्वात् इति । चिणो लुक् चिणो लुक्येवासिद्धो भवति ॥ (ज्ञापकत्वसाधकभाष्यम्) एवं तर्हि - यदि व्यवस्थार्थमेतत्स्यात् नैवायं हल्ग्रहणं कुर्वीत । अविशेषेणायमीत्वमुक्त्वा तस्याजादावाल्लोपमपवादं विदधीत । तदेतत्कथम् ? इदमस्ति - आतो लोप इटि चेति । ततः - घुमास्थागापाजहातिसां । लोपो भवति इटि च अजादौ क्ङितीति । किमर्थं पुनरिदम् ? इर्त्वं वक्ष्यति तद्बाधनार्थम् । ततः - इर्त् । इर्च्च भवति घ्वादीनाम् । ततः - एर्लिङि । वान्यस्य संयोगादेः । न ल्यपि । मयतेरिदन्यतरस्याम् । ततः - यति । यति च इर्द्भवति । सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद्धल्ग्रहणं करोति - गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्यः - भवतीह विप्रतिषेध इति ॥ Kashika ------- झलि क्ङिति इति चानुवर्तते। जन सन खन इत्येतेषामङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परत आकार आदेशो भवति। जन् — जातः। जातवान्। जातिः। सन् — सनि — सिषासति। सातः। सातवान्। सातिः। खन् — खात्ः। खातवान्। खातिः। झल्ग्रहणं सन्विशेषणार्थं किमर्थमनुवर्त्यते? इह मा भूत् — जिजनिषति। सिसनिषति। चिखनिषति। सनोतेः **सनीवन्तर्ध०** (७.२.४९) इति पक्ष इडागमः। तदिह सनोत्यर्थमेव सन्ग्रहणम्। अत्र झलादौ क्ङिति सनोतेर्विप्रतिषेधाद् आत्वमनुनासिकलोपं बाधते। **घुमास्थागापाजहातिसां हलि** (६.४.६६) इति हल्ग्रहणं ज्ञापकम् — अस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवतीति॥ Siddhanta Kaumudi ----------------- एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् ।{$ {!1106 गा!} स्तुतौ$} । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ॥ Laghu Siddhanta Kaumudi ----------------------- एषामाकारेऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥॥ {$ {! 3 क्षणु !} हिंसायाम् $} (धातुपाठे (08.0003)) ॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ {$ {! 4 क्षिणु !} च $} (धातुपाठे (08.0004)) ॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ {$ {! 5 तृणु !} अदने $} (धातुपाठे (08.0006)) ॥ तृणोति, तर्णोति; तृणुते, तर्णुते॥ {$ {! 6 डुकृञ् !} करणे $} (धातुपाठे (08.0010)) ॥ करोति॥ **अत उत्सार्वधातुके** (LSK571) - उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात्, सार्वधातुके क्ङिति । कुरुतः ॥ Balamanorama ------------ **जनसनखनां सञ्झलोः** - जनसन.॒विडवनो॑रितय्त आदित्यनुव्रतते । तदाह — एषामाकारोऽन्तादेश इति । सन् झल् इत्यनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । सनि झलि चेति लभ्यते ।