64037: अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति =========================================================== **Padacheda:** अनुदात्तोपदेश-वनति-तनोति-आदीनाम् | S | 6 | 3 | अनुनासिक | S | | | 6 लोपः | S | 1 | 1 | झलि | S | 7 | 1 | क्ङिति | S | 7 | 1 | Sutrartha --------- **ये धातवः अनुनासिकान्ताः अनुदात्तोपदेशाः सन्ति, तेषामङ्गस्य, वन्-इत्यस्य अङ्गस्य, तथा च तनोति-इत्यादीनामङ्स्य झलादि कित्/ङित्-प्रत्यये परे अनुनासिकलोपः भवति ।** अस्मिन् सूत्रे अनेके बिन्दवः समाविष्टाः सन्ति, अतः क्रमेण पश्यामः - 1) 'अनुनासिकान्ताः अनुदात्तोपदेशाः' - अनेन तादृशानाम् धातूनाम् ग्रहणं भवति येषु - (अ) अन्तिमवर्णः अनुनासिकः अस्ति, तथा च येषु (आ) औपदेशिक-अवस्थायामनुदात्तः स्वरः विद्यते । एतादृशाः षट्-धातवः धातुपाठे पाठ्यन्ते - यम् (उपरमे), रम् (क्रीडायाम्), नम् (प्रहत्वे शब्दे च), गम् (गतौ), हन् (हिंसागत्योः - अदादिगणः) , मन् (ज्ञाने - दिवादिगणः) । 2) 'वनतेः' - इत्यनेन 'वन्' (सम्भक्तौ) अस्य भ्वादिगणस्य धातोः ग्रहणं भवति । 3) 'अनुनासिकाः तनोत्यादयः' - इत्यनेन तनादिगणस्य अनुनासिकान्ताः धातवः स्वीक्रियन्ते । अत्र तन् , क्षण्, क्षिण्, ऋण्, तृण् , घृण्, वन्, तथा मन् एतेषाम् ग्रहणं भवति । अत्रापि 'वन्' धातुः निर्दिष्टः अस्ति परन्तु अयम् तनादिगणस्य अस्तीति स्मर्तव्यम् । अपि च, तनादिगणे 'षणुँ दाने' अयमनुनासिकान्तः धातुः विद्यते, परन्तु तस्य अत्र ग्रहणं न भवति, यतः तस्य विषये अनुनासिकस्य लोपं बाधित्वा **जनसनखनां सञ्झलोः** (6.4.42) इत्यनेन आकारादेशः विधीयते । एतेषाम् सर्वेषाम् विषये झलादि-कित्-प्रत्यये परे तथा झलादि-ङित्-प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य अन्तिमवर्णस्य लोपः विधीयते । उदाहरणानि एतादृशानि - 1. यम् + क्त्वा → यत्वा । 2. रम् + क्तिन् → रतिः । 3. नम् + क्त → नत । 4. गम् + क्तवतु → गतवत् । 5. हन् धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया - हन् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → हन् + तस् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → हन् + शप् + तस् [**कर्तरि शप्** (3.1.68) इति शप्] → हन् + तस् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → ह + तस् [तस्-प्रत्ययः अपित्-सार्वधातुकप्रत्ययः अस्ति, अतः **सार्वधातुकमपित्** (1.2.4) इत्यनेन सः ङिद्वत् भवति । अतः **अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति** (6.4.37) इत्यनेन नकारलोपः अपि भवति ।] → हतः [विसर्गनिर्माणम्] 6. मन् + क्त्वा → मत्वा । 7. वन् + क्तिन् → वति । 8. तन् + क्त → तत । 9. क्षण् + क्त → क्षत । 10. क्षिण् + क्त्वा → क्षित्वा । 11. ऋण् + क्त → ऋत । 12. तृण् + क्तवतु → तृतवत् । 13. घृण् + क्तवतु → घृतवत् । 14. वन् + क्त → वत । 15. मन् + क्त → मत । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'अनुनासिक' इति वस्तुतः 'अनुनासिकानाम्' एतादृशम् षष्ठी-बहुवचनस्य रूपमस्ति, परन्तु तस्य विभक्तेः लोपं कृत्वा तस्य निर्देशः अत्र कृतः अस्ति । अनुनासिकानाम् इत्यपि 'अनुदात्तोपदेश-वनति-तनोति-आदीनाम्' इति यावत् 'अङ्गस्य' इत्यस्य विशेषणमस्ति । अतः 'अनुनासिकलोप' इति एकः शब्दः नास्ति, शब्दद्वयं अस्तीति स्मर्तव्यम् । 2. अनेन सूत्रेण 'अङ्गस्य' लोपः उक्तः अस्ति । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अयम् लोपः अङ्गस्य अन्तिमवर्णस्य भवति । Sutrartha (English) ------------------- 1) For the verb roots that end in an अनुनासिक letter and have an अनुदात्त स्वर in the उपदेश, 2) For the verb root वन्, and 3) For the verb roots that end in an अनुनासिक letter and belong to the तनोत्यादिगण, The अनुनासिक is removed when the verb is followed by a झलादि कित् /ङित् प्रत्यय. Vasu English Summary -------------------- The final nasal of those roots which in the धातुपाठ have an accented root-vowel, as well as of वन , तन etc. (तनादिगणः -8th Conjugation) is elided before an affix beginning with a consonant (except a semi-vowel or nasal) when these have an indicatory क् or ङ्। Vasu English Translation ------------------------ The final nasal of those roots which in the धातुपाठ have an accented root-vowel, as well as of वन , तन etc. (तनादिगणः -8th Conjugation) is elided before an affix beginning with a consonant (except a semi-vowel or nasal) when these have an indicatory क् or ङ्। Thus यमु gives us यत्वा (with क्त्वा), यतः (with क्त), यतवान् (with क्तवतु), यतिः (with क्तिन्), Similarly रमु gives us रत्वा, रतः, रतवान्, रतिः ॥ यम्, रम्, नम्, गम्, हन् and मन् which end in a nasal are to be considered as unaccented roots, though taught as accented in the *Dhatupatha*. So also of वन् : i. e. वतिः with क्तिन्; with क्तिच् the nasal is not elided as वन्ति; (6.4.39) : and before other *jhaladi* affixes व, retains न् as all those affixes take the augment इट् ॥ The तनादि roots belong to the eighth class. Thus ततः, ततवान्. The *Tanadi* roots are ten in number, तन्, सन्, क्षण्, क्षिण्, ऋण्, तृण्, घृण्, वन्, मन् and कृञ् ॥ Of these सन् takes long आ also (6.4.45). क्षण् -क्षतः, क्षतवान्, ऋण् - ऋतः, ऋतवान्; तृण् - तृतः, तृतवान्; घृण् — घृतः, घृतवान्; वन् - वतः, वतवान्; मन् - मतः, मतवान् ॥ Why do we say before a ङित् affix ? Observe अतत, अतथाः ((1.2.11) these affixes are ङित्) So also not in शान्तः, शान्तवान्, तान्तः, तान्तवान्, दान्तः, दान्तवान्, not being *anudatta* in the *Dhatupatha*. If the root does not end in a nasal, the rule does not apply, as in पक्वः, पक्ववान् ॥ If the affix does not begin with a *jhal* consonant, the rule does not apply: as गम्यते, रम्यते ॥ If the affix is not कित् or ङित् the rule does not apply: as, यन्ता, यन्तव्यम् ॥ Why do we say "*anudatta* by *upadesa*"? So that the rule may apply to गम् root, as गतिः, but not to शम्, as शान्तः शान्तवान् ॥ For गतिः is formed by क्तिन् affix and is accented with *udatta* on the first, but it is a secondary *udatta* and not of *upadesa* or *dhatupatha*, and does not prevent the elision of म् of गम् ॥ Similarly शम् is *udatta*-*upadesa* though in शान्त it has become अनुदात्तः ॥ The former though taught in the *Dhatupatha* as *udatta*, has been specifically mentioned above as *anudatta*, and शम् is taught as *udatta* in the *Dhatupatha*, and no where else taught as *anudatta*. Bhashya ------- अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (3035) (6540 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च - अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि चेति वक्तव्यम् । प्रमत्य । प्रतत्य ॥ (6541 उपसंख्यानवार्तिकम् ॥ 2 ॥) - वाऽमः - वाऽम इति वक्तव्यम् । प्रयत्य, प्रयम्य । प्ररत्य, प्ररम्य । प्रणत्य, प्रणम्य ॥ Kashika ------- अनुदात्तोपदेशानाम् अनुनासिकान्तानाम् अङ्गानां वनतेस्तनोत्यादीनां च लोपो भवति झलादौ क्ङिति प्रत्यये परतः। यमु — यत्वा। यतः। यतवान्। यतिः। रमु — रत्वा। रतः। रतवान्। रतिः। अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः। वनति — वतिः। क्ति नो रूपमेतत्। क्तिचि तु **न क्तिचि दीर्घश्च** (६.४.३९) इति भवति। अन्यत्र झलादाविटा भवितव्यम्। तनोत्यादयः — ततः। ततवान्। सनोतेरात्वं वक्ष्यति (६.४.४२)। क्षणु — क्षतः। क्षतवान्। ऋणु — ऋतः। ऋतवान्। तृणु — तृतः। तृतवान्। घृणु — घृतः। घृतवान्। वनु — वतः। वतवान्। मनु — मतः। मतवान्। ङिति — अतत। अतथाः। अनुदात्तोपदेशवनतितनोत्यादीनामिति किम्? शान्तः। शान्तवान्। तान्तः। तान्तवान्। दान्तः। दान्तवान्। अनुनासिकस्येति किम्? पक्वः। पक्ववान्। झलीति किम्? गम्यते। रम्यते। क्ङितीति किम्? यन्ता। यन्तव्यम्। उपदेशग्रहणं किम्? इह च यथा स्यात् — गतिः। इह च मा भूत् — शान्तः। शान्तवानिति॥ Siddhanta Kaumudi ----------------- अनुनासिक-इति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनुतोनोत्यादयः । हतः । घ्नन्ति ॥ Laghu Siddhanta Kaumudi ----------------------- अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे। यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः। तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः। हतः। घ्नन्ति। हंसि। हथः। हथ। हन्मि। हन्वः। हन्मः। जघान। जघ्नतुः। जघ्नुः॥ Balamanorama ------------ **अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति** - अनुदात्तोपदेश ।ऊदृदन्तै॑रित्यादिभिः सङ्गृहीता अनुदात्तोपदेशाः, वनतिभौवादिकः, तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते । एतेषामनुनासिकस्य लोपः स्याज्झलादौ क्ङितीति प्रतीयमानार्थः । एवं सतिमुक्त॑मित्यादौ मुचादीनामपि मकारादिलोपः स्यात् । तत्राह — अनुनासिक इति लुप्तषष्ठीकं पदमिति । एवमप्युक्ताऽतिप्रसङ्गतादवस्थ्यादाह — वनतीतरेषां विशेषणमिति । अनुदात्तोपदेशानां तनोत्यादीनां चेत्यर्थः । तथा च विशेषणत्वात्तदन्तविधावनुनासिकान्तानामनुदात्तोपदेशानां तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः । तदाह — अनुनासिकान्तानामित्यादिना । वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम्, अव्यभिचारादिति भावः । अत्रानुदात्तोपदेशाननुनासिकान्तान्दर्शयति -यमिरमीति । अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः । अथ तनोतीत्यादीननुनासिकान्तान्दर्शयति — तनुक्,णुक्षिण्विति । 'मनु' इत्यन्तं समाहारद्वन्द्वात्प्रथमैकवचनम् । एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः । 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः । तत्रकरोतिरनुनासिकान्तात्वाऽभावादिह न गृह्रते,जनसनखनां सन्झलो॑रिति सनोतेरात्त्वस्य वक्ष्यमाणत्वात्सोऽप्यत्र न गृहीतः । 'वनु याचने' इति तनादौ पठितम् । तस्य उविकरणतया, उदित्त्वेन वनतिग्रहणेनाऽग्रहणात्तनादौ पठितस्यापि पृथग्ग्रहणम् । तत्र तानादिकस्य वनेरुदित्त्वात्उदितो वे॑ति क्त्वायामिड्विकल्पात्यस्य विभाषे॑ति निष्ठायामिडभावे वतः वतवानित्युदाहरणम् । वनतेस्तु भौवादिकस्य उदित्त्वाऽभावान्निष्ठायां सेट्कतवेऽपि क्तिनि वतिरित्युदाहरणम्, तत्रतितुव्रतथसिसुसरकसेषु चे॑ति इण्निषेधादित्यलम् । हत इति । तसि अनुदात्तोपदेशानुनासिकान्तत्वान्नकारलोपः, 'सार्वधातुकमपि' दिति तसो ङित्त्वात् । घ्नन्तीति । अजादिङित्परकत्वात्गमहने॑त्युपधालोपे 'हो हन्ते' रिति कुत्वेन हस्य घः । हसि हथः हथ । Tattvabodhini ------------- **अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति** - यज्वेति । इष्टावान्यज्वा ।