64022: असिद्धवदत्राभात्
=======================
**Padacheda:** असिद्धवत् | S | 0 | 0 |
अत्र | S | 0 | 0 |
आ | S | 0 | 0 |
भात् | S | 5 | 1 |
Sutrartha
---------
**अग्रिमसूत्रात् आरभ्य, अस्य पादस्य समाप्तिपर्यन्तम् पाठितानि सूत्राणि समानाश्रये कर्तव्ये परस्पराणां सन्दर्भे असिद्धानि भवन्ति ।**
एतत् अधिकारसूत्रम् अस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् ((6.4.175) इति यावत्) प्रचलति ।
'असिद्धवदत्राभात्' इत्यत्र 'असिद्धवत् + अत्र + आभात्' इति पदविग्रहः । प्रत्येकं पदार्थस्य अर्थः एतादृशः —
1) आभात् = **भस्य** (6.4.129) इति अधिकारस्य परिसमाप्तिपर्यन्तम् (इत्युक्ते, षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम्) ।
2) अत्र = समानाश्रये कर्तव्ये ।
3) असिद्धवत् = असिद्धत्वं स्यात्।
वर्तमानसूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम् विद्यमानानि सूत्राणि (*आभीयसूत्राणि* इत्यपि तेषाम् अन्यत् नाम) परस्पराणां विषये समानाश्रये कर्त्तव्ये असिद्धानि ज्ञेयानि - इत्याशयः ।
**किं नाम समानाश्रयः ? ** नागेशः लघुशब्देन्दुशेखरे ब्रूते -
तत्र हि समानाश्रयत्वम् असिद्धत्वाश्रयशास्त्रसम्बन्धिनिमित्तसमुदायान्यूनानतिरिक्ताश्रयकत्वम् ।
पदविग्रहः — तत्र हि समानाश्रयत्वम् असिद्धत्व-आश्रयशास्त्रसम्बन्धि-निमित्तसमुदाय-अन्यून-अनतिरिक्त-आश्रयकत्वम् ।
अस्य सरलरूपेण अर्थः एतादृशः — प्रक्रियायाम् सूत्रस्य प्रयोगे आवश्यकः यः मूलस्थानी, यानि च मूलनिमित्तानि, तेषाम् 'आश्रयाः' इति संज्ञा भवति । The आश्रयाः for a sutra are its original स्थानी and all the original निमित्तs. अनेन प्रकारेण प्रत्येकं सूत्रस्य विशिष्टाः आश्रयाः वर्तन्ते । अस्यां स्थितौ, यदि द्वयोः सूत्रयोः आश्रयाः सम्पूर्णरूपेण समानाः सन्ति, तर्हि द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते । Two sutras participating in a prakriya are said to have समानाश्रय when the आश्रयाः for the first sutra are identical to that of the second sutra.
अत्र इदं स्मर्तव्यम्, यत् द्वयोः सूत्रयोः स्थानी समानः भवेत्, उत निमित्तं समानं भवेत् - इति अत्र न आवश्यकम् । केवलम् आश्रयसमूहः (The set of all आश्रया:) समानः भवेत् - इत्येव अत्र अपेक्ष्यते । एतादृशं भवति चेत् समानाश्रयः अस्ति इत्युच्यते ।
एतादृशः समानाश्रयः ययोः सूत्रयोः मध्ये वर्तते, ते सूत्रे परस्परयोः विषये असिद्धे ज्ञातव्ये - इति प्रकृतसूत्रस्य आशयः ।
समानाश्रयस्य द्वे उदाहरणे एतादृशे -
(1) अस्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'अस् + हि' इत्यस्यां स्थितौ **श्नसोरल्लोपः** (6.4.111) तथा च **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इति द्वे सूत्रे युगपत् प्रवर्तेते । तत्र —
(a) **श्नसोरल्लोपः** (6.4.111) इत्यनेन सूत्रेण 'अस्' धातोः हि-प्रत्यये परे अकारलोपः विधीयते । अतः अस्य सूत्रस्य आश्रयौ 'अस्, हि' एतौ स्तः ।
(b) **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इत्यनेन तु अस्यैव अस्-धातोः अस्मिन्नेव हि-प्रत्यये परे 'ए' इति अन्त्यादेशः विधीयते । अतः अस्य सूत्रस्य आश्रयौ अपि 'अस्, हि' एतौ एव स्तः ।
अनेन प्रकारेण अत्र **श्नसोरल्लोपः** (6.4.111) तथा च **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इति सूत्रयो: आश्रयौ समानौ स्तः, अतः एतयोर्मध्ये अत्र समानाश्रयः अस्ति इति उच्यते ।
(2) हन्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'हन् + हि' इति स्थिते —
(a) **हन्तेर्जः** (6.4.36) इति सूत्रेण 'हन्'-धातोः 'हि'-प्रत्यये परे 'ज' इति आदेशः भवति । अतः अत्र **हन्तेर्जः** (6.4.36) इति सूत्रस्य 'हन्, हि' इति आश्रयौ ।
(b) अग्रे, एतम् 'ज' इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य **अतो हेः** (6.4.105) इति सूत्रेण अदन्तात् अङ्गात् परस्य 'हि'-प्रत्ययस्य लुक् प्रवर्तते । अत्र **अतो हेः** (6.4.105) इति सूत्रस्य स्थानी अस्ति 'हि' इति प्रत्ययः, तथा च मूलनिमित्तम् अस्ति 'हन्' इति धातुः । यद्यपि अत्र प्रत्यक्षं निमित्तम् 'ज' इति दृश्यते, तथापि स्थानिवद्भावेन 'हन्' इत्यस्यैव परिगणनम् अत्र कर्तव्यम् । अतएव उपरि दत्तायां व्याख्यायाम् 'मूलस्थानी' तथा 'मूलनिमित्तम्' इति शब्दौ प्रयुक्तौ स्तः । अतः, अत्रापि 'हन्, हि' इत्येव द्वौ आश्रयौ स्तः ।
अतः अत्रापि एतयोः द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते ।
एतादृशः समानाश्रयः यदा द्वयोः सूत्रयोः मध्ये विद्यते तदा ते सूत्रे परस्परयोः विषये असिद्धे भवतः। इत्युक्ते, प्रक्रियायां ताभ्याम् एकेन सूत्रेण कृतं कार्यम् अपरस्य सूत्रस्य कृते असिद्धम् मन्तव्यम् - इति वर्तमानसूत्रस्य आशयः । अस्मिन्नेव सन्दर्भे भाष्ये - **असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम्** - इति विधानं कृतम् अस्ति । अत्र भाष्यकारेण 'समानाश्रये जाते असिद्धत्वं कथं प्रवर्तते' इत्यस्य द्वौ नियमौ उक्तौ स्तः । एते द्वौ नियमौ, तथा च तयोः कानिचन उदाहरणानि अधः स्पष्टीक्रियन्ते ।
1) **आदेशलक्षणप्रतिषेधार्थम् असिद्धत्त्वम् **
**यत्र प्रक्रियायां द्वयोः समानाश्रययुक्तयोः आभीयसूत्रयोः युगपत् प्राप्तिः नास्ति, तत्र प्रथमसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति, अतः प्रथमसूत्रात् अनन्तरम् द्वितीयसूत्रम् नैव प्रवर्तते ** — इति अत्र आदेशलक्षणस्य प्रतिषेधार्थम् असिद्धत्वम् प्रयुज्यते । **एतादृशम् असिद्धत्त्वम् नित्यम् द्वितीयसूत्रस्य निषेधार्थम् एव उपयुज्यते** । अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दत्ते स्तः -
अ) हन्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् **हन्तेर्जः** (6.4.36) इति सूत्रेण 'हन्'-धातोः 'हि'-प्रत्यये परे 'ज' इति आदेशः भवति । अग्रे, एतम् 'ज' इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य **अतो हेः** (6.4.105) इति सूत्रेण अदन्तात् अङ्गात् परस्य 'हि'-प्रत्ययस्य लुक् प्रवर्तते । अत्र एतयोः सूत्रयोः मध्ये 'हन्, हि' इति समानाश्रयः वर्तते इति उपरि स्पष्टीकृतम् अस्ति । अस्यां स्थितौ, **हन्तेर्जः** (6.4.36) इत्यनेन कृतः आदेशः **अतो हेः** (6.4.105) इत्यस्य कृते **असिद्धवदत्राभात्** (6.4.22) इत्यनेन असिद्धः भवति । प्रक्रिया इयम् -
.. code-block:: text
हनँ (हिंसागत्योः, अदादिः, (2.2))
→ हन् + लोट् [**लोट् च** (3.3.162) इति लोट्-लकारः]
→ हन् + सिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]
→ हन् + शप् + सिप् [**कर्तरि शप्** (3.1.68) इति शप्]
→ हन् + सिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ हन् + हि [**सेर्ह्यपिच्च** (3.4.87) इति हि-आदेशः]
→ ज + हि [ हि-प्रत्यये परे **हन्तेर्जः** (6.4.36) इति हन्-धातोः 'ज'-आदेशः । एतादृशे 'ज' आदेशे कृते तस्य अदन्तत्त्वात् अत्र **अतो हेः** (6.4.105) इति अन्यत् सूत्रम् प्रयोक्तुं शक्यते, येन अदन्तात् अङ्गात् परस्य 'हि'प्रत्ययस्य लोपः भवति । परन्तु अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः विद्यते । अस्यां स्थितौ **आदेशलक्षणप्रतिषेधाय असिद्धत्त्वम्** इति नियमम् अनुसृत्य द्वितीयसूत्रस्य कृते प्रथमसूत्रेण कृतः 'ज'-आदेशः असिद्धः अस्ति । इत्युक्ते, **अतो हेः** (6.4.105) इत्यस्य प्रयोगस्य समये 'ज' इति न दृश्यते, अपितु 'हन्' इत्येव मूलरूपं दृश्यते । 'हन्' इति तु अदन्तम् अङ्गम् नास्ति, अतः अत्र **अतो हेः** (6.4.105) इति सूत्रम् अपि अत्र प्रक्रियायां नैव प्रवर्तते । अतएव 'जहि' इत्येव अन्तिमं रूपम् अत्र सिद्ध्यति ।]
→ जहि
आ) 'द्वयोः अतिशयेन बहु' इत्यस्मिन् अर्थे 'बहु' शब्दात् **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इत्यनेन ईयसुन्-प्रत्यये कृते, **बहोर्लोपो भू च बहोः** (6.4.158) इत्यनेन बहु-शब्दस्य भू-आदेशः विधीयते । अस्मिन् आदेशे कृते 'भू' इत्यस्य ऊकारस्य **ओर्गुणः** (6.4.146) इत्यनेन गुणादेशः (ओकारः) अवश्यं सम्भवति । अत्र एतयोः द्वयोः अपि सूत्रयोः आश्रयौ 'बहु (= मूलस्थानी), ईयसुन्-प्रत्ययः' एतौ स्तः । अतः अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः विद्यते । अस्यां स्थितौ प्रथमसूत्रेण कृतः भू-आदेशः द्वितीयसूत्रस्य कृते असिद्धः अस्ति, अतः एव प्रक्रियायाम् **ओर्गुणः** (6.4.146) इत्यनेन भू-शब्दस्य गुणः नैव सम्भवति । प्रक्रिया इयम् -
.. code-block:: text
द्वयोः अतिशयेन बहु
→ बहु + ईयसुँन् [**द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इत्यनेन ईयसुन्-प्रत्ययः]
→ बहु + ईयस् [नकार-उँकारयोः इत्संज्ञा, लोपः]
→ भू + यस् [**बहोर्लोपो भू च बहोः** (6.4.158) इत्यनेन बहु-शब्दस्य भू-आदेशः, ईयसुँन्-प्रत्ययस्य ईकारस्य लोपः । अत्र भू-आदेशात् अनन्तरम् यद्यपि **ओर्गुणः** (6.4.146) इत्यनेन तस्य गुणादेशः सम्भवति, तथापि अत्र समानाश्रयस्य आधारेण 'आदेशलक्षणप्रतिषेधाय असिद्धत्त्वम्' इति असिद्धत्वं स्वीकृत्य **बहोर्लोपो भू च बहोः** (6.4.148) इत्यनेन कृतः भू-आदेशः **ओर्गुणः** (6.4.146) इत्यस्य कृते असिद्धः वर्तते । अतः अत्र **ओर्गुणः** (6.4.146) इत्यनेन 'बहु + ईयस्' इत्येव स्थितिः दृश्यते । अस्यां स्थितौ 'भू' इत्यस्य गुणः नैव सम्भवति । यद्यपि बहु-शब्दस्य गुणः तु अवश्यं भवितुम् अर्हति, तथापि तेन न कश्चन लाभः (भू-आदेशे कृते सः गुणः व्यर्थः एव), अतः सोऽपि न नैव क्रियते ।]
→ भूयस्
2) **उत्सर्गलक्षणभावार्थम् असिद्धत्वम् ।**
यत्र प्रक्रियायां द्वयोः समानाश्रययुक्तयोः आभीयसूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र एकसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति, अतः द्वितीयम् सूत्रम् मूलस्थानिनम् एव दृष्ट्वा अवश्यं प्रवर्तते — इति अत्र उत्सर्गलक्षणस्य भावार्थम् असिद्धत्वम् प्रयुज्यते । **एतादृशम् असिद्धत्त्वम् नित्यम् द्वितीयसूत्रस्य प्रसक्त्यर्थम् एव उपयुज्यते ।** अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दत्ते स्तः -
अ) 'शास्' इति धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'शास् + हि' इति स्थिते **हुझल्भ्यो हेर्धिः** (6.4.101) इति सूत्रेण शास्-धातोः विहितस्य 'हि' प्रत्ययस्य 'धि' इति आदेशः; तथा च तस्मिन्नेव समये **शा हौ** (6.4.35) इत्यनेन 'हि'प्रत्यये परे 'शास्' इत्यस्य 'शा' आदेशः — इति द्वे कार्ये युगपत् सम्भवतः । अत्र एतयोः द्वयोः सूत्रयोः मध्ये 'हि' तथा 'शास्' इति आश्रयौ समानौ स्तः, अतः अत्र समानाश्रयः विद्यते । अस्यां स्थितौ 'उत्सर्गलक्षणभावार्थम् असिद्धत्वम्' प्रवर्तते । इत्युक्ते, **हुझल्भ्यो हेर्धिः** (6.4.101) इति सूत्रेण 'हि' प्रत्ययस्य कृतः 'धि' इति आदेशः **शा हौ** (6.4.35) इत्यनेन नैव दृश्यते । अतः अत्र **शा हौ** (6.4.35) इत्यस्य प्रयोगस्य समये 'हि' इत्येव दृश्यते । अस्यां स्थितौ **शा हौ** (6.4.35) इति सूत्रम् अवश्यं प्रवर्तते । अनेन प्रकारेण अन्तिमरूपसिद्ध्यर्थम् **हुझल्भ्यो हेर्धिः** (6.4.101) तथा च **शा हौ** (6.4.35) एतयोः द्वयोः अपि सूत्रयोः प्रयोगः क्रियते । सम्पूर्णा प्रक्रिया एतादृशी —
.. code-block:: text
शासुँ (इच्छायाम्, अदादिः, (2.12))
→ शास् + लोट् [**लोट् च** (3.3.162) इति लोट्-लकारः]
→ शास् + सिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]
→ शास् + शप् + सिप् [**कर्तरि शप्** (3.1.68) इति शप्]
→ शास् + सिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ शास् + हि [**सेर्ह्यपिच्च** (3.4.87) इति हि-आदेशः]
→ शास् + धि [**हुझल्भ्योः हेर्धिः** (6.4.101) इत्यनेन शास्-धातोः परस्य हि-प्रत्ययस्य 'धि'आदेशः]