अनुदात्तोपदेशे॑त्यतो झलिक्ङितीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते । तदादिविधिः । झलादौ सनीति लभ्यते । क्ङितीत्यनुवृत्तं त्वेत्सूत्रस्थेन झला विशेष्यते । तदादिविधिः । झलादौ क्ङितीति लभ्यते । तथाच झलादौ सनीति, झलादौ क्ङितीति च परनिमित्तद्वयं लब्धम् । तदाह — झलादौ सनि झलादौ क्ङिति चेति । सन्विशेषणं झलादाविति किम् । जिजनिषति । सिसनिषति । चिखनिषति । अथ क्ङितोर्झल्विशेषमस्य प्रयोजनमाह — जज्ञतीति । जनन् अतीति स्थिते अतेर्ङित्त्वेऽपि झलादित्वाऽभावादात्त्वाऽभावेगमहने॑त्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावःजनसनखनां स॑नित्याश्रित्य योगविभागेन उक्तार्थसिदिंध चाश्रित्य झ्लग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये । जजंसीति ।नश्चे॑त्यनुस्वारः । जजाथः जजाथ । जजन्मि जजन्वः जजन्मः । जजानेति । जज्ञतुः । सेडयम् । जजनिथ जज्ञथुः ।जज्ञिव । जनिता । जनिष्यति । जजन्तु — जजातात् । जजाहि । जजनानि । अजजमजजाताम् । अजज्ञुः । अजजनमजजन्व । विधिलिङिये विभाषे॑ति मत्वाह — जजायात् जंजन्यादिति । अजनीत् — अजानीत् ।अजनिष्यत् । गा स्तुतौ । देवान् जिगातीति ।भृञामि॑दित्यत्रबहुलं छन्दसी॑ति वचनादभ्यासस्येत्त्वमिति भावः । जिगीत इति ।ई हल्यघो॑रिति ईत्त्वम् । जिगतीति । अभ्यस्तत्वाददादेशेश्नाभ्यस्तयो॑रित्याल्लोपः । जिगासि जिगीथः जिगीथ । जिगामि जिगीवः । जगौ जगतुः । जगिव । गाता । गास्यति । जिगातु — जिगीतात् जिगीताम् जिगतु । जिगीहि । जिगानि । अजिगात् अजिगीतामजिगुः । अजिगाः । अजिगामजिगीव जिगीयात् । आशिषि — गेयात् । अगासीत् । अगास्यत् । इति जुहोत्यादयः ।॥ इति बालमनोरमायाम् जुहोत्यादयः॥अथ तिङन्ते कण्ड्वादयः । Tattvabodhini ------------- **जनसनखनां सञ्झलोः** - जनसनखनाम् । जन जनने, जनी प्रादुर्भावे इत्युभयोरपि ग्रहणम् । झलादौ सनि सिषासति । जज्ञतीति ।गमहने॑त्युपधालोपः । जजायादिति ।ये विभाषे॑ति वा आत्वम् । एवं जायादित्यत्रापि । जिगातीति ।रबहुलं छन्दसी॑ति इत्वम् । इति तत्त्वबोधिन्याम् जुहोत्यादयः ।अथ कण्ड्वादयः Padamanjari ----------- झल्शब्देनात्र झलादिर्गृह्यते अङ्गेनाक्षिप्तस्य प्रत्ययस्य झला विशेषणात् । क्ङिद्ग्रहणं तस्य विशेषणम् । प्रकृतं तु झल्ग्रहणं सनो विशेषणम् । तदिहेति । वाक्योपन्यासे । विप्रतिषेधादिति । सनोतेस्तनोत्यादिपाठस्यावकाशोऽन्यतनादि कार्यम् - तनादिकृञ्भ्य उः, तनादिभ्यस्तथासोः इति, इह त्वात्वविधौ सन्ग्रहणस्यावकाशः सन्, शिषासति, स्यतः, सातवानित्यत्रोभयप्रसङ्गे परत्वादात्वं भवति । ननु चासिद्धकाण्डे वक्ष्यति - पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्येति, यत्र