सुयजोर्ङ्वनिप् । ब्राहृणा इति ।सर्वधातुभ्यो मनि॑ न्निति प्रकम्यबृंहर्नोऽच्चेत॑ति नस्याऽत्वाविधानाह्ब्राहृञ्शब्दोऽयं॒निष्पन्नः । Nyaas ----- `अनुनासिक` इति षष्ठआ बहुवचनस्य लुकं कृत्वाऽविभक्तिकोऽयं निर्देशः। अत एवाह -`अनुनासिकान्तानाम्` इति। **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति दीर्घत्वे प्राप्ते लोपोऽयं विधीयते। अत्र लोपे कृते दीर्घत्वं न प्राप्नोति; विहितनिमित्तत्वात्। `यमि रमि गमि नमि हनि मन्यतयः` इति -`यम उपरमे` (धातुपाठः-984) `रमु क्रीडायाम्` (धातुपाठः-853) `गन्लृ सृप्लृ गतौ` (धातुपाठः-982,983) `णम पह्वत्वे` (धातुपाठः-981) [प्रह्वत्वे शब्दे च -धा।पा] `हन हिंसागत्योः` (धातुपाठः-1012) `मन ज्ञाने` (धातुपाठः-1176)।`वतिः` इति। `वन षण सम्भक्तौ` (धातुपाठः-463,464)। `तितुत्रतथ` (7.2.9) इत्यादिनेट्प्रतिषेधः। `क्तिनि` इत्यनेन क्तिन्येव वनतेरुदाहरणं सम्भवति, नान्यत्रेति दर्शयति। किं कारमम्? इत्याह -`क्तिचि तु` इत्यादि। क्तिचि तु **न क्तिचि दीर्घश्च** (6.4.39) इति प्रतिषेधं वक्ष्यति। ये त्वन्ये झलादयः प्रत्ययास्तेष्वपीटा भवितव्यम्, ततो झलादित्वाभावाद्वनतेरनुनासिकलोपं प्रति ते निमित्तभावं नोपयान्तीति पारिशेष्यात्? क्तिन्येव वनतेरनुनासिकलोपेन भवितव्यम्। `सनोतेरात्त्वं वक्ष्यति` इति। तेन तस्यानुनासिकलोपोदाहरणं न भवतीति भावः। आत्त्वं पुनः `जनसनखनाम्` (6.4.42) इत्यादिना वक्ष्यति। `क्षतः` इति। `क्षणु हिंसायाम्` (धातुपाठः-1465)। `ऋतः` इति -`ऋणु गतौ` (धातुपाठः-1467)। `तृतः` इति। `तृणु दाने` [`अदने` धातुपाठः-] (धातुपाठः-1468)। `घृतः` इति। `घृणु दीप्तौ` (धातुपाठः-1469) `वतः` इति। `वनु याचने` (धातुपाठः-1470) `मतः` इति। `मनु अवबोधने` (धातुपाठः-1471) `अतत, अतथा` इति। तनोतेर्लुङ। आत्मनेपदप्रथममध्यमैकपुरुषवचने। **तनादिभ्यस्तथासोः** (2.4.79) इति सिचो लुक्। `शान्तः, तान्तः, दान्तः` ति। शमितमिदमीनां रूपाणि। एते नानुदात्तोपदेशाः। `इह च` इत्यादि। गमिरमिभ्यां क्तिनि कृते तयोर्नित्स्वरेणाद्युदात्तत्वेऽनुदात्तत्वाभावादसत्युपदेशग्रहणे लोपो न स्यात्, अस्मस्तु सति भवति। किञ्च -असत्युपदेशग्रहणे शान्तः, दान्त इत्यत्रापि स्यात्। भवति हि शमिः सतिशिष्टप्रत्ययस्वरे कृते **अनुदात्तं पदमेकवर्जम्** (6.1.158) इति शेषस्यानुदात्तत्वेऽनुदात्तः। उपदेशग्रहणात्तु न भवति, न ह्रमुपदेशेऽनुदात्तः॥ Prakriyasarvasvam ----------------- यमिरमिन्मिगमिहनिमन्त्यतयोऽनुदात्ताः । तेषां तनेस्तनोत्यादीनां च झलादौ क्ङिति परेऽनुनासिकलोपः स्यात् । य त । आर्धधातुकपरत्वादतो लोपे प्राप्ते, Sutra Prayogas -------------- * **हताहत** (किरातार्जुनीयम्): `अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति` इति अनुनासिकलोपः। * **समगंस्त** (शिशुपालवधम्): `अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति` इत्यादिनानुनासिकलोपो न। * **सम्पततो** (भट्टिकाव्यम्): `अनुदात्त` इत्यादिना अनुनासिकलोपः । * **समगध्वं** (भट्टिकाव्यम्): `अनुदात्त` इत्यनुनासिकलोपः । * **उद्यतिः** (भट्टिकाव्यम्): `अनुदात्त` इत्यादिना अनुनासिकलोपः। * **आहताम्** (भट्टिकाव्यम्): `अनुदात्तोपदेश` इत्यादिनानुनासिकलोपः ।