→ शा + धि [**शा हौ** (6.4.35) इति सूत्रेण हि-प्रत्यये परे शास्-इत्यस्य शा-आदेशः भवति । वस्तुतः अत्र 'हि' इत्यस्य स्थाने 'धि' इति अस्ति । परन्तु अयम् आदेशः **हुझल्भ्योः हेर्धिः** (6.4.101) इत्यनेन कृत अस्ति, तथा च **असिद्धवदत्राभात्** (6.4.22) इत्यनेन **हुझल्भ्योः हेर्धिः** (6.4.101) इति सूत्रम् **शा हौ** (6.4.35) इत्यस्य प्रयोगस्य कृते असिद्धं भवति । इत्युक्ते, **हुझल्भ्योः हेर्धिः** (6.4.101) इत्यनेन कृतः 'धि' आदेशः **शा हौ** (6.4.35) इत्यनेन नैव दृश्यते । अतः **शा हौ** (6.4.35) इत्यस्य दृष्ट्या अत्र 'हि' इत्येव प्रत्ययः विद्यते । अस्मिन् प्रत्यये परे **शा हौ** (6.4.35) इति सूत्रेण 'शास्' इत्यस्य शा-आदेशः अवश्यं भवति ।]
→ शाधि
आ) असँ (भुवि, अदादिः (2.60)) इति धातोः लट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् **श्नसोरल्लोपः** (6.4.111) तथा **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इत्येतयोर्मध्ये, अपि च **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) तथा **हुझल्भ्यो हेर्धिः** (6.4.101) इत्येतयोर्मध्ये अपि आभीयम् असिद्धत्वं विद्यते । प्रक्रिया इयम् —
.. code-block:: text
असँ (भुवि, अदादिः (2.60))
→ अस् + लोट् [**लोट् च** (3.3.162) इति लोट्-लकारः]
→ अस् + सिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]
→ अस् + शप् + सिप् [**कर्तरि शप्** (3.1.68) इति शप्]
→ अस् + सिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ अस् + हि [**सेर्ह्यपिच्च** (3.4.87) इति हि-आदेशः]
→ स् + हि [**श्नसोरल्लोपः** (6.4.111) इत्यनेन हि-प्रत्यये परे अस्-धातोः अकारस्य लोपः भवति]
→ ए + हि [**घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इत्यनेन हि-प्रत्यये परे अस्-धातोः सकारस्य एकारः भवति । अत्र वस्तुतः अत्र 'अस्' इति अङ्गम् नैव वर्तते । परन्तु, युगपत् प्राप्तयोः **श्नसोरल्लोपः** (6.4.111) तथा **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इत्यतयोः मध्ये 'हि, अस्' एते समाने आश्रये (अतः समानाश्रयत्वम्) दृष्ट्वा, **श्नसोरल्लोपः** (6.4.111) इत्यनेन 'अस्' इत्यस्य कृतः सकारादेशः **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इतस्य कृते असिद्धः भवति । अतः **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इत्यनेन अत्र 'अस्' इत्येव दृश्यते, अतः तत्र सकारस्य एकारादेशः अपि भवितुम् अर्हति ।]
→ ए + धि [**हुझल्भ्यो हेर्धिः** (6.4.101) इति अत्र झलन्तात् परस्य हि-प्रत्ययस्य धि-आदेशः भवति । अत्र यद्यपि अङ्गस्य अन्ते झल्-वर्णः नास्ति, तथापि तस्य विघातकम्, युगपत् प्राप्तम् **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इति सूत्रम् 'अस्, हि' इति समानाश्रयं दृष्ट्वा **हुझल्भ्यो हेर्धिः** (6.4.101) इत्यस्य कृते असिद्धम् भवति । अस्यां स्थितौ **हुझल्भ्यो हेर्धिः** (6.4.101) इत्यनेन 'ए' इति नैव द्रष्टुं शक्यते । अतः अत्र 'स्' इत्येव सकारान्तम् अङ्गम् स्वीकृत्य हि-प्रत्ययस्य धि-आदेशः विधीयते ।]
→ एधि ।
आभीय-असिद्धत्त्वस्य इतोऽपि अनेकानि अन्यानि उदाहरणानि भाष्ये सङ्गृहीतानि सन्ति, जिज्ञासुभिः तानि अवश्यं द्रष्टव्यानि ।
**दलकृत्यम्**
सूत्रे विद्यमानस्य प्रत्येकं अंशस्य प्रयोजनम् क्रमेण इत्थम् —
1. ****असिद्धवत्** इति शब्दस्य प्रयोजनम्** - अस्मिन् सूत्रे विद्यमानः 'असिद्धवत्' इति शब्दः 'असिद्धः' इत्यस्मिन् अर्थे एव प्रयुक्तः अस्ति । अत्र 'असिद्धवत्' इत्यस्य स्थाने पाणिनिना 'असिद्धम्' इत्येव किमर्थं नोक्तम् इत्यस्मिन् विषये व्याख्यानेषु किमपि स्पष्टरूपेण नोच्यते ।
2. ****अत्र** इति शब्दस्य प्रयोजनम्** - 'अत्र' अस्य शब्दस्य अस्मिन् सूत्रे द्वौ अर्थौ सम्भवतः । एकः तु सरलः अर्थः - 'अत्र इत्युक्ते अस्मिन् अधिकारे' इति । परन्तु तादृशः अर्थः 'आभात्' इति अग्रिमपदेनैव स्पष्टः भवति । अतः महाभाष्ये भाष्यकारेण 'अत्र' इति शब्दस्य अर्थः 'समानाश्रये कर्तव्ये' इति गृहीतः अस्ति । इत्युक्ते, द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति चेदेव अत्र उक्तम् असिद्धत्त्वं तत्र ग्राह्यम् ; यदि द्वयोः सूत्रयोः मध्ये समानाश्रयः नास्ति, तर्हि ते सूत्रे परस्परयोः विषये असिद्धे नैव भवतः — इति । यथा, कथ्-धातोः ल्यप्-प्रत्ययस्य प्रक्रियायाम् **अतो लोपः** (6.4.48) तथा **ल्यपि लघुपूर्वात्** (6.4.56) एते द्वे आभीय-सूत्रे समानाश्रयस्य अभावात् परस्परयोः विषये सिद्धौ एव भवतः -
.. code-block:: text
कथ (वाक्यप्रबन्धे, चुरादिः (10.389))
→ प्र + कथ + णिच् + क्त्वा [**सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्** (3.1.25) इति णिच् । ततः **समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वाप्रत्ययः]
→ प्र + कथ + इ + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इति क्त्वाप्रत्ययस्य ल्यबादेशः]
→ प्र + कथ् + इ + य [**अतो लोपः** (6.4.48) इति अकारलोपः]
→ प्र + कथ् + अय् + य [**ल्यपि लघुपूर्वात्** (6.4.56) इति अयादेशः । अत्र वस्तुतः **ल्यपि लघुपूर्वात्** (6.4.56) तथा **अतो लोपः** (6.4.48) इति द्वे अपि सूत्रे आभीय-असिद्धाधिकारे स्तः । परन्तु अत्र एतयोः द्वयोः सूत्रयोः मध्ये समानाश्रयः न वर्तते । तत्कथमिति चेत्, **अतो लोपः** (6.4.48) इति प्रथमसूत्रस्य स्थानी अस्ति 'कथ' इति अदन्तधातुः, निमित्तम् च णिच्-प्रत्ययः । अतः अत्र 'कथ, णिच्' एतौ आश्रयौ । **ल्यपि लघुपूर्वात्** (6.4.56) इति द्वितीयसूत्रस्य स्थानी णिच्-प्रत्ययः । तत्र निमित्ते तु द्वे स्तः - ल्यप्-प्रत्ययः, तथा च 'कथ' इति अङ्गम् । अत्र यद्यपि दृश्यमानम् अङ्गम् 'कथ्' इति हलन्तम् अस्ति, तथापि निमित्तस्य मूलस्वरूपम् (भूतपूर्वगतिः) एव अत्र स्वीक्रियते । अतः अस्य सूत्रस्य आहत्य त्रयः आश्रयाः भवन्ति - 'कथ, णिच्, ल्यप्' । अतः अत्र द्वयोः अपि सूत्रयोः आश्रयौ समानौ न स्तः, अपि तु द्वितीयसूत्रस्य आश्रये 'ल्यप्' इति अधिकरूपेण विद्यते । अस्यां स्थितौ अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः नास्ति इति निर्णयः क्रियते । अस्यां स्थितौ अत्र असिद्धत्त्वम् अपि नैव ग्राह्यम् । अतः अत्र **अतो लोपः** (6.4.48) इति प्रथमसूत्रेण कृतः लोपः द्वितीयसूत्रेण अवश्यं दृश्यते, अतश्च अत्र **ल्यपि लघुपूर्वात्** (6.4.56) इति सूत्रेण अयादेशः अवश्यं भवति ।]
→ प्रकथय्य
3. ****आभात्** इति शब्दस्य प्रयोजनम्** - 'आभात्' शब्देन अस्य असिद्धाधिकारस्य व्याप्तिः दीयते । अत्र 'भ' शब्देन सह 'आङ्' इत्यस्य योजनं कृत्वा 'आभात्' इति (पञ्चम्येकवचनमस्य) रूपम् जायते । अत्र 'आङ्' इत्यस्य अर्थः 'अभिविधिः' (inclusive boundary) इति अस्ति । अतः 'आभात्' इत्युक्ते, 'भ' इत्यस्य समाप्तिपर्यन्तम् । अत्र प्रयुक्तः 'भ' शब्दः स्वयम् **भस्य** (6.4.129) इति अधिकारं दर्शयति । अतः 'आभात्' इत्युक्ते 'भाधिकारस्य समाप्तिपर्यन्तम्' । भाधिकारः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रं यावत् प्रचलति, अतः तत्पर्यन्तम् अस्य असिद्धाधिकारस्य अपि प्रसक्तिः अस्ति । अस्मिन् अधिकारे विद्यमानानि सूत्राणि समानाश्रये कर्तव्ये परस्पराणां विषये असिद्धानि ज्ञेयानि - इति अत्र आशयः ।अतएव अस्य असिद्धत्वस्य निर्देशः 'आभीयम् असिद्धत्वम्' इति क्रियते । अत्र उक्तम् असिद्धत्वम् अस्मात् अधिकारात् बहिः नैव प्रवर्तते, इत्यपि अनेनैव स्पष्टी भवति । यथा 'राग' इति शब्दस्य सिद्धौ **घञि च भावकरणयोः** (6.4.27) तथा **अत उपधायाः** (7.2.116) इति द्वयोः सूत्रयोः मध्ये समानाश्रये सत्यपि **अत उपधायाः** (7.2.116) इति सूत्रम् आभीय-असिद्धाधिकारे नास्ति इति कारणात् **घञि च भावकरणयोः** (6.4.27) इति सूत्रं तं प्रति सिद्धमेव भवति -
.. code-block:: text
रन्जँ (रागे, भ्वादिः, (1.1154))
→ रन्ज् + घञ् [**भावे** (3.3.18) इति घञ्]
→ रन्ज् + अ [इत्संज्ञालोपः]
→ रज् + अ [**घञि च भावकरणयोः** (6.4.27) इति घञ्-प्रत्यये परे उपधानकारलोपः]
→ राज् + अ [**अत उपधायाः** (7.2.116) इति उपधावृद्धिः । अत्र वस्तुतः **घञि च भावकरणयोः** (6.4.27) तथा **अत उपधायाः** (7.2.116) इत्येतयोर्मध्ये 'रज्, घञ्' इति समानाश्रयः अवश्यम् वर्तते । अस्यां स्थितौ यदि **घञि च भावकरणयोः** (6.4.27) इदं सूत्रम् आभीय-अधिकारात् बहिः अपि असिद्धमेव स्वीक्रियते, तर्हि अत्र **अत उपधायाः** (7.2.116) इत्यस्य कृते पूर्वं कृतः नकारलोपः असिद्धः स्यात्, येन अत्र उपधावृद्धिः अपि नैव सम्भवेत् । परन्तु अस्मिन् सूत्रे विद्यमाने 'आभात्' इति शब्देन अस्य अधिकारस्य व्याप्तिः नियम्यते, अतः षष्ठाध्यायस्य चतुर्थपादात् अनन्तरम् **घञि च भावकरणयोः** (6.4.27) इदं सूत्रम् (समानाश्रये सत्यपि) सिद्धमेव भवति । अतः अत्र तेन कृतः नकारलोपः **अत उपधायाः** (7.2.116) इत्यनेन अवश्यं दृश्यते ।]
→ राग् + अ [**चजोः कु घिण्ण्यतोः** (7.3.52) इति कुत्वम्]
→ राग
**वार्त्तिकम् - **
आभीय-असिद्धाधिकारस्य अपवादरूपेण इदं वार्त्तिकं वार्त्तिकारेण पाठितम् अस्ति । 'वुग्-युटौ उवङ्-यणोः सिद्धौ वक्तव्यौ' इति अस्य पदच्छेदः । अस्मिन् वार्त्तिके द्वौ नियमौ उक्तौ स्तः । प्रत्येकं नियमस्य अर्थः उदाहरणं च एतादृशम् -
1. **वुगागमः उवङ्-आदेशस्य कृते सिद्धः ज्ञेयः ।** **भुवो वुग् लुङ्-लिटोः** (6.4.88) इत्यनेन निर्दिष्टः वुक्-आगमः **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इत्यनेन निर्दिष्टस्य उवङ्-आदेशस्य कृते सिद्धः स्यात् इत्याशयः । भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् अस्य प्रयोगः दृश्यते । प्रक्रिया इयम् -
.. code-block:: text
भू (सत्तायाम्, (1.1))
→ भू + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
→ भू + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति तिबादेशः]
→ भू + णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति णल्-आदेशः]
→ भू + अ [इत्संज्ञालोपः]
→ भू वुक् + अ [**भुवो वुग्लुङ्लिटोः** (6.4.88) इति वुगागमः । अयं द्वित्वात् पूर्वं भवति । अत्र **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इत्यनेन उवङ्-आदेशस्यापि प्रसक्तिः अस्ति । द्वयोः अपि एतयोः सूत्रयोः 'अजादिप्रत्ययः, भू-धातुः' इति समानाश्रयः वर्तते । अस्यां स्थितौ यदि वुगागमः उवङ्-आदेशं प्रति असिद्धः स्यात् तर्हि अत्र 'भू + अ' इत्येव अस्ति इति मत्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** इत्यनेन उवङ्-आदेशे कृते 'भुव् वुक् अ' इति अनिष्टा स्थितिः प्रसज्येत । अतः अत्र वार्त्तिककारेण वुगागमः उवङ्-आदेशस्य कृते सिद्धः निर्दिष्टः अस्ति । अस्य सिद्धत्वात् 'भू वुक्' इत्यत्र ऊकारान्तत्वस्य अभावात् उवङ्-आदेशः अपि न भवति इत्याशयः ।]
→ भूव् भूव् अ [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्]
→ भू भूव् अ [**हलादिः शेषः** (7.4.60) इतो वकारः लुप्यते]
→ भु भूव् अ [**ह्रस्वः** (7.4.59) इति ह्रस्वादेशः]
→ भ भूव् अ [**भवतेरः** (7.4.73) इति उकारस्य अकारः]
→ बभूव [**अभ्यासे चर्च** (8.4.54) इति जश्त्वे बकारः]
2. **युडागमः यणादेशस्य कृते सिद्धः ज्ञेयः । ** **दीङो युडचि क्ङिति** (6.4.63) इत्यनेन निर्दिष्टः युट्-आगमः **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इत्यनेन निर्दिष्टस्य यणादेशस्य कृते सिद्धः स्यात् इत्याशयः । अस्य प्रयोगः दी-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् दृश्यते । प्रक्रिया इयम् -
.. code-block:: text
दीङ् (क्षये, आत्मनेपदी, (4.29))
→ दी + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