किलैकस्याप्यांसद्धत्वे विप्रषेधाभावस्तत्र का कथा द्वयोरप्यसिद्धत्वे इत्यत आह - घुमास्थागापाजहातीत्यादि । विप्रतिषेधो भवतीति । विप्रतिषेधेन व्यवस्थायां क्रियमाणायामासद्धत्वं न भवतीत्यथेः । कथं कृत्वा ज्ञापकम् हर्गर्हणस्यैतत्प्रयोजनम् - हलादौ यथा स्यात्, इह मा भूत् - गौदः, कम्बलद इति । यदि चात्र विप्रतिषेषो न स्याद्धल्ग्रहणमनर्थकं स्यात् । अस्त्वत्रेत्वम्, तस्यासिद्धत्वादियङदेशो असत्याल्लोपे तत्सिद्धं स्यात्, सति विप्रतिषेधे आल्लोप स्यावकाशः - पाण्णित्रम्, अङ्गुलित्रमिति, ईत्वस्य - दीयते, मीयते गोद इत्यादावसति हल्ग्रहणे परत्वादीत्वं स्यादिति हल्ग्रहणमर्थवद्भवति नैतदस्ति ज्ञापकम् व्यवस्थार्थमेतत्स्यात् । असति हि तस्मिन्नीत्वस्यासिद्धत्वादालोपः, तस्यासिद्धत्वादीत्वमिति चक्रकमव्यवस्था प्राप्नोति नास्ति चक्रकप्रसङ्गः,न ह्यव्ययस्थाकारिणा शास्त्रेण भवितव्यम्, शास्त्रतो नाम व्यवस्था । तत्र पूर्वमीत्वम्, तस्यासिद्धत्वादाल्लोपः, लोपेनावस्थानं भविष्यति । एवमपि कुत एतत् - ईत्वास्यासिद्धत्वादाल्लापः, लोपेनावअस्थानमिति, न पुनर्विपर्यंयः स्यात् -पूर्वमाल्लोपः, तस्यासिद्धत्वादीत्वमीत्वेन व्यवस्थानमिति एवं तर्हि यदि व्यवस्थार्थमेतत्स्यात्, नैवायं हल्ग्रहणं कुर्वीत, अविशेषेणायमीत्वं कृत्वा तस्याजादौ लोपमवादं विदधीत, कथम् इदमस्ति आतो लोप इटि च, ततो धुमास्थानगापाजहातिसां लोपो भवति - इटि चाजादौ च क्ङितीति, किमर्थ पुनरिदमीत्वम् वक्ष्यति - तस्य बाधनार्थं तत्, ईद्भवति ध्वाधीनाम्, ततः एलीङ्, वान्यस्य संयोगादेः, न ल्यपि, मयतेरिदन्यतरस्याम्, ततः यति च, यति च ईद्भवति आतः इत्येव सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यति यद्धल्ग्रहणं करोति तद् गरियांसं यत्नमारभते, तज्ज्ञापयत्याचार्यः - भवतीह विप्रतिषेध इति । इह झल्ग्रहणं शक्यमकर्तुम् । कथम् योगविभागः कर्तव्यः - जनसनखनामनुनासिकस्याकारादेशो भवि, झलि क्ङिति ततः सनि च, जनसनखनामाकारादेशो भवति झलीत्येव ॥ Nyaas ----- `झलि क्ङिति चानुवर्तते` इति। यथाक्रमं सनो झलश्च विशेषणम्? सूत्रोपात्तेन तु झल्ग्रहणेन न शक्यते सन्? विशेषयितुम्, विशेषणं ह्रप्राधानं भवति, विशेष्यन्तु प्रधानम्। `सञ्झलोः` इति चार्य द्वन्द्वः। तत्र सर्वेषां द्वन्द्वपदानां प्राधान्यादन्योऽन्यं प्रधानगुणभावो नोपपद्यते। सन्ग्रहणञ्चाक्ङिदर्थम्। `तदिह` इत्यादि। यस्मात्? सनोतेः पक्ष इडागमस्तस्मात्? तत एव परो झलादिः सन्? सम्भवतीति तदर्थमेव सन्ग्रहणम्, न तु जनखनार्थम्। न हि ताभ्यां परो झलादिः सन्? सम्भवति, तयोर्नित्यं सेट्त्वात्। यद्येवं, सनोतेः सनि