भू (सत्तायाम्, (1.1))
→ दी + त [आत्मेनपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति त-आदेशः]
→ दी + एश् [**लिटस्तझयोरेशिरेच्** (3.4.82) इति एश्-आदेशः । **अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः]
→ दी + युट् ए [**दीङो युडचि क्ङिति** (6.4.63) इत्यनेन दीङ्-धातोः विहितस्य अजादि-कित्-प्रत्ययस्य युडागमः । अत्र लिट्-लकारस्य प्रत्ययाः **असंयोगाल्लिट् कित्** (1.2.5) इत्यनेन आतिदेशिकं कित्त्वं प्राप्नुवन्ति, अतः अत्र किद्विशिष्टं कार्यं सम्भवति । इदानीम् अत्र अस्मिन्नेव स्थले (इत्युक्ते, युगपत्) **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति यणादेशस्य अपि प्रसक्तिः अस्ति । द्वयोरपि सूत्रयोः 'अजादि-प्रत्ययः' तथा 'दीङ्-धातुः' इति समानाश्रयः अपि वर्तते । अस्यां स्थितौ यदि आभीय-असिद्धत्त्वम् आश्रित्य अत्र युडागमः यणादेशं प्रति असिद्धः स्यात्, तर्हि 'दी + अ' इत्येव स्थितिः अस्ति इति मत्वा **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इत्यनेन यणादेशे कृते 'दिय् युट् अ' इति अनिष्टा स्थितिः प्रसज्येत । अतः अत्र वार्त्तिककारेण युडागमः यणादेशस्य कृते सिद्धः निर्दिष्टः अस्ति । अस्य सिद्धत्वात् 'दी युट्' इत्यत्र अङ्गस्य ईकारान्तत्वाभावात् यणादेशः न भवति इत्याशयः ।]
→ दी + य् ए [इत्संज्ञालोपः]
→ दी दी + य् ए [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्]
→ दिदीये [**ह्रस्वः** (7.4.59) इति ह्रस्वादेशः]
**'असिद्धं बहिरङ्गमन्तरङ्गे' इति परिभाषायाः आभीयाधिकारे असिद्धत्त्वम्**
**असिद्धं बहिरङ्गमन्तरङ्गे** इति काचित् परिभाषा परिभाषेन्दुशेखरे सङ्कलिता अस्ति । अनया परिभाषया 'जातं जायमानं वा बहिरङ्गं कार्यम् जनिष्यमाणस्य अन्तरङ्गकार्यस्य कृते असिद्धम् भवति' इति ज्ञाप्यते । अस्याः परिभाषायाः ज्ञापकरूपेण वैयाकरणैः **वाह ऊठ्** (6.4.132) इति सूत्रं स्वीक्रियते । इदं सूत्रम् स्वयमेव आभीय-असिद्धाधिकारे विद्यते, अतः ****असिद्धं बहिरङ्गमन्तरङ्गे** इति परिभाषा अपि आभीय-असिद्धाधिकारस्था एव स्वीकर्तव्या । ** इत्युक्ते, **आभीयसूत्राणां बहिरङ्ग-अन्तरङ्गसम्बन्धस्य समये **असिद्धं बहिरङ्गमन्तरङ्गे** इति परिभाषा स्वयम् **असिद्धवदत्राभात्** (6.4.22) इत्यनेन असिद्धा भवति, अतश्च आभीयं बहिरङ्गकार्यम् अन्यत् आभीयम् अन्तरङ्गकार्यं प्रति अवश्यं सिद्धम् ज्ञेयम्** - इति । यथा, 'पा' धातो' क्वसुँ' प्रत्ययान्तरूपस्य द्वितीयाबहुवचनस्य प्रक्रियायाम् **वसोः सम्प्रसारणम्** (6.4.131) इति बहिरङ्गसूत्रम् **आतो लोप इटि च** (6.4.64) इति अन्तरङ्गसूत्रं प्रति अवश्यम् सिद्धम् भवति -
.. code-block:: text
पा (पाने, भ्वादिः (1.1074))
→ पा + लिट् [**छन्दसि लिट्** (3.2.105)
→ पा + क्वसुँ + शस् [**क्वसुश्च** (3.2.107) । द्वितीयाबहुवचनस्य निर्देशार्थम् **स्वौजसमौट्...** (4.1.2) इति शस्-प्रत्ययः]
→ पा + वस् + अस् [इत्संज्ञालोपः]
→ पा पा वस् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्]
→ प पा वस् [**ह्रस्वः** (7.4.59) इति ह्रस्वादेशः । अत्र वस्तुतः 'वस्' इति वलादि-आर्धधातुकप्रत्ययः, अतः अत्र **वस्वेकाजाद्घसाम्** (7.2.67) इति इडागमस्य प्राप्तिः अस्ति, परन्तु अग्रिमसोपाने जायमानेन **वसोः सम्प्रसारणम्** (6.4.131) इति बहिरङ्गकार्येण सम्प्रसारणे कृते इडागमस्य निमित्तत्वं (वलादित्त्वम्) विनश्यति , अतः अत्र **अकृतव्यूहाः पाणिनीयाः** इति परिभाषाम् अवलम्ब्य आदौ एव इडागमः न क्रियते ।]
→ प पा उस् अस् [**वसोः सम्प्रसारणम्** (6.4.131) इति भसंज्ञक-अङ्गस्य अन्ते विद्यमानस्य क्वसु-प्रत्ययस्य सम्प्रसारणम् । ]
→ प प् उस् अस् [**आतो लोप इटि च** (6.4.64) इति अजादि-आर्धधातुक-कित्-प्रत्यये परे आकारस्य लोपः । अत्र **वसोः सम्प्रसारणम्** (6.4.131) इत्यस्य आश्रयौ 'शस्,वस्' एतौ स्तः । **आतो लोप इटि च** (6.4.64) इत्यस्य आश्रयौ तु 'पपा, वस् (उस्-इत्यस्य मूलरूपम्)' एतौ स्तः। अतः अत्र एतयोः सूत्रयोः मध्ये समानाश्रयः नास्ति, अतश्च **वसोः सम्प्रसारणम्** (6.4.131) इति सूत्रम् **आतो लोप इटि च** (6.4.64) इत्यस्य कृते सिद्धमेव वर्तते । परन्तु अत्र **वसोः सम्प्रसारणम्** (6.4.131) इत्यस्य कृते 'अस्' इति बहिर्भूतं निमित्तम् आवश्यकम्, अतः तत् बहिरङ्गम् कार्यम् भवति; तस्य अपेक्षया **आतो लोप इटि च** (6.4.64) इति सूत्रम् अन्तरङ्गम् विद्यते । अस्यां स्थितौ वस्तुतः आदौ जातं बहिरङ्गं कार्यम् जनिष्यमाणस्य अन्तरङ्गकार्यस्य कृते **असिद्धं बहिरङ्गमन्तरङ्गे** इति परिभाषया असिद्धमेव भवेत् । इत्युक्ते, यद्यपि अत्र **असिद्धवदत्राभात्** (6.4.22) इत्यनेन असिद्धत्त्वं नास्ति, तथापि **असिद्धं बहिरङ्गमन्तरङ्गे** इत्यनेन असिद्धत्वं भवेदेव । परन्तु अत्र एते द्वे अपि सूत्रे आभीय-असिद्धाधिकारे भवतः, अस्मिन् अधिकारे च **असिद्धवदत्राभात्** (6.4.22) इत्यनेन **असिद्धं बहिरङ्गमन्तरङ्गे** इति परिभाषा स्वयमेव असिद्धा भवति ! अतः **वसोः सम्प्रसारणम्** (6.4.131) इति बहिरङ्गं कार्यम् **आतो लोप इटि च** (6.4.64) इति अन्तरङ्गकार्येण अवश्यं दृश्यते, अतश्च सम्प्रसारणे कृते ततः आकारलोपं कृत्वा इष्टरूपं सिद्ध्यति ।]
→ पपुषः [**ससजुषो रुः** (8.2.66) इति रुत्वम्, **आदेशप्रत्यययोः** (8.3.59) इति षत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ।]
अनेन प्रकारेण 'पपुषः' इति शब्दस्य सिद्धौ **असिद्धं बहिरङ्गमन्तरङ्गे** इत्यस्याः परिभाषायाः असिद्धत्त्वम् स्वीकृत्य एव प्रक्रिया दीयते ।
Sutrartha (English)
-------------------
All the sutras present from here onward till the the end of this पाद should be considered as असिद्ध towards each other when they are invoked in such a way that their आश्रयs are exactly the same.
Vasu English Summary
--------------------
The change which is a अङ्ग (stem) will undergo by the application of any of the rules from this sūtra up to भस्य (6.4.129), is to be considered as not to have taken effect when we have to apply any other rule of this very section (6.4.23) to (6.4.129).
Vasu English Translation
------------------------
The change which is a अङ्ग (stem) will undergo by the application of any of the rules from this sūtra up to भस्य (6.4.129), is to be considered as not to have taken effect when we have to apply any other rule of this very section (6.4.23) to (6.4.129).
This is an *adhikara* rule. The above translation is given according to Prof. Bohtlingk. According to *Kasika* the असिद्धवत् extends up to the end of the chapter. Dr. Ballantyne translates it thus :-"The rules, reckoning from this one to the end of the chapter, are called *Abhiya*, because the chapter ends with a series of rules dependant on the aphorism '*bhasya*' (6.4.129). When that (i. e. one of the *abhiya* rules) is to be brought into operation, having the same place for coming into operation as another *abhiya*, which has already taken effect, that one which has taken effect, shall be regarded as not having taken effect".
The word आभात् means 'up to भ' i. e. upto (6.4.129). in which last *sutra* the word भ occurs : i. e. in applying the rules taught upto (6.4.129). The word अत्र shows that the two rules must have the same आश्रय or place of operation, where their places of operation are different, they are not *asiddha* to each other. The word असिद्ध shows that an *utsarga* or general rule must take effect, as if existing in spite of a special rule, and that an '*adesa*' or substitution taught by another rule should not be considered to have taken effect in applying the special rule. Thus in forming एधि and शाधि (Imperative 2nd person) ए is first substituted for अस् 'to be' by (6.4.119): and for शास् by (6.4.35) and then is धि added by (6.4.101). The latter rule says that धि is added in the Imperative, only after those roots which end in a consonant of झल् class. Now अस् and शास् end in a *jhal* consonant, and can take धि, but their substitute ए and शा end in a vowel and not a consonant and should not take धि ॥ The present rule helps us here, and for the application of धि (V1.4.101) the substitution of ए for अस् or शा for शास् should be considered as *asiddha* or not to have taken effect. Similarly in आगाहि (Vedic Imperative, शप् being elided by (2.4.73) and जहि from गम् and हन्, the nasal being elided in the case of गम्, (6.4.36) and ज being substituted for हन् (6.2.36) we have the stems आग and ज, which ending in अ would require the elision of हि by (6.4.105). But since the change of ज &c is not regarded as having been accomplished, the elision of हि does not take place.
Why do we say आभात् 'up to (6.4.12)'? In applying any other rule the changes ordained by *abhiya* rules would not be considered as *asiddha*. Thus अभाजि and रागः from भञ्ज् and रञ्ज् ॥ Here the nasals of *ranj* and *bhanj* have been elided by (6.4.27) — (6.4.28) and (6.4.33) before the affixes घञ् and चिण् respectively, and we have the stems रज्, and भज् to which rule (7.2.116) applies and we have *Vriddhi* of अ preceding the final consonant. Had the elision of the nasal been considered as non-effective for the purposes of (7.2.116), then अ could not have taken *Vriddhi*, as it would not then be उपधा or penultimate.
Why do we use the word अत्र in the aphorism? The rules are *asiddha* to each other with regard to a common place of operation and not otherwise. Thus पा + वस् (क्वसु) + अस् (शस् Accusative Plural ). = पपा + उस् + अस् ((6.4.131) vocalisation of व). If this उ substitute be considered as *asiddha* for the purposes of *sutra* (6.4.64), then we cannot elide the आ of पा, because आ is not then followed by a vowel (उ being non-existent). उ however is not considered as *asiddha*, and आ being thus elided, we have पपुषः in पपुषः पश्य ॥ Similarly चि+ वस् + अस् = चिचि + उस् + अस् ॥ Here also उ is not considered *asiddha*, and we apply rule (6.4.82), and substitute य for उ as चिच्युषः पश्य ॥ Similarly लू + वस् + अस् = लुलू + उस् + अस् = लुलुवुषः ॥ Here also उ is not considered *asiddha*, and we change the ऊ of लू into उव् by (6.4.77). In all the above three cases, the elision of आ, or change of इ to य, or of ऊ to उव्, takes place in reference to वस्, while the *samprasarana* of व takes place with reference to the Accusative plural case-ending अस् which makes the stem *Bha*. So they have not the same आश्रय ॥ Nor does the maxim of असिद्धं बहिरङ्गमन्तरङ्गे apply here, because the special maxim of *Abhiya* governs the *sutras* of this section, so there cannot be the relation of *Antaranga* and *Bahiranga* among these *sutras*, simultaneously with their being *asiddha* to each other.
Vart:- The substitute वुक् (6.4.88), and युट् (6.4.63) should however be considered as not *asiddha*, and rule (6.4.77) teaching उवङ् and (6.4.82), teaching य् substitution should not be applied simultaneously with them. Thus भू-बभूव, बभूवतुः बभूवः with वुक्, and उपदिदीये, उपदिदीयाते, उपदिदीयिरे with युट् of (6.4.63). In the case of भू, when वुक् is added, there is not the addition of उवङ्, and in the case of दीङ्, when युट् is added, there is not यणादेश ॥
The आ in आभात् has the force of limit inclusive, so that, the *asiddha* rule applies to the *sutras* governed by भ ॥
Bhashya
-------
असिद्धवदत्राभात् (3020) (अधिकारमर्यादाधिकरणम्) (असिद्धवचनाक्षेपभाष्यम्) असिद्धवचनं किमर्थम् ? (6520 असिद्धवचनप्रयोजनवार्तिकम् ॥ 1 ॥) - असिद्धवचने उक्तम् - किमुक्तम् । तत्र तावदुक्तम् - ।षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं इति । इहापि - असिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च । तत्र - आदेशलक्षणप्रतिषेधार्थं तावत् - आगहि, जहि । गतं, गतवानिति । अनुनासिकलोपे जभावे च कृते अतो लोपः (6.4.48) अतो हेः (105) इति च प्राप्नोति । असिद्धत्वान्न भवति । उत्सर्गलक्षणभावार्थं च - एधि, शाधीति । अस्तिशास्त्योरेत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वाद्भवति ॥ (अत्रग्रहणाक्षेपभाष्यम्) अथ अत्र ग्रहणं किमर्थम् ? (6521 अत्रग्रहणप्रयोजनवार्तिकम् ॥ 2 ॥) - अत्रग्रहणं विषयार्थम् - विषयः प्रतिनिर्दिश्यते । अत्र - एतस्मिन्नाभाच्छास्त्रे आभाच्छास्त्रमसिद्धं यथा स्यात् । इह मा भूत् - अभाजि, रागः, उपबर्हणमिति ॥ (सूत्रप्रयोजनाक्षेपभाष्यम्) कानि पुनरस्य योगस्य प्रयोजनानि ? (6522 सूत्रप्रयोजनवार्तिकम् ॥ 3 ॥) - प्रयोजनं शैत्वं धित्वे - शाभाव एत्वं च धित्वे प्रयोजनम् । एधि, शाधीति । अस्तिशास्त्योरेत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वाद्भवति ॥ (प्रयोजनाक्षेपभाष्यम्) शाभावस्तावन्न प्रयोजयति । एवं वक्ष्यामि -शास् हौ -शा हाविति । यत्वभूतः सकारः, तत्र सात् धित्वम्, धि च (8.2.25) इति सकारस्य लोपः । अथवा - आ हौ इति वक्ष्यामि । एवमपि सकारस्य प्राप्नोति । उपधाया इति वर्तते । तत्रोपधाया आत्वे कृते सात् धित्वम्, धि चेति सकारलोपः । अथवा न हौ इति वक्ष्यामि । तत्रेत्वे प्रतिषिद्धे सात् धित्वम्, धि चेति सकारलोपः ॥ एत्वमपि लोपापवादो विज्ञास्यते, न च सकारस्य लोपः प्राप्नोति ॥ (सूत्रप्रयोजनभाष्यम्) करोतेर्हिलोप उत्त्वे प्रयोजनम् । कुर्वित्यत्र हिलोपे कृते सार्वधातुके परे उकार इति उत्वं न प्राप्नोति । असिद्धत्वाद्भवति ॥ (प्रयोजनाक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम् । वक्ष्यति तत्र सार्वधातुकग्रहणस्य प्रयोजनम् - सार्वधातुके भूतपूर्वमात्रेऽपि यथा स्यादुत्वम् ॥ (6523 सूत्रप्रयोजनवार्तिकम् ॥ 4 ॥) - तास्तिलोपेण्यणादेशा अडाडि्वधौ - तलोप - अस्तिलोप - इणश्च यणादेशः - अडाडि्वधौ प्रयोजनम् । अकारि, ऐहि -इति । तलोपे कृते लुङीति अडाटौ न प्राप्नुतः । अस्तिलोप - इणश्च यणादेशः प्रयोजनम् । आसन्, आयन् - इति । इणस्त्योर्यण्लोपयोरनजादित्वादाट् न प्राप्नोति । असिद्धत्वाद्भवति ॥ (प्रयोजनाक्षेपभाष्यम्) अस्तिलोपस्तावन्न प्रयोजयति । आचार्यप्रवृत्तिर्ज्ञापयति - लोपादाट् बलीयानिति, यदयं श्नसोरल्लोपः (6.4.111) इति तपरकरणं करोति ॥ इण्यणादेशश्चापि न प्रयोजयति । यणादेशे योगविभागः करिष्यते - इणो यण् भवति । ततः - एरनेकाचः, एरनेकाच इणो यण् भवति । ततः - असंयोगपूर्वस्य असंयोगपूर्वस्य यण्भवति, एरनेकाच इत्येव ॥ (प्रकारान्तरेण प्रयोजनाक्षेपभाष्यम्) सर्वेषामेव परिहारः - उपदेश इति वर्तते । तत्रोपदेशावस्थायामेवाडाटौ भवतः । अथवा - आर्धधातुक इति वर्तते । अथवा - लुङ्लङ्लृङ्क्ष्वडिति द्विलकारको निर्देशः । लुङादिषु लकारादिष्विति ॥ सर्वथा ऐज्यत - औप्यत इति न सिध्यति । वक्ष्यत्येतत् - ।अजादीनामटा सिद्धम् इति ॥ (6524 सूत्रप्रयोजनवार्तिकम् ॥ 5 ॥) - अनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च - अनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च प्रयोजनम् । आगहि, जहि । गतः, गतवानिति । अनुनासिकलोपे कृते जभावे च अतो हेः अतो लोपः इति च लोपः प्राप्नोति । असिद्धत्वान्न भवति ॥ (प्रयोजनाक्षेपभाष्यम्) अनुनासिकलोपस्तावन्न प्रयोजयति । अल्लोपे उपदेशे इति वर्तते । यद्युपदेश इति वर्तते, धिनुतः - कृणुतः - अत्र न प्राप्नोति । नैष दोषः । नोपदेशग्रहणेन प्रकृतिरभिसंबध्यते । किं तर्हि ? आर्धधातुकमभिसंबध्यते । आर्धधातुकोपदेशे यदकारान्तमिति ॥ (प्रयोजनाक्षेपभाष्यम्) जभावश्चापि न प्रयोजयति । हिलोपे योगविभागः करिष्यते - अतो हेः । ततः - उतश्च, हेर्लुग्भवतीति । ततः - प्रत्ययात् । प्रत्ययादित्युभयोः शेषः ॥ (वार्तिकरचनाक्षेपसमाधानभाष्यम्) अथ किमर्थमनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च इत्युच्यते, न अनुनासिकलोपजभावावल्लोपहिलोपयोः इत्येवोच्येत ? संख्यातानुदेशो मा भूदिति । अनुनासिकलोपो हिलोपे प्रयोजयति - मण्डूकि ताभिरागहि, रोहिदश्व इहागहि, मरुदि्भरग्न आगहि ॥ (6525 सूत्रप्रयोजनवार्तिकम् ॥ 6 ॥) - संप्रसारणमवर्णलोपे प्रयोजनम् - मघोनः पश्य, मघोना, मघोने । संप्रसारणे कृते यस्य - इति लोपः प्राप्नोति । असिद्धत्वान्न भवति ॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् । वक्ष्यत्येतत् - मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति ॥ (6526 सूत्रप्रयोजनवार्तिकम् ॥ 7 ॥) - रेभाव आल्लोपे प्रयोजनम् - किंस्विद् गर्भं प्रथमं दध्र आपः । रेभावे कृते आतो लोप इटि च (6.4.64) इत्याकारलोपो न प्राप्नोति । असिद्धत्वाद्भवति ॥ (प्रयोजनाक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम् । छान्दसो रेभावः, लिट् च छन्दसि सार्वधातुकमपि भवति । तत्र सार्वधातुकमपित् (1.2.4) ङिद्भवतीति ङित्त्वम्, श्नाभ्यस्तयोरातः (6.4.112) इत्याकारलोपो भवति ॥ (अधिकारप्रयोजनाधिकरणम्) (सूत्राभावे दोषोपक्रमभाष्यम्) यदि तर्हि अयं योगो नास्ति - (सूत्रासत्त्वे दोषप्रतिपादकं श्लोकवार्तिकम्) उत्तु कृञ्ञः कथमोर्विनिवृत्तौ इह - कुर्वः, कुर्मः, कुर्यात् - इति, उकारलोपे कृते सार्वधातुकपर उकार इति उत्वं न प्राप्नोति ॥ (सूत्रासत्वे दोषप्रतिपादकं श्लोकवार्तिकम्) णेरपि चेटि कथं विनिवृत्तिः । इह च - कारयतेः कारिष्यते णेरनिटी (6.4.51) इति णिलोपो न प्राप्नोति ॥ (सूत्रासत्वे दोषप्रतिपादकं श्लोकवार्तिकम्) अब्रुवतस्तव योगमिमं स्यात् लुक् च चिणो नु कथं न तरस्य ॥ 1 ॥ इह च - अकारितराम् - अहारितराम् -इति चिण उत्तरस्य तरस्य लुक् कथं न स्यात् ॥ (दोषवारकं श्लोकवार्तिकम्) चं भगवान्तकृतवांस्तु तदर्थं तेन भवेदिटि णेर्विनिवृत्तिः । इह - स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽञ्ञ्झनग्रहदृशां वा चिण्वदिट् च (6.4.62) । किञ्च ? णिलोपश्च ॥ (दोषवारकं श्लोकवार्तिकम्) म्वोरपि ये च तथाऽप्यनुवृत्तौ इहापि - कुर्वः, कुर्मः, कुर्यात् - इति म्वोर्ये चेति, तदप्यनुवर्तिष्यते ॥ (दोषवारकं श्लोकवार्तिकम्) चिण्लुकि च क्ङित एव हि लुक् स्यात् ॥ 2 ॥ चिण्लुक्यपि प्रकृतं क्ङिद्ग्रहणमनुवर्तते । क्व प्रकृतम् ? गमहनजनखनघसां लोपः क्ङित्यनङि (6.4.98) इति । तद्वै सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । चिण इत्येषा पञ्चमी क्ङितीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति ॥ (संग्रहः) उत्तु कृञ्ञः कथमोर्विनिवृत्तौ णेरपि चेटि कथं विनिवृत्तिः । अब्रुवतस्तव योगमिमं स्यात् लुक् च चिणो नु कथं न तरस्य ॥ 1 ॥ चं भगवान् कृतवांस्तु तदर्थं तेन भवेदिटि णेर्विनिवृत्तिः । म्वोरपि ये च तथाऽप्यनुवृत्तौ चिण्लुकि च क्ङित एव हि लुक् स्यात् ॥ 2 ॥ (6527 सूत्रारम्भे उपसंख्यानवार्तिकम् ॥ 8 ॥) - आरभ्यमाणेऽप्येतस्मिन्योगे सिद्धं वसुसंप्रसारणमज्विधौ - आरभ्यमाणेऽप्येतस्मिन् योगे वसु संप्रसारणमज्विधौ सिद्धं वक्तव्यम् । किं प्रयोजनम् ? पपुषः पश्य, तस्थुषः पश्य, निन्युषः पश्य, चिच्युषः पश्य, लुलुवुषः पश्य, पुपुवुषः पश्य - इति । वसोः संप्रसारणे कृते अचि इत्याकारलोपादीनि यथा स्युरिति ॥ किं पुनः कारणं न सिध्यन्ति ? (6528 उपसंख्यानकारणवार्तिकम् ॥ 9 ॥) - बहिरङ्गलक्षणत्वादसिद्धत्वाच्च - बहिरङ्गलक्षणं चैव हि वसुसंप्रसारणमसिद्धं च ॥ (6529 उपसंख्यानवार्तिकम् ॥ 10 ॥) - आत्वं यलोपाल्लोपयोः पशुषो न वाजान् चाखायिता चाखायितुम् - आत्वं यलोपाल्लोपयोः सिद्धं वक्तव्यम् । किं प्रयोजनम् ? पशुषो न वाजान् । पशुष इत्यात्वस्यासिद्धत्वात् आतो धातोः (6.4.140) इत्याकारलोपो न प्राप्नोति । चाखायिता - चाखायितुमिति आत्वस्यासिद्धत्वात् यस्य हलः (6.4.49) इति यलोपः प्राप्नोति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) समानाश्रयवचनात्सिद्धम् । समानाश्रयमसिद्धं भवति, व्याश्रयं चैतत् । इह तावत् - पपुषः पश्य, तस्थुषः पश्य, निन्युषः पश्य, चिच्युषः पश्य, युयुवुषः पश्य, लुलुवुषः पश्य - इति - वसावाकारलोपादीनि, वस्वन्तस्य विभक्तौ संप्रसारणम् । पशुष इति - विटि आत्वं, विडन्तस्य विभक्तावाकारलोपः । चाखायिता - चाखायितुमिति - यङ्यात्वम्, यङन्तस्य चार्धधातुके लोप इति ॥ किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? अत्र ग्रहणसार्मथ्यात् । ननु चान्यदत्रग्रहणस्य प्रयोजनमुक्तम् । किमुक्तम् ? अत्र ग्रहणं विषयार्थमिति । अधिकारादप्येतत्सिद्धम् - इति ॥ (उपसंख्यानानर्थक्यसाधकभाष्यम्) इह - पपुषः, चिच्युषः, लुलुवुषः, द्वौ हेतू उपदिष्टौ - बहिरङ्गलक्षणञ्ञ्चासिद्धत्वं चेति । तत्र भवेदसिद्धत्वं प्रयुक्तम्, बहिरङ्गलक्षणं तु नैव प्रत्युक्तम् । नैष दोषः । बहिरङ्गमन्तरङ्गमिति च प्रतिद्वन्द्विभाविनावेतावर्थौ । कथम् ? सत्यन्तरङ्गे बहिरङ्गम्, सति च बहिरङ्गेऽन्तरङ्गम् । न चात्रान्तरङ्गबहिरङ्गयोर्युगपत्समवस्थानमस्ति । नानभिनिर्वृत्ते बहिरङ्गेऽन्तरङ्गं प्राप्नोति । तत्र निमित्तमेव बहिरङ्गमन्तरङ्गस्य ॥ (6530 उपसंख्यानवार्तिकम् ॥ 10 ॥) - ह्रस्वयलोपाल्लोपाश्चायादेशे ल्यपि सिद्धा वक्तव्याः - प्रशमय्य गतः, प्रतमय्य गतः, प्रबेभिदय्य गतः, प्रचेच्छिदय्य गतः, प्रस्तनय्य गतः, प्रगदय्य गतः । ह्रस्वयलोपाल्लोपानामसिद्धत्वात् ल्यपि लघुपूर्वात् (6.4.56) इत्ययादेशो न प्राप्नोति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) अत्राप्येष परिहारः - समानाश्रयवचनात्सिद्धमिति । कथम् ? णावेति विधयः, णेर्ल्यप्ययादेशः ॥ (6531 उपसंख्यानवार्तिकम् ॥ 