कृतार्थत्वादात्त्वं न स्यात्, अन्यत्र निष्ठादौ झलादौ क्ङितिप्रत्यये `अनुदात्तोपदेशः` (6.4.37) इत्यादिना नलोपः स्यात्? इत्यत आह -`अन्यत्र` इत्यादि। सनोतेस्तनोत्यादिषु पाठस्यावकाशोऽन्यत्? तनादिकं कार्यम् -**तनादिभ्यस्तथासोः** (2.4.79) इत्यादि, आत्त्वविधौ च सन्ग्रहणस्यावकाशः -सन्, सिषासतीति; इहोभयं प्राप्नोति -सातः, सातवानिति। अत्रानुनासिकलोपं बाधित्वाऽऽत्त्वं भवति विप्रतिषेधेन। ननु चोभयः सिद्धयोर्विप्रतिषेधो भवति, इह च `असिद्धवदत्रा भात्` (6.4.22) इत्युभयमप्यसिद्धम्, तत्? कुतो विप्रतिषेधः? इत्यत आह -`घुमास्थागा` इत्यादि। कथं कृत्वा ज्ञापकम्? हल्ग्रहणस्यैतदेव प्रयोजनम् -हलादावीत्त्वं यथा स्यात्, इह मा भूत् -**आतोऽनुपसर्गे कः** (3.2.3) गोदाः, कम्बलद इति यदि चात्र विप्रतिषेधः? इत्यत आह -`घुमास्थागा` इत्यादि। कथं कृत्वा ज्ञापकम्? हल्ग्रहणस्यैतदेव प्रयोजनम् -हलादावीत्त्वं यथ#आ स्यात्, इह मा भूत् -**आतोऽनुपसर्गे कः** (3.2.3) गोदः, कम्बलद इति। यदि चात्र विप्रतिषेधो न स्याद्? हल्ग्रहणमनर्थकं स्यात्। अस्त्वत्रेत्त्वम्, तस्यासिद्धत्वाल्लोपो भविष्यत। पश्यति त्वाचार्यः -भवतीह प्रकरणे विप्रतिषेध इति; यतो हल्ग्रहणं करोति। ननु चासति हल्ग्रहणेऽजादावपीत्त्वं स्यात्, ततश्चेपङः प्रसज्येतेत्यनिष्टं रूपमापद्येत। तस्मादनिष्टनिवृत्त्यर्थत्वाद्धल्ग्रहणस्य न युज्यते ज्ञापकत्वम्? नैष दोषः; असिद्धत्वादेवेत्त्वस्येयङादेशो न भविष्यति। व्यवस्थार्थं तर्हि हल्ग्रहणं स्यात्, असति हि तस्मिन्नीत्त्वस्यासिद्धत्वा दाल्लोपः, आकारलोपस्यासिद्धत्वादीत्त्वमीति चक्रवद्व्यवस्था स्यात्? एतदप्यप्रयोजनम्, यदि व्यवस्थार्थं हल्ग्रहणं स्यात्, नैवायं हल्ग्रहहँ कुर्वीत। अविशेषेणेकारमुक्त्वा तस्याजादौ लोपमपवादं विदध्यात्। तत्? कथमिदमस्तु **आतो लोप इटि च** (6.4.64) इति? ततः `धुमास्थागापाजहातिसाम्` (6.4.66) आकारलोपो भवतीटयजादौ च क्ङिति। किमर्थमिदम्? प्रत्ययमात्रे ध्वादीनां यदीत्त्वं वक्ष्यते, तस्यायमिटजादौ च क्ङित्यपदादः, ततः `ईत्` (6.4.68) इतीत्त्वं भवति घादीनामनचि क्ङिति, ततः **एर्लिङि** (6.4.67) `दान्यस्य संयोगादेः` (6.4.68) **न ल्यपि** (6.4.69) , **मयतेरिदन्यतरस्याम्** (6.4.70) ; ततो यतीत्त्वं भवति -सोऽयमेव लगीयसा न्यासेन सिद्धे यद्धल्ग्रहणं करोति, तज्ज्ञापयत्याचार्यः -`भवतीह विप्रतिषेधः` इति॥ Prakriyasarvasvam ----------------- एषां झलादौ सनि झलादौ क्ङिति चान्त्यस्य आत्वं स्यात् । जातः । 'षणु दाने' । सातः । खातः । 'निष्ठायां सेटि' (६-४-५२) इति सर्वेण्यन्तेषु णिलोपः । चोरितः । कारितः । 'ह्लादी सुखे च' । ईदित्त्वान्नेट् ।