11 ॥) - वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ - बभूवतुः, बभूवुः । वुकोऽसिद्धत्वादुवङादेशः प्राप्नोति । उपदिदीये, उपदिदीयाते । युटोऽसिद्धत्वाद्यणादेशः प्राप्नोति ॥ (वुकः सिद्धत्वोपसंख्यानाक्षेपभाष्यम्) वुकस्तावन्न वक्तव्यम् । वुकं न वक्ष्यामि । एवं वक्ष्यामि - भुवो लुङि्लटोरूदुधायाः इति । अत्रोवङादेशे कृते या उपधा तस्याः स्यात् ॥ (प्रत्याक्षेप - समाधानभाष्यम्) एवमपि कुतो नु खल्वेतत् - उवङादेशे कृते या उपधा तस्या ऊत्वं भविष्यति, न पुनः सांप्रतिकी योपधा तस्याः स्यात् - भकारस्येति । नैष दोषः । ओरिति वर्तते, तेनोवर्णस्य भविष्यति ॥ (पुनः प्रत्याक्षेप - समाधानभाष्यम्) भवेत्सिद्धं - बभूवतुः, बभूवुः । इदं तु न सिद्ध्यति - बभूव, बभूविथेति । किं कारणम् ? गुणवृद्ध्योः कृतयोरुवर्णाभावात् । नात्र गुणवृद्धी प्राप्नुतः । किं कारणम् ? क्ङिति च (1.1.5) इति प्रतिषेधात् । कथं कित्त्वम् ? इन्धिभवतिभ्यां च (1.2.6) इति । तद्वै कित्त्वं वयं प्रत्याचक्ष्महे वुका । इह तु कित्त्वेन वुक् प्रत्याख्यायते । किं पुनरत्र न्याय्यम् ? वुग्वचनमेव न्याय्यम् । सति हि कित्त्वे स्यातामेवात्र गुणवृद्धी । किं कारणम् ? इग्लक्षणयोर्गुणवृद्ध्योः स प्रतिषेधः, न चैषा इग्लक्षणा वृद्धिः । एवं तर्हि नार्थो वुका नापि कित्त्वेन । स्तामत्र गुणवृद्धी । गुणवृद्ध्योः कृतयोरवावोश्च कृतयोर्या उपधा तस्या ऊत्वं भविष्यति । कथम् ? ओरित्यत्रावर्णमपि प्रतिनिर्दिश्यते । इहापि तर्हि प्राप्नोति - कीलालपः पश्य, शुभंयः पश्येति । लोपोऽत्र बाधको भविष्यति । इह तर्हि प्राप्नोति - कीलालपौ, कीलालपा इति । एवं तर्हि व्योरिति वर्तते, तेनोवर्णं विशेषयिष्यामः - व्योः-ओः-इरिति । इहेदानीमोरित्यनुवर्तते, व्योरिति निवृत्तम् ॥ (युटः सिद्धत्वोपसंख्यानाक्षेपभाष्यम्) युटश्चापि न वक्तव्यम् । युड्वचनसार्मथ्यान्न भविष्यति । अस्त्यन्यत् युड्वचने प्रयोजनम् । किम् ? द्वयोर्यकारयोः श्रवणं यथा स्यात् । न व्यञ्जनपरस्यानेकस्यैकस्य वा यकारस्य श्रवणं प्रति विशेषोऽस्ति ॥ (असिद्धत्वमर्यादाजिज्ञासाभाष्यम्) किं पुनः प्राग्भादसिद्धम्, आहोस्वित्सह तेन ? कुतः पुनरयं सन्देहः ? आङाऽयं निर्देशः क्रियते, आङ् च पुनः सन्देहं जनयति । तद्यथा - आ पाटलिपुत्रात् वृष्टो देव इति सन्देहः - किं प्राक् पाटलिपुत्रात् - सह तेनेति । एवमिहापि सन्देहः - प्राग्भात् - सह तेनेति । कश्चात्र विशेषः ? (6532 आङो मर्यादार्थकत्वे दोषवार्तिकम् ॥ 12 ॥) - प्राग्भादिति चेच्छुनामघोनाभूगुणेषूपसंख्यानम् - प्राग्भादिति चेच्छुनामघोनाभूगुणेषूपसंख्यानं कर्तव्यम् । शुनः पश्य, शुना, शुने । संप्रसारणे कृते अल्लोपोऽनः (6.4.134) इति प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वम्, असिद्धत्वात्तस्य न संयोगाद्वमन्तात् (137) इति प्रतिषेधो भविष्यति ॥ (दोषभाष्यम्) यस्यापि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः । कथम् ? नास्त्यत्र विशेषः - अल्लोपेन निवृत्तौ सत्याम्, पूर्वत्वेन वा निवृत्तौ ॥ (प्रत्याक्षेपभाष्यम्) अयमस्ति विशेषः - अल्लोपेन निवृत्तौ सत्यामुदात्तनिवृत्तिस्वरः प्रसज्येत ॥ (प्रत्याक्षेपनिरासभाष्यम्) नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणम् ? न गोश्वन्साववर्ण - (6.1.182) इति प्रतिषेधात् ॥ (निरासनिरसनभाष्यम्) नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि ? तृतीयादिस्वरस्य ॥ (प्रत्याक्षेपभाष्यम्) यत्र तर्हि तृतीयादिस्वरो नास्ति - शुनः पश्येति ॥ (प्रत्याक्षेपनिरासभाष्यम्) एवं तर्हि न वयं लक्षणस्य प्रतिषेधं शिष्मः । किं तर्हि ? येन केनचिल्लक्षणेन प्राप्तस्य विभक्तिस्वरस्यायं प्रतिषेधः ॥ (आक्षेपनिरासभाष्यम्) यत्र तर्हि विभक्तिस्वरो नास्ति - बहुशुनीति ॥ (प्रत्याक्षेपभाष्यम्) यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत । (प्रत्याक्षेपापोहभाष्यम्) नैवं शक्यम् । इहापि प्रसज्येत - कुमारीति ॥ (आक्षेपभाष्यम्) एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति - नोदात्तनिवृत्तिस्वरः शुन्यवतरतीति, यदयं श्वन्शब्दं गौरादिषु पठति । अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यात् ङीपैव ॥ (दोषाक्षेपभाष्यम्) मघोनः पश्य, मघोना, मघोने, संप्रसारणे कृते यस्य - इति लोपः प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वं, असिद्धत्वात्तस्य न भविष्यति ॥ यस्यापि हि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः । कथम् ? वक्ष्यत्येतत् - मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति ॥ (दोषाक्षेपभाष्यम्) भूगुणः - भूयान् । भूभावे कृते ओर्गुणः प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वमसिद्धत्वात्तस्य न भविष्यति ॥ यस्यापि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः । कथम् ? दीर्घोच्चारणसार्मथ्यान्न भविष्यति । अस्त्यन्यद्दीर्घोच्चारणस्य प्रयोजनम् । किम् ? भूमेति । निपातनादेतत्सिद्धम् । किं निपातनम् ? बहोर्नञ्ञ्वदुत्तरपदभूम्नि (6.2.175) इति ॥ (वार्तिकावतरणभाष्यम्) अथ वा पुनरस्तु सह तेन - इति । (6533 आङोऽभिविध्यर्थत्वे दोषवार्तिकम् ॥ 13 ॥) - आ भादिति चेद्वसुसंप्रसारणयलोपप्रस्थादीनां प्रतिषेधः - आ भादिति चेद्वसुसम्प्रसारणयलोपप्रस्थादीनां प्रतिषेधो वक्तव्यः । पपुषः पश्य, तस्थुषः, निन्युषः, चिच्युषः, लुलुवुषः, युयुवुष इति । चसुसम्प्रसारणे कृते तस्यासिद्धत्वादचीत्याकारलोपादीनि न सिद्ध्यन्ति । नैष दोषः । उक्तमेतत् - समानाश्रयवचनात्सिद्धमिति । कथम् ? वसावाकारलोपादीनि, वस्वन्तस्य विभक्तौ सम्प्रसारणम् - इति ॥ (दोषाक्षेपभाष्यम्) यलोपः । सौरी बलाका । योऽसावण्यकारो लुप्यते तस्यासिद्धत्वात् - इर्तीति यलोपो न प्राप्नोति । अत्राप्येष परिहारः - समानाश्रयवचनात्सिद्धमिति । कथम् ? अणि अकारलोपः, अणन्तस्य - इर्ति यलोपः ॥ प्रस्थादिषु । प्रेयान्, स्थेयान् । प्रस्थादीनामसिद्धत्वात् प्रकृत्यैकाच् (6.4.163) इति प्रकृतिभावो न प्राप्नोति ॥ नैष दोषः । यथैव प्रस्थादीनामसिद्धत्वात्प्रकृतिभावो न भवति, एवं टिलोपोऽपि न भविष्यति ॥
Kashika
-------
असिद्धवदित्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्याम आ अध्यायपरिसमाप्तेस्तद् असिद्धवद् भवतीत्येवं वेदितव्यम्। आ भादिति विषयनिर्देशः। आ भसंशब्दनाद् यदुच्यते तत्र कर्तव्ये। अत्रेति समानाश्रयत्वप्रतिपत्त्यर्थम्। तच्चेदत्र भवति, यत्र तदाभाच्छास्त्रीयं विधीयते तदाश्रयमेव भवति। व्याश्रयं तु नासिद्धवद् भवतीत्यर्थः। असिद्धवचनमुत्सर्गलक्षणभावार्थम्, आदेशलक्षणप्रतिषेधार्थं च। एधि, शाधीत्यत्र एत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद् भवति। आगहि, जहीत्यत्रानुनासिकलोपे जभावे च **अतो हेः** (६.४.१०५) इति लुक् प्राप्नोति, असिद्धत्वाद् न भवति। आ भादिति किम्? अभाजि। रागः। **अत उपधायाः** (७.२.११६) इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति। अत्रग्रहणं किम् ? पपुषः पश्य। चिच्युषः पश्य। लुलुवुषः पश्य। वसुसंप्रसारणमाल्लोपे यणादेश उवङादेशे च कर्तव्ये नासिद्धं भवति। आल्लोपादीनि वसौ, वस्वन्तस्य विभक्तौ संप्रसारणमिति समानाश्रयत्वं नास्ति। **असिद्धं बहिरङ्गमन्तरङ्गे** इत्येतदप्यत्र न भवति। किं कारणम्? एषा हि परिभाषा आभाच्छास्त्रीया। तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणामेवासिद्धत्वादन्तरङ्गबहिरङ्गयोर्युगपत् समुपस्थानं नास्तीति परिभाषा न प्रवर्तते॥ वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम्॥ वुग् उवङादेशे — बभूव, बभूवतुः, बभुवुः। युट् यणादेशे — उपदिदीये, उपदिदीयाते, उपदिदीयिरे। आ भादित्ययमभिविधावाङ्। तेन भाधिकारेऽप्यसिद्धवद् भवति॥
Siddhanta Kaumudi
-----------------
इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते । (वार्तिकम्) ॥ बभूव । बभूवतु । बभूवुः ॥
Laghu Siddhanta Kaumudi
-----------------------
इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम्। इति जस्यासिद्धत्वान्न हेर्लुक्। जहि, हतात्। हतम्। हत। हनानि। हनाव। हनाम। अहन्। अहताम्। अघ्नन्। अहन्। अहतम्। अहत। अहनम्। अहन्व। अहन्म। हन्यात्। हन्याताम्। हन्युः॥
Balamanorama
------------
**असिद्धवदत्राभात्** - तथा च प्रकृतेऽभ्यासस्य बकारे सति बभूव् अ इति स्थितेअचि श्नुधात्वि॑त्युवङादेशमाशङ्कितुमाह — असिद्धवदत्रा । षष्ठस्य चतुर्थपादे इदं सूत्रं 'श्नान्नलोप' इति सूत्रात्पूर्वं पठितम् । आ भादित्यभिविधावाङ् । भस्येत्यधिकारमभिव्याप्येत्यर्थः । भाधिकारश्च आ पादपरिसमाप्तेरिति सिद्धान्तः । तथा च आ पादपरिसमाप्तेरिति लभ्यते ।विहितं कार्य॑मिति शेषः । किमारभ्येत्याकाङ्क्षायामुपस्थित्वादस्मादेव सूत्रादूध्र्वमिति लभ्यते । ततश्चा 'श्नान्नलोप' इत्यारभ्या पादसमाप्तेर्विहितं यदाभीयं कार्यं तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्तवद्भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र 'श्नान्नलोप' इत्यादौ प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्येऽसिद्धमिति लभ्यते । एवं च 'श्नान्नलोप' इत्यादि तत्तदाभीयं कार्यं 'श्नान्नलोप' इत्याद्याभीये कार्ये कर्तव्येऽसिद्धवदित्यर्थः पर्यवस्यति । अत्रेत्यनेन निमित्तसप्तम्यन्तेन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात्समानाश्रये कार्ये कर्तव्ये सती॑ति लभ्यते । एतत्सर्वं भाष्ये स्थितम् । तदाह — इत ऊध्र्वमित्यादिना । तस्मिन्निति । आभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहरणम् । अत्रध्वसोरेद्धावभ्यासलोपश्चे॑त्यस्तेरेत्वस्यशाहा॑विति शास्तेः शाभावस्य चाभीयत्वेनाऽसिद्धत्वात्हुझल्भ्यो हेर्धि॑रिति हेर्धित्वमाभीयं प्रवर्तते । तथाजङ्घही॑त्याद्यप्युदाहरणम् । हन धातोर्यङ्लुगन्ताल्लोण्मध्यमपुरषैकवचने सिपो हिभावेअनुदात्तोपदेशे॑ति नलोपस्याभीयस्यासिद्धत्वादतो हेरित्याभीयोलुङ् न भवति । समानाश्रय इति किम् । 'पपुष' इत्यत्र पाधातोर्लिटः क्वसौलिटि धातो॑रिति द्वित्वेऽभ्यासह्रस्वे क्वस्वन्ताद्द्वितीयाबहुवचने सि वसोः संप्रसारणमाभीयम् ।आतो लोप इटि चे॑त्याल्लोपे आभीये कर्तव्ये असिद्धं न भञ्जेश्चिणि, रञ्जेर्घञि च कृते,भञ्जेश्च चिणि॑,घञि च भावकरणयो॑रिति नलोपस्याभीयस्याऽनाभीयायामुपधावृद्धौ कर्तव्यायां नाऽसिद्धत्वात् । आभादित्यभिविधिः किम् । भाधिकारात् प्रागित्युक्ते भूयानित्यत्रबहोर्लोपो भूच बहो॑रिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वं न स्यात्, भस्येति सूत्रादूध्र्वभावित्यादित्यलम् । इति वुकोऽसिद्धत्वादिति । वुक आभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्येऽसिद्धतया ऊकारस्योवङि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः । वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः । वुग्युटावुवडणोरिति । यथासङ्ख्यमन्वयः । बभूवेति । णलो णित्त्वं तु जगादेत्यादौ वृद्ध्यर्थम् । बभूवतुरिति । तसोऽतुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवुरिति । जेरुसादेशे वुगादि पूर्ववत् ।
Tattvabodhini
-------------
**असिद्धवदत्राभात्** - वत्करणं प्रतिपत्तिलाघवाय, अन्यथा सिद्धे असिद्ध इति प्रयुज्यमानमनुपपन्नं सत्सामर्थ्यादसिद्धवदिति कल्पनीयं स्यात् । यथा राजभिन्ने पुरोहितेराजाऽय॑मिति प्रयोगोराजव॑ दिति कथंचित्कल्पयति,राजवदयं पुरोहित॑ इत्युक्ते तु लघुप्रतिपत्तिर्भवति । तथा चाऽगत्याषत्वतुकोरसिद्धः॑ इत्यत्राऽसिद्धवदिति कल्प्यते ।असंयोगल्लिक्टि॑दित्यत्रापि किद्वदित्यगत्यैव कल्प्यत इति ज्ञेयम् । आ भादिति । अभिविधावाङ् । भाधिकारमभिव्याप्येत्यर्थः । अधिकारश्चायम् ।अत्र॑ ग्रहणं समानाश्रयप्रतिपत्त्यर्थम् । आबाद्ग्रहणं विषयनिर्देशार्थम् । भाधिकारस्याऽवधिलाभस्तुअङ्गस्य॑,प्रत्ययः॑,परश्चे॑त्यादाविव व्याख्यानेनैव सिध्यति । एवंअनुदात्तोपदेशे॑त्यत्रास्योपस्थाने सत्ययमर्थो भवति,एषामनुनासिकस्य लोपः स्याज्झलादौ क्ङिति परे, स चासिद्धो भवति, अत्र झलादिक्ङिदाश्रित्यैव यदाभीयं प्राप्नोति तस्मिन्कर्तव्ये सति॑ इति । जङ्गहि जङ्घहि ।अतो हेः॑ इति लुग्न भवति, अनुनासिकलोपस्य हिशब्दाश्रितत्वेनाऽसिद्धत्वात् । नन्वस्याधिकारत्वे यत्र यत्रोपस्थानं तत एवारभ्य यदाभीयं तस्मिन्नेव कर्तव्येऽसिद्धत्वं स्यान्न तु ततः पूर्वस्मिन्नपि । ततश्चध्वसो॑रित्येत्वं पूर्वस्मिन्नपि धित्वे कर्तव्ये नाऽसिद्धं स्यादिति चेत् । भवेदयं दोषः शब्दाधिकारे, अर्थाधिकारस्त्वयम् । ततश्चेहश्नान्न लोपः॑ इत्यवधिर्निर्णीतः, स एव प्रतिसूत्रमुपतिष्ठते । तदेतत्सकलमभिप्रेत्याह — इति ऊध्र्वमिति । अत्रापि शात्राऽसिद्धत्वमेवाऽकरे स्थितम् । तेन एधि शाधीत्यत्र स्थानिनो झलन्तत्वबुद्धेरनिवर्तितत्वात्तन्निबन्धनंहुलझल्भ्यो हेर्धि॑रिति धित्वं सिध्यति । प्राचोक्तकार्याऽसिद्धत्वपक्षे तु न सिध्यति,देवदत्तस्य हन्तरि हते देवदत्तस्योज्जीवनं ने॑ति न्यायेन एत्वविधिना झल्बुद्धौ निवर्तितायां पश्चादेत्वबुद्धिनिवर्तनेऽपि धित्वकार्यस्याऽप्रवृत्तेरित्याहुः । समानाश्रये इति किम् । पपुषः । चिच्युषः । लुलुवुषः । इह पाधातोश्चिञो लूञश्च परस्य वसोर्यत्संप्रसारणं तत्आतो लोप इटि च॑ इत्याल्लोपेएरनेकाचः॑ इति यण्युवङि च कर्तव्ये नाऽसिद्धम् । आल्लोपादीनि हि क्वसौ, संप्रसारणं तु विभक्ताविति व्याश्रयत्वात् । न च बहिरङ्गत्वेनाऽसिद्धताऽस्त्विति शङ्क्यं,नाऽजानन्तर्ये॑ इति निषेधात् ।वाह ऊठ् सूत्रस्थबहिरङ्गपरिभाषाया अप्याभीयत्वेनाऽऽल्लोपादिषु कर्तव्येष्वसिद्धत्वाच्च । न चोक्तपरिभाषाया आल्लोपादीनां च समानाश्रयत्वं नेति शङ्क्यम्, वसोः संप्रसारणे कृते ह्रजाद्याश्रयेणाल्लोपादीनि प्रवर्तन्ते, तेषु कर्तव्येषु संप्रसारणस्याऽसिद्धत्वात्तद्विषये बहिरङ्गपरिभाषाऽपि प्रवर्तत इति तेषां तत्सत्त्वादिति दिक् । विषयलाभार्थमाभाद्ग्रहणं किम् । आभीयं प्रत्येवाऽभीयमसिद्धं नान्यं प्रतीति यथा स्यादित्येवमर्थम् । तेनअभाजि॑,राग॑ इत्यत्रभञ्जेच चिणि॑,रञ्जेश्च॑,घञि च भावकरणयोः॑ इति नलोपे कृते तस्याऽसिद्धत्वाऽभावात्अथ उपधायाः॑ इति वृद्धिर्भवतीत्याहुः । स्यादेतत् - देभतुः देभुरित्यत्रश्रन्थिग्रन्थिदम्भी॑ति वक्ष्यमाणवचनेन लिटः कित्त्वान्नलोपेप्येत्वाभ्यासलोपौ न स्यातां, नलोपस्याऽसिद्धत्वात् । अत्राहुः -श्नसोरल्लोपः॑ इति तपरकरणाल्लिङ्गादाभीयाऽसिद्धत्वमनित्यमिति नास्त्यत्र दोषः । तपरकरणं हि आस्तामित्यत्राऽऽडागमस्य लोपो माभूदित्येतदर्थम् । यद्याडागमः श्नसोरलोपं प्रत्याभीयत्वेनाऽसिद्धः स्यात्तर्हि किं तेन तपरकरणेन । एवं चदम्भेश्चे॑ति वक्ष्यमाणं नाऽपूर्वं वार्तिकं, किं त्वनित्यत्वबललभ्यमेवेति॥बुग्युटावुवडणोः सिद्धौ वक्तव्यौ ।वुक् शास्त्रस्य । एवमग्रेऽपि । युट उदाहरणंदितीये॑ । बभूवेति । अत्र प्राचा — इन्धिभवतिभ्यां च॑ति सूत्रं पितोऽ#एपि लिटः कित्त्वार्थमिति व्याख्यायअचोऽञ्णिती॑ति वृद्धिप्राप्तौक्ङिति चे॑ति निषेध॑ इत्युक्तं, तदुपेक्षितम् ।इग्लक्षणयोरेव गुणवृद्ध्योर्निषेध॑ इति सिद्धान्तात् । अन्यथा इक्स्थानिकयोर्निषेधेलैगवायन॑ इत्यत्रापि वृद्धिर्न स्यात् । न चाऽत्र कित्त्वसामर्थ्यादनिग्लक्षणाया अपि वार्तिकम् — ॒इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्य॑मिति । यद्यपीह शब्दान्तरकप्राप्त्या वुको नित्यत्वं नास्ति, तथापि कृताऽकृतप्रसङ्गित्वमात्रेणापि क्वचचिन्नित्यता स्वीक्रियत इति पक्षोऽप्यस्मादेव वार्तिकादवगम्यते, तेन रधेर्णिचि परामप्यपधावृदिंध बाधित्वा नित्यत्वात्रधिजभोरची॑ति नुमि कृते रन्धयतीति सिद्धम् । नन्वेवमपि संयोगात्परस्य लिटः कित्त्वार्थमिन्धेश्चेत्यंशोऽपेक्षित एव । अन्यथासमीधे दस्यु हन्तम॑मित्यत्रेन्धेर्नलोपो न स्यात् । मैवम् ।छन्दस्युभयथे॑ति सूत्रेण हि सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा च विधीयते, तेनसार्वधातुकमपि॑दिति ल#इटो ङित्त्वे स्यादेव नलोप इति वार्तिकाशयात् । अतर्नव्याः — बभूवे॑त्यत्रद्विर्वचनेऽची॑त्यजादेशस्य निषेधाद्गुणवृद्धिभ्यां प्रगेव वुकः प्रवृत्त्याभुवो वुको नित्यत्वा॑दिति वार्तिकेनित्यत्वा॑दिति हेतूपन्यासो निष्प्रयोजनः, शब्दान्तरप्राप्त्या वुको नित्यत्वं नास्ती॑त्याशङ्क्य कृताऽकृतप्रसङ्गित्वमात्रेणापि क्वचिन्नित्यत्वं स्वीक्रियत इत्यादिसमाधानमपि व्यर्थमेवेत्याक्षिप्य स्वयमेव समादधुः — षाष्ठद्वित्वप्रकरणान्ते हि वार्तिककृता पूर्वविप्रतिषेधः पठतेद्विर्वचनं यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्वेभ्यः॑ इति । तथा चद्विर्वचनेऽची॑ति सूत्रं नारम्भणीयमित्याशयेन नित्यत्वादिति हेतुरुपन्यस्त॑ इति ।द्विर्वचनेऽचीति सूत्रेणाऽरजादेशस्य स्थानिवद्भावो विधीयतर॑ इति पक्षे तु द्वित्वात्प्रागेव वृद्ध्याद्यादेशस्य स्वीकृतत्वादादेशानन्तरमपि वुकः प्रवृत्तिरस्तीति भुवो वुको नित्यत्वादित्यादिग्रन्थः सम्यगेव । न चैवमपि नामधातुषु त्वापयति मापयतीत्यत्रमपर्यन्तस्य त्वमौ, पररूपात्पूर्वं नित्यत्वाट्टिलोप॑ इति ग्रन्थः कथं सङ्गच्छेतेति वाच्यं,॒प्रकृत्यैका॑जिति सूत्रं भाष्ये प्रत्याक्यातमित्याशयेन तत्प्रवृत्तेः । अत एव त्वादयति मादयतीत्येव न्याय्यमिति तत्रोक्तमिति दिक्॥
Padamanjari
-----------
आ भादितिनिर्द्दशः आ कडारात् इत्यनेन व्याख्यातः । सिद्धशब्दो निष्पन्नवचनः, न सिद्धोऽसिद्धः - यः पुनः सिद्धोऽपि सिद्धकार्य न करोति, स तेन तुल्यं वर्तत इति असिद्धवत् । किं पुनस्तत् प्राधान्यात्कार्य मिति प्राप्तम्, शास्त्रं हि कार्यार्थत्वादप्रधानम् । कार्यस्य चासिद्धत्वे आदेशलक्षणप्रतिषेध एव सिध्द्येत् - आगहि, जहीति न तूत्सगलक्षणस्य भावः - एधि, शाधीति । कार्यस्यासिद्धत्वे ह्ययमर्थः - आ भाच्छास्त्रीयं कार्य प्रवृतमपि प्रवृतकार्यं न क्रोतीति, अतः प्रवृतकार्यनिबन्धनस्यैव कार्यस्य प्रतिषेधः स्यात् । न च एधि, शाधीत्यत्र एत्वशाभावनिबन्धनं किञ्चित्कार्य प्राप्तं यस्य प्रतिषेधो विज्ञायेत । आभीयं तु शास्त्रं स्वकार्य कुर्यादेव । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोः प्रवर्तितयोः स्थानिनोरभावातन्निबन्धनं धित्वं न स्यादेव । शास्त्रासिद्धत्वे त्वयमर्थः - आभीयं शास्त्रं निष्पन्नमपि स्वकार्य न करोतीति । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोरप्रवृतत्वादनिवर्तितत्वाच्चैत्वधिभावशास्त्रस्य स्थानिबुद्धिरेव वर्तते इति तन्निबन्धनं कार्यसिध्यति । अतो व्यापकत्वाच्छास्त्रस्यैवासिद्धत्वम्, आ भादिति शास्त्रस्यैव विषयत्वेन निर्द्देशाच्च । यद्ययं स्वतन्त्रविधिः स्यात्, तदा भाद्ग्रहणं विषयनिर्द्देशार्य वा स्यात् - आ भाच्छास्त्रे।थत्र कर्तव्येऽसिद्धवदिति, असिद्धवद्भवतो वा निर्द्देशार्थम्, अत्रग्रहणं तु विषयार्थम् - आ भाद्यच्छास्त्रं तदसिद्धवद्भवति अत्रैवाभीये शास्त्रे कर्तव्य इति तत्राद्ये पक्षे असिद्धवद्भवतो निर्द्देशाभावाद्यत्किञ्चनाष्टाध्याय्यां कार्य तत्सर्वमाभीये कर्तव्ये असिद्धवत्, ततश्च चधिन्विकृण्व्योर च इत्यस्यासिद्धत्वद्धिनुते, कृणुत त्येतो लोपो नि स्य्त । अत्रग्रहणं चानर्थकं स्यात्, अपरिपूर्णत्वादध्याहारेणौवा भाद्यतत्र कर्तव्य इत्यर्थलाभात् । द्धितीये तु पक्षे समानाश्रयत्वं विशेषो न लभ्येत, ततश्च प्रशमय्येति मितो ह्रस्वस्यासिद्धत्वाल्लघुपूर्वो मकारो न भवतीति ल्यपि लघुपूर्अत् इत्ययादेशो न स्यात् प्रबेभिदय्येति, भिदर्यङ्न्ताद् णचि यस्य हलः इति यलोपस्यासिद्धत्वाल्लघुपूर्वादुतरो णज्न भवति, यकारेण व्यवधानादित्ययादेशो न स्यात् प्रस्तन्य्येति, अदन्तात्स्तनशब्द इत्यस्माद् णिच्यल्लोपस्यासिद्धत्वाल्लघोरेव परो णिच्, न तु लघुपूर्वादित्ययादेशाप्रप्तिः, पशुं सनोतीति जनसनखन इति विट्, विड्वनोः इत्यात्वम्, सनोतेरेनः इति शत्वम् - पशुषाः, ततः शसि पशुषो नवाजानित्यादावात्वस्यसिद्धत्वात् आतो धातोः इत्यालोपो न स्यात् चाखायितेति, खनेर्यङ् इद्विर्वचनात्परत्वात् ये विभाषा इत्यात्वे द्विर्वचने तृचि आत्वस्यासिद्धत्वात् यस्य हलः इति यलोपः स्यात् पपुष इत्यादौ च दोषो वक्ष्यते । अधिकारे आ भाद्ग्रहणं चानर्थकं स्यात्, थाधिकारादेव तदर्थलाभात् । तथा हि - शनान्नलोपः इत्यत्रास्मिन्नुपस्थिते सति श्नादुतरस्य नकारस्य लोपो भवति स चासिद्धवद्भवतीत्ययमर्थो भवति । एवमनुदातोपदेश इत्यादावपि, तत्किमसिद्धवद्भवतो निर्द्देशार्थेनाभाद्ग्रहणेन । न चासिद्धवद्भवत इत्यतावधारणार्थमाभाद्ग्रहणम्, अधिकारे ह्यस्मिन्नवध्यनिर्द्देशाद् युवोरनाकौ इत्यादीनामपि असिद्धत्वं स्यादिति वाच्यम्, ङ्याप्प्रतिपदिकात् इतिवदन्तरेणाप्यवधिनिर्द्देशमधिकारपरिमाणावगतेः । नन्वसत्याभाद्ग्रहणेऽधिकारेऽस्मिन् सति यत्रैतदधिकृतं तदेव सूत्रं तद्धिहितं वा कार्यमत्रग्रहणेन परमृश्येत, अन्यस्य सन्निहितस्याभावात्, ततश्च श्नान्नलोपः इत्यस्यायमर्थः स्यात् - श्नादुतरस्य नकारस्य लोपो भवति, स चासिद्धवद्भवत्यत्रैव श्नान्नलोपे कर्तव्य इति । एवं सर्वत्र । ततश्च चिणो लुक् इत्यत्रैवेष्ट्ंअ सिध्येत् - अकारितरामिति , गतः, गतवानित्यादावन्यस्मिन्नाभीयेऽन्यस्याभीयस्यासिद्धत्वानापादनादतो लोपादि स्यादेव । आ भाद्ग्रहणं तु कृत्वा विधावाश्रीयमाणे तस्यैव सन्निहितस्यात्रग्रहणेन परामर्शादाभीयमाभीयेऽसिद्धवत्स्वस्मिन्नन्यस्मिन्बेत्ययमर्थो लभ्यते उच्यते, अधिकारेऽप्यस्मिन्सति अनुदातोपदेश इत्यादौ तत्रैव कर्तव्ये तस्यैवासिद्धवचने न किञ्चित्प्रयोजनमस्तीति तत्कार्यविशेषरुपपरित्यागेन इदमसिद्धवद्भवति । अत्र कर्तव्ये इत्येवं सामान्यरुपेण परामर्शादन्यस्मिन्नप्यन्यस्यासिद्धत्वं भविष्यति, तदेवमा भाद्ग्रणमतिरिच्यमानं विषयार्थ विज्ञायते । अधिकाराच्चासिद्धवद्भवतोऽवगतिः । अत्रग्रहणं तु समानाश्रयत्वप्रतिपत्यर्थम्, यद्यौभे अप्याभीये एकमेव निमितमाश्रित्य प्राप्नुतः, एवमन्योऽन्यस्मिन्नसिद्धवद्भवति, किमत्रग्रहणमतिरिच्यते इत्यतः समानाश्रयत्वप्रतिपतिः नेत्याह अक्षरार्थ एएवायम् तथा हि - अनुदातोपदेश इत्यत्रास्मिन्नुपस्थिते सत्ययमर्थो भवति - अनुदातोपदेशानां लोपो भवति झलादौ क्ङिति परतः, स चासिद्धवद्भवति । कुत्र कर्तव्ये अत्र यदा भातत्रेति । कोऽर्थः क्ङित्यनुनासिकलोपो भवतीत्युक्तम्, अत्रैव क्ङितिनिमिते सति यदाभीयं प्राप्नोति तत्र कर्तव्य इति । एवं सर्वत्र । एवं च विस्पष्टमक्षरैरेव समानाश्रयत्वं प्रतिपादितं भवति । यद्ययमधिकारस्ततो यत्रास्योपस्थानं तत एवारभ्य यदा भातत्रैव तस्यासिद्धत्वं स्यात्, न तु स्वस्मात्पुर्वेष्वितरेषु, यद्देशस्थेन हि वक्ता आणुच्चार्यते तत तएवारभ्य मर्यादाभिविधिप्रतिपतिः यथा - आ पाटलिपुत्राद्वृष्टो देव तैति, एवं च ध्वसोरेद्वौ इत्यस्यायमर्थो भवति - अस्तेहौ एकारः, स चेत आरभ्य यदा भातत्रासिद्धवदिति, ततश्च पूर्वत्र धित्वे नासिद्धवत्स्यात् स्वतन्त्रे तु विधौ अत्रैव प्रदेशे आर्ङ्थ प्रतिपदायन् अत एवारभ्य यदा भातदसिद्धवद्भवत्यत्रैव कर्तव्य इति श्नान्नलोपः इत्यारभ्य ऋत्व्यवास्त्त्व्य इत्येवमान्तानां सर्वेषामेवान्योऽन्यस्मिन्नसिद्धत्वमापादयति उच्यते द्वौ पक्षौ - शब्दाधिकारश्चार्थाधिकारश्च, ततश्च शब्दाधिकारे स्यादेष दोषः, अर्थाधिकारे त्वस्मिन्नेव प्रदेशो आर्ङ्थ प्रतिपादयन् पूर्ववत्प्रतिपादयति, स च प्रतिपादितार्थादुतरत्रोपतिष्ठते, उपस्थितश्च तत्रतत्रोपस्थितेनात्रग्रहणेन विशेष्यत इति सर्वमिष्ट्ंअ सिद्धम् । तदनेन सूक्षेणायमर्थः सम्पादितः श्नान्नलोपः इत्यारभ्यापादपरिसमाप्तेर्यानि सूत्राणि तान्यन्योऽन्यस्मिन्नसिद्धवद्भवन्ति, तानि चेतुल्यनिमितानीति । तदेतत्सर्व वृतौ यथास्थानं योज्यम् । तदाश्रयमेव भवतीत्यत्रासिद्धवदिति वक्ष्यमाणमपक्रष्टव्यम् । विभिन्नाश्रयम् - व्याश्रयम्, विभिन्ननिमितमित्यर्थः । असिद्धवचनमित्यादि । उत्सृज्यते आदेशेन निवर्त्यत इत्युत्सर्गः - स्थानी, स लक्षणं निमितं यस्य तदुत्सर्गलक्षणम्, तस्य भावः - प्रवृत्तिर्यथा स्यात् । एतच्च शास्त्रासिद्धत्वाश्रयणाल्लभ्यत इत्युक्तम् । आगहीति । बहुलं च्छन्दसि इति शपो लुक् अनुदातोपदेश इत्यादिनानुनासिकलोपः । जहीति । हन्तर्जः । अभाजीति । भञ्जेश्च चिणि इत्यनुनासिकलोपः । राग इति । रञ्चेश्च घञि च भावकरणयोः इत्यनुनासिकलोपः । अत्रग्रहणं किमिति । यद्यपि समानाश्रयत्वप्रतिपत्यर्थमिति पूर्वमेवात्रग्रहणस्य प्रयोजनमुक्तम्, तथापि समानाश्रयत्वप्रतिपतेः कि फलमिति प्रश्नावसरोऽस्त्येव । पपुष इति । पा पाने, आतो लोप इटि च । चिच्युष इति । चिञ् चयन, एरनेकाचः इति यणादेशः । लुलुविष इति । लूञ् छेदने । कथं पुनरत्र व्याश्रयत्वम् इत्याह - आलोपादीनि हीति । नन्वेवमपि नैवात्रालोपादीनि सिध्यन्ति, अन्तरङ्गाणि हि तानि, तदन्तर्भूतसम्प्रसारणापेक्षत्वात् बहिरङ्गं सम्प्रसारणम्, बहिर्भूतविभक्त्यपेक्षत्वात्, ततः किमसिद्धं बहिरङ्गमन्तरङ्गे तत्राह - असिद्धं बहिरङ्गमन्तरङ्गे इत्यादि । एतदिति वचनापेक्षं नपुंसकत्वम् । क्रिमिति न प्रवर्तते अत आह - एषा हीति । आ भाच्छास्त्रीयेति । वाह ऊठ इत्यत्र ज्ञापितत्वात् । ततः किम् इत्याह - तस्यामिति । अन्तरङ्गबहिरङ्गयोर्युगपत्सन्निधानं नास्तीति परिभाषया सह यौगपद्यमेष्टव्यम् । परिभाषासन्निधावन्तरङ्गबहिरङ्गयोरवस्थानाभावादित्यर्थः । वसुसम्प्रसारणं चैकं परिभाषाया आल्लोपादीनां चाश्रय इति समानाश्रयत्वमप्यस्ति । एतच्च नाजानन्तर्ये इत्यनाश्रित्योक्तम् । आल्लोपादयो हि अचोरानन्तर्यमाश्रित्य प्राप्नोवन्ति । वुग्युटाविति । तत्र युटा तावत्सिद्धत्वं न वक्तव्यम्, युड्विधानसामर्थ्यात् यण् न भविष्यति । तत्र यकारद्यश्रवणार्थ युड्विधानम् यणो मयो द्वे भवतः इति द्विर्वचनविधानात् । हलो यमां यमि लोपः इति पक्षे लोपविधानाच्च पक्षे यकारद्वयश्रवणस्य सिद्धत्वात् । वुकोऽपि सिद्धत्वं न वक्तव्यम्, कथम् नाप्राप्ते उवङ्यारभ्यमाणो वुक् तस्यापवादो भविष्यति । ननु च बाधकप्रवृत्तिवेलायां यद्विरुध्यते तद्वाधकेन निवर्तितं न प्रवर्तते, उवङ्निरवकाशे वुकि प्रवर्तमानेऽसिद्धत्वात्स्वमात्मानमदर्शयन्नशक्यो बाधितुमिति वुकि कृते तस्यासिद्धत्वात्स्यादेव एवं तर्हि वुग्न करिष्यते, भुवो लुङ्लिटोरुटुअपधायाः इति सूत्रमस्तु, तत्र च ओः सुपि इत्यतः ओरित्यनुवतिष्यते, तेन भुवाऽङ्गस्योपधाया उकारस्य ऊद्भवतीत्याश्रयणे उवङ् कृति ऊकारो भविष्यति । यद्येवम्, बभूव, बभूविथेति गुणवृद्ध्योरवावोश्च कृतयोरुवर्ण उपधां न भवतीत्यूत्वं न स्यात् तत्रापि इन्धिभवतिभ्यां चेति पितोऽपि लिटः कित्वाद् गुणवृद्ध्योरभावे उवङ् ऊद्भिविष्यति । यद्येवम्, एइन्धिश्छन्दोविषयत्वाद्भुषो वुको नित्यत्वादिति न्यायातन्न कर्तव्यं भवति अवश्यं च वुको नित्यत्वमाश्रित्य बभूवेति शाधयितव्यमन्यथा अचो ञ्णिति इत्यत्रेक इत्युनपस्थानादनिग्लक्षणा वृद्धिः स्यादेव एवं तर्हि नार्थो वुका, नापि कित्वेन, ओः सुपि इत्यत्रावर्णमपि प्रिश्लष्यते, अकारोकारयोराद्गुणे कृते ङसिङ्सोश्चेति पूर्वैकादेशेन निर्देशात् । तेन बभूवथेति गुणवृद्ध्योरवाधोश्च कृतयोरवर्णस्याप्युपधाया ऊद्भविष्यति, बभूवतुरित्यादावुवैङ् कृति उवर्णस्यापि । यद्येवम्, ओः सुपि इत्यवर्णस्यापि निर्देशात्कीलालपः पश्येत्यादावपि यण् स्यात् परत्वाद् आतो धातोः इति लोपो बाधको भविष्यति, लोपस्यावकाशः संयोगपूर्वाकारन्तो धातुः, अकारप्रश्लेषस्योतरत्रावकाशः - बभूव, बभूविथ, कीललपः पश्येत्यत्रोभयप्रसङ्गे परत्वादाकारलोपः, विप्रतिषेधे ह्यसिद्धत्वं नास्तीति ज्ञापयिष्यते । एवमपि कीलालपौ सर्वनामस्थाने भसंज्ञाया अभावादाकारलोपाप्रसङ्गाद्यण् स्यात् एवं तर्हि ओः सुपि इत्यत्र अचि श्नुधातु इत्यतः य्वोः इत्यनुवर्तिष्यते, ततश्चकारोकाक,मुजानिर्देशेऽपि य्वोः इत्यनेन विशेषणसामर्थ्यादुकारस्यैव यण् भविष्यति, न त्ववर्णस्येति सअमर्थ्यादवर्णग्रहणमुतरार्थमेव सम्पद्यते । तदेवं सत्यप्यस्मिन्योगे वुग्युटोः सिद्धत्वं न वक्तव्यमिति भाष्ये स्थितम् । ये त्वाहुः - भुवो वुग्लुङ्लिटोः इत्यत्र ओः इत्यनुवर्तनीयम्, उवर्णान्तस्य भुवो वुग्यथा स्यात् - बोभाव, बोभविथेति यङ्लुकि पिति लिटि इन्धिभवतिभ्यां च इत्यत्र श्तिपा निदेशादेसति कित्वे गुणवृद्ध्योः कृतयोरनुवर्णान्तस्य मा भूदित्येवमर्थम् । एवं च बभूव, बभूविथत्यत्रापि गुणवृद्ध्योः कृतयोः वुकोऽप्रसङ्गादनित्यात्वात् इन्धिभवतिभ्यां चेति कित्वमारमभणीयम् । तत्र च ङिदित्यधिकारात्कित्वङ्त्वियोरुभयोरपि विधानद् बभूवेत्यनिग्लक्षणापि वृद्धिर्न भवति । एष तएव च कित्वे श्तिपा निर्देशं वुकि च तदभावं कुर्वतः सूत्रकारस्याभिप्राय इति तेषां वुकः सिद्धत्वं वक्तव्यमेव । न च वत्करणं स्वाश्रयमपि यथा स्यादिति वुकः सिद्धत्वं लभ्यते, सत्यसति वा वतावतिदेशेष्वातिदेशिकाविरुद्धस्याश्रयकार्याविवर्तनांत्सिद्धत्वासिद्धत्वयोस्तु विरोधात्कथं वतिना सिद्धत्वप्रापथणम् कथं वा विषयविभागो लभ्येत स्थानिवदित्यादौ तु वतिमन्तरेण संज्ञा स्यादिति वत्करणमतिदेशार्थ सत् स्वाश्रयप्रतिपत्यर्थं वर्ण्यते एवं तर्हि श्नसोरल्लोपः इति तपरकरणाल्लिङ्गात् क्वचित्सिद्धत्वमनुमीयते, तद्धि आस्तामित्यादावाटो मा भूदिति । यदि चेदमसिद्धत्वं नित्यं स्यात्, आटोऽसिद्धत्वादेव लोपो न भविष्यतीति किं तपरकरणेन वत्करणं तु प्रतिपतिलाघवार्थमेव । तथा च षत्वतुकोरसिद्धः, गोतो णिद् इत्यादो वतिमन्तरेणापि परत्र परशब्दप्रयोगादेवातिदेश आश्रितः, तत्रापि चाविरुद्धं स्वाश्रयं भवत्येव । अत्राङ् मर्यादायां यदि स्याद्, भाधिकारीयस्यासिद्धत्वं न स्यात् । न चाभाद्ग्रहणं विषयार्थम्, असिद्धवद्भवतस्तु परिज्ञानमधिकारादेवेत्युक्तम् । अतो मर्यादार्थेऽप्याइङ् भाधिकारेऽप्यस्योपस्थानं न विहन्यते । तस्मादेवं वक्तव्यम् - भाधिकारीये कर्तव्ये भाधिकारीयस्य पूर्वस्यैव प्रकारणस्याप्यसिद्धत्वं नोक्तं स्यादिति सत्यमयमेव दोषः - तत्र सूर्येणैकदिगिति अणि कृते यस्येतिलोपः, ङीप्, पुनरणो यस्येतिलोपः, तात्रेदानीम् सूर्यतिष्य इति यलोप इष्यते - सौरी बलाकेति, स न प्राप्नोति भाधिकारीये यलोपे यस्येति लोपस्यासिद्धत्वाभावाद्यकारस्यानुपधात्वात् । स्थानिवद्भावश्च यलोपविधिं प्रति निषिद्धः तमिमं मर्यादापत्रे दोषं दृष्ट्वाऽऽह - आ भादित्ययमभिविधावाङिति । भाधिकारेऽप्यसिद्धवद्भवतीति । भाधिकारेऽपि तदवस्थितम्, तत्रापि कर्तव्ये तत्र त्यमन्यच्चासिद्धवद्भवतीत्यर्थः । एवं व्याख्याता वृत्तिः । कानि पुनरस्य योगस्य प्रयोजनानि इह पादोऽस्यास्तीति अत इनिठनौ, पादिकः, तौदकं वहतीत्यण् संज्ञायामुदभावः, उदवाहस्यापत्यमत इञ् औदवाहिः, सारणशब्दाभ्यां ल्युहन्ताभ्यामत इञ्, सारणिः, वारणिः, शातनपातनशब्दाभ्यां टित्वान्ङीप्, शातनी, पातनी स्रंसेर्ध्वंसेर्ण्यन्ताद्यकि स्रंस्यते, ध्वंस्यते, अत्र यस्येतिलोपे णिलोपे च कृते पद्भावः, ऊठ, नस्तद्धिते अल्लोपोऽनः, अनिदिताम् इत्येते विधयः प्राप्नवन्ति, लोपस्यासिध्दत्वान्न भविन्ति तन्न, अचः परस्मिन् इति स्थानिवद्भावेनाप्येतानि सिद्धानि । शा हौ इत्यत्र शास् हौ इति पदच्छेदः, शासः शासित्ययमादेशो भवति, किमर्थमिदम् इत्वबाधनार्थम् ततः हुझल्भ्यः इति धित्वम्, धि चेति सलोपः शाधीति सिद्धम्, धि सकारे सिचो लोप इति नाश्रीयते, चकाधीत्येव भवितव्यमिति निर्णेष्यते । एध्वसोरेद्धावभ्यासलोपश्च इत्यत्रापि श्नसोरल्लोपः इत्यतो विषयार्थमल्लोप इत्यनुवृतेरल्लोपविषयत्वं भवदकारस्यैव भविष्यति, ततः पूर्ववद् ह्रस्वसलोपयोरेधीति सिद्धम् । इह च कुरु इति क- उहि इति स्थिते हिलुक्च प्राप्नोति गुणश्च, परत्वाद् गुणए कृते अत उत्सार्वधातुके इत्युत्वं च प्राप्नोति हिलुक्च, नित्यत्वाद्धिलुकि कृतेऽपि सार्वधातुकग्रहणसामर्थ्यादभूतपूर्वेऽपि तस्मिन्नुत्वं सिद्धिम् । लुङ्लङ्लृङ्क्ष्वडुदातः इत्यत्रोपदेश इत्यनुवृतेः द्विलकारकनिर्द्देशाश्रयणाद्वा लुङदिषु लावस्थायामेवाडाटो भवत इति अकारि, ऐक्षीत्यत्र चिणो लुक् इति नित्ये लुकि कृतेऽडाटौ सिद्धो । एवं चासन्नित्यत्रापि प्रागेव श्नसोरल्लोपादाटि कृते तपरकरणाल्लोपाभावः । एवं चायन्नित्यत्रापि इणो यण् इति यणादेशात्प्रगाटि सति सिद्धमिष्टम् । यद्येवम्, ऐज्यत, औप्यतेति लङे लावस्थायां यजिवप्योरनजादित्वादटि सति आटश्चेति वृद्धिर्न स्यात् अत्र परिहारमाडजीदीनाम् इत्यत्र वत्र्यामः । अतो हेः इत्यत्र च उतश्च प्रत्ययात् इत्यतः प्रत्ययग्रहणाअपकर्षणाज्जहीत्यत्र हन्तेर्जभावे लुग्न भविष्यति । अतो लोपः इत्यत्र च अनुदातोपदेश इत्यत उपदेशग्रहणानुवृतेः उपदेशे यदकारान्तं तस्य लोपः इति गतः, गतवानित्यत्रानुनासिकलोपे कृते सम्प्रत्यकारान्तत्वेऽपि तदभावः । इहापि तर्हि न स्यात् - धिन्विकृण्व्योर च, धिनुतः नोपदेशग्रहणेनाङ्गमभिसम्बध्यते - यदङ्गमुपदेशकालेऽकारान्तमिति , अपि तु आर्द्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तमिति । एतदुक्तं भवति - यदार्द्धधातुकमुत्पन्नं न मुहूर्तमात्रप्यनकारान्तात्परं तत्र तदन्तस्य लोप इति धिनुत इत्यत्र चोप्रत्ययसन्नियोगेनाकारविधानादुप्रत्यय उत्पन्नो न कदाचिदपि अनतः पर इति । इह च मधमस्यास्तीति च्छन्दसीवनिपौ चेति वनिबन्ताच्छस्, श्वयुवमधोनाम् इति सम्प्रसारणम्, मघ - उन् - अस् इति स्थिते सम्प्रसारणमाक्षित्य यस्येति लोपः प्रप्तस्तस्यासिद्धत्वान्न भवति नात्रासिद्धत्वं लभ्यते, व्याश्रयत्वात् - शसि सम्प्रसारणम्, सम्प्रसारणे यस्येति लोपः । तस्मान्मधवच्छब्दो व्युत्पन्नं प्रातिपदिकम्, ततश्च तद्धिताभावादेव लोपाभावः । इह च कंस्विद् गर्भ प्रथमं दघ्र आपि इति । दधातेर्लिटि धा - इरे इति स्थिते नित्यत्वात् इरयोरे इत् छान्दसोः रेभावः, लिट्, च्छन्दसि सार्वधातुकमपीति शुप्, शापः श्लुः , द्विर्वजनम्, ईहल्यधोः इति प्रतिषेधातु श्नाभ्यस्तोरातः इति सिद्धो लोपः, घुव्यतिरिक्तेषु माप्रभृतिषु छान्दसत्वाद्यथादर्शनं भविष्यति । इह तर्हि कुर्वः, कुर्मः, कुर्यादिति, कृउ - वस् , कृउ - मस्, कृउ - यात् इति स्थिते नित्यं करोतेः ये चेति लोपश्च प्राप्नोति करोतेर्गुणश्च, तत्रोभयोनिंत्ययोः परत्वाद् गुणे कृते अत तौत्सार्वधातुके इत्युत्वं बाधित्वा नित्यत्वादुकारलोपे कृते सार्वधातुकपर उप्रत्यये विधीयमानभुत्वं न स्यात् , न च सार्वधातुक एव परतः शक्यमुत्वं विधातुम्, तथा हि सति कुरुत इत्यादौ विकरणव्यवायेऽपि न स्यात्, क्व तर्हि स्यात् यत्र विकरणस्य लोपः कुर्यात्, कुर्म इत्यादौ यद्यप्यत्रापि स्थानिवद्भावाव्द्यवधानं तथापि वचनादीदृशं व्यवधानमाश्रीयते, तस्माद्भावतीदं प्रयोजनम् न प्रयोजनम् सत्यप्युकारलोपे तस्य स्थानिवद्भावात्प्रत्ययलक्षणेन वा अत उत् इत्यत्र म्वोर्य इत्यनुवृतेर्वा उत्वं भविष्यति । इह तर्हि करिष्यते इति चिण्वदिटोऽसिद्धत्वाण्णिलोपपो भवति, अन्यथा अनिटीति प्रतिषेधः स्यात् तत्र चिण्वदिट् चेति चकारः समुच्चये - इट् च यच्चान्यत्प्राप्नोति, किं चान्यत्प्रप्नोति णिलोपः, अवश्यं चकारेणैव णिलोपः समुच्चेतव्यः, अन्यथा चिण्वदिटोऽसिद्धत्वेऽपि वलादिलक्षणेनेटा सेड्बुद्धिरेव णिलोपशास्त्रस्यास्मिन्विषये वर्तत इति लोपो नैव स्यात्, चिणो लुग् इत्यत्र च अनुदातोपदेश इत्यतः क्ङिद्ग्रहणमनुवर्त्य तस्य चिणः इति पञ्चम्या षष्ठ।लं प्रकल्पितायां चिण उतरस्य किङितो लुग्विधीयते, तेनाकारितरामित्यादौ तरपो न भविष्यति । इह तर्हि शुन इति श्वयुवमघोनाम इति सम्प्रसारणे सु - अन् अस् सम्प्रसारणपूर्वत्वं बाधित्वा अल्लोपोऽनः इत्यकारलोपे सति विभक्तेरनुदातनिवृत्तिस्वरः प्राप्नोति, कृतेऽस्मिन्योगे सम्प्रसारणस्यासिद्धत्वात् न संयोगाद्वमन्तात् इति प्रतिषेधादल्लोपेऽसति सम्प्रसारणपूर्वत्वे सति एकादेश उदातेनोदातः इत्याद्यौदातं पदं भवति । नात्राल्लोपे सत्युदातनिवृत्तिस्वरस्य प्रसङ्गः, न गोश्वन्साववर्ण इति प्रतिषेधात् । नैष उदातनिवृत्तिस्वरस्य प्रतिषेधः , कस्य तर्हि तृतीयादिस्वरस्य । स च श्वभ्याम्, श्वभिरिति हलादौ एविभक्तावुदातलोपाभावे चरितार्थः एवं तर्हि न लक्षणप्रतिषेधं शिष्मः, किं तर्हि येन केनचित्प्रप्तसय तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिर्नास्ति - शुनः पश्येति, तत्रोदातनिवृत्तिस्वरः प्राप्नोति एवं तर्हि तृतीयादिग्रहणमपि निवर्तिष्यते, अविशेषेण विभक्तिस्वरमात्रस्य प्रतिषेधः । थज्ञापकाद्वा सिद्धम्, यदयं श्वन्शब्दं गौरादिषु पठति, तज्झापयति - नोदातनिवृतस्वरः शुन्यवतरतीति । एवमपि विद्यते विशेषः, अल्लोपेन वा निवृतौ सत्यां पूर्वत्वेन वा अल्लोपे सति, बहवः श्वानो यस्यामिति बहुव्रीहेरुपधालोपित्वाद् अन उपधालोपिनः इति ङीपा भाव्यम् - बहुशुनीति, तदभावे तु बहुश्वेति भवति । गौरादिङीषोऽप्यनुपसर्जनाधिकारादत्राप्रसङ्गः । किञ्च - ज्ञापकात्सामान्येन वा निषेधादुदतनिवृत्तिस्वराभावेऽपि कथमाद्यौदातं पदं भवति, न ह्यल्लोपे सत्येकादेशास्वरोऽस्ति, ततश्च सर्वानुदातं पदं स्यात्, तदेतद्भवति प्रयोजनम् न प्रयोजनम्, अन्तरङ्गत्वात्पूर्वत्वं भवति । न च वार्णादाङ्गस्य बलीयस्त्वम् व्याश्रयत्वात् विभक्तिरल्लोपस्य निमितम्, पूर्वत्वस्य तु श्वन्शब्दाकारः । इह तहि भूयानिति भूबावस्यासिद्धत्वादोर्गुणो न भवेदिति । दीर्घोच्चारणसामर्थ्यान्न भविष्यति । अस्ति दीर्घोच्चारणे प्रयोजनम्, किम् भूम्नेत, निपातनादप्येतसिद्धमुतरपदाभूम्नीति । इदं च सूर्येणैकदिक् सौरी बलाकेति द्वयोरकारयोर्यस्येति लोपेऽपि वचनसामर्थ्याद् भूतपूर्वंगत्योपधाश्रयणाल्लोपो भविष्यति । तदेवं न सन्ति प्रयोजनानि, प्रतिपतिगौरवपरिहारार्थ सूत्रमारब्धम् ॥
Nyaas
-----
`असिद्धवद्भवतीत्येवं वेदितव्यम्` इति। सिद्धशब्दोऽयं परिनिष्पन्नवचनः। यथा -`सिद्ध ओदनः` इति। न सिद्धमसिद्धम्, सिद्धकार्याकरणसाधम्र्येणासिद्धेन तुल्यं वर्तत इत्यसिद्धवत्। किं पुनस्तत्? प्राधान्यात्? कार्यमित्येके; शास्त्रं हि कार्यार्थम्, अतः शास्त्रापेक्षया कार्यस्य प्राधान्यम्; व्याप्तेन्र्यायात्। शास्त्रस्यावधित्वेनोपादानाच्च शास्त्रस्यासिद्धवदभावो युक्तः, अन्यथा हि कार्यमेव किञ्चिदवधित्वेनोपादीयेत। अथाभाट्ग्रहणं किमर्थम्, यावता स्वरितलिङ्गासङ्गादन्तरेणाप्याभाद्ग्रहणमा पादपरिसमाप्तेरसिद्धवदित्यनुवर्त्तिष्यते? इत्याह -`आ भादिति विषयनिर्देशः` इति। असति ह्रा भाद्ग्रहणे न ज्ञायते -कस्मिन्? कर्तव्य इदं प्रकरणमसिद्धवद्भवति; तस्मादा भादिति विषयनिर्देशः क्रियते -आ भसंशब्दनाद्यद्वक्ष्यते तस्मिन्? कर्तव्यतया विषयभूतेऽसिद्धवद्भवतीत्यस्यार्थस्य परिज्ञानाय। यद्येवम्, अत्रेत्येतपदार्थकलमेतद्विषयनिर्देशार्थं क्रियते, स च विषय आ भादित्यनेनैव निर्दिष्टः? इत्यत आह -`अत्र` इत्यादि। समान एव आश्रयो निमित्तं यस्य तत्? समानाश्रयम्, तस्य भावः समानाश्रयत्वम्। तस्य प्रसिद्धये परिज्ञानायात्रग्रहणम्, तच्चेदत्रेति भवतीति वाक्शेषः। तदित्यनेन यस्यासिद्धवद्भावो विधीयते तन्निर्दिश्यते। अत्रेत्यनेनापि यत्र ततोऽन्यदाभाच्छास्त्रीयं तत्? तदाश्रयमेव भवतीति। असिद्धवदिति वक्ष्यमाणेनाभिसम्बध्यते। तदित्यनेन यत्रा भाच्छास्त्रीयं विधीयते तस्य परामर्शः। स आश्रयो निमित्तं यस्य तत्? तदाश्रयम्। एवकारोऽवधारणार्थः। तदेवासिद्धवद्भवतीति यावत्। `व्याश्रयस्तु नासिद्धवद्भवति` इति। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति। यत्र तदाभाच्छास्त्रोयं कार्यं विधीयते ततो भिन्नोऽर्थान्तरभूत आश्रयो यस्य तत्? तथोच्यत इत्यर्थ इति। इतिकरणेनानन्तरं व्याख्यातोऽर्थः प्रत्यवमृश्यते। अत्रग्रहणे समानाश्रयत्वप्रसिद्ध्यर्थे सतद्येषोऽस्य सूत्रस्यार्थः सम्पद्यत इति यावत्। किमर्थं पुनरसिद्धवद्भवतीत्यत आह -`असिद्धवचनम्` इत्यादि। उत्सर्गशब्देन स्थान्यत्रोपदिश्यते, उत्सृजयत आदेशेन निवर्त्त्यत इति कृत्वा। उत्सर्गसाधम्र्याद्वोत्सर्गः। यथा ह्रुत्सर्गस्य सामान्येन प्रवृत्तस्य सतः कुतश्चिद्विसेषान्निवृत्तिर्भवति, एवं स्थानिनोऽप्यादेशात्। उत्सर्गौ लक्षणम्=निमित्तं यस्य तदुत्सर्गलक्षणम्? आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्, तयोर्यथाक्रमं भावप्रतिषेधौ यथा स्यातम् -इत्येवमर्थमसिद्धवचनम्। `एधि, शाधि` इति। उत्सर्गलक्षणभावस्योदाहरणम्। `अस भूवि` (धातुपाठः-1065), `शास अनुशिष्टौ` (धातुपाठः-1075), [`शासु` धातुपाठः-] लोट्, सिप्, `सेह्र्रपिच्च` (3.4.87) इति हरादेशः, अदादित्वाच्छपो लुक्, श्नसोरल्लोपः` (6.4.111) इत्यकारलोपः। परत्वान्नित्यत्वाच्च घिभावात्? पूर्वं `ध्वसोरेद्धावभ्यासलोपश्च` (6.4.119) इत्येत्त्वम्। शासेरपि नित्यत्वात्? `शा हौ` (6.4.35) इति शादेशः पूर्वं घिभावात्? तयोरेत्त्वशाभावयोः **हुझल्भ्यो हेर्धिः** (6.4.101) इति झलन्तलक्षणं धित्वं न प्राप्नोति, निमित्ताभावात्। असिद्धत्वाद्भवति। `आगहि, जहि` इति। आदेशलक्षणप्रतिषेधस्योदाहरणम्। अगाहीति -गमेराङपूर्वाल्लोट्, सिप्, तस्य हिरादेशः, **बहुलं छन्दसि** (7.4.78) इति शपो लुक्, `अनुदात्तोपदेश` (6.4.36) इत्यादिनानुनासिकलोपः। जहीति -हन्तेरलोडादि पूर्ववत्, अदादित्वाच्छपो लुक्, **हन्तेर्जः** (6.4.36) इति जभावः। अत्रेदानीमनुनासिकलोपजादेशयोरुत्तरकालं **अतो हेः** (6.4.105) इति हेर्लोपः प्राप्नोति; असिद्धत्वान्न भवति। `अभाजि` इति। `भन्जो आमर्दने` (धातुपाठः-1453) लुङः, कर्मण्यात्मनेपदम्, `चिण्बावकर्मणोः` (3.1.66) इति च्लेश्चिण्, **चिणो लुक्** (6.4.104) इति तकारलोपः, **भञ्जेश्च चिणि** (6.4.33) इत्युनुनासिकलोपः। तस्य समानाश्रयस्यापि वृद्धावनाबाच्छास्त्रीयायां कर्तव्यायामा भादिति वचनादसिद्धत्वं न भवति। `रागः` इति। रञ्जेर्घञ्, **घञि च भावकरणयोः** (6.4.27) इत्यनुनासिकलोपः। तस्यापि समानाश्रयायमपि साप्तमिक्यां वृद्धौ कर्तव्यायामा भादति वचनादसिद्धत्वं न भवति। `पपुषः चिच्युषः लुलुवुषः` इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्, **वसोः सम्प्रसारणम्** (6.4.131) तस्य व्याश्रयत्वात्? इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्, **वसोः सम्प्रसारणम्** (6.4.131) तस्य व्याश्रयत्वात्? **आतो लोप इटि च** (6.4.64) इत्यकारलोपः, `एरनेकाचोऽसंयोगपूर्वसय` (6.4.82) इति यणादेशे `अचि इन्? धातु` (6.4.77) इत्यादिनोवङादेशे च कर्तव्येऽसिद्धवत्त्वं न भवति। ननु च `उस्यपदान्तात्` (6.1.96) इत्यनेनैव पररुपेण सरवं सिद्धम्? नैतदस्ति; प्रतिपदोक्तस्य ह्रुस्शब्दस्य तत्र ग्रहणम्, लाक्षणिकोश्चात्रोस्। कथं पुनरत्र व्याश्रयत्वमित्याह -`आल्लोपादीनि हि` [`हि` -नास्ति काशिकायाम्] इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्थे। नन्वेवमपि `असिद्धं बहरङ्गमन्तरङ्ग` (व्या।प।42) इति अन्तरङ्गेष्वाल्लोपादिषु बहिरङ्गस्य समप्रसारणस्यासिद्धत्वादाल्लोपादयो न प्राप्नुवन्त्येव। तत्र हि विभक्तेः, पूर्वो वसवन्तो भागः, तदाश्रया लोपादय इति, सम्प्रसारणं तु विभक्त्याश्रयम्, प्रकृत्याश्रयञ्चान्तरङ्गम्, प्रत्ययाश्रयं च बहिरङ्गमित्याह -`असिद्धं बहिरङ्गम्` इत्यादि। `एतदपि` इति। एतदपीति वचनापेक्षया नपुंसकेन निर्वेशः। `एषा हि` इत्यादिना परिभाषाया अप्रवृत्तौ कारणमाह। यत्रान्तरङ्गबहिरङ्गयोर्युगपदुपस्थानं तत्रैषा परिभाषा प्रवर्तते, अन्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धतामापादयितुम्। इयञ्च परिभाषा **वाह ऊठ्** (6.4.132) इत्यत्राभाच्छास्त्रे ज्ञापितत्वादाभाच्छास्त्रीया। अतोऽस्यां कर्तव्यायां `असिद्धवदत्रा भात्` (6.4.22) इति `वसोः सम्प्रसारण` (6.4.131) स्याल्लोपादीनाञ्चासिद्धत्वादन्तरङ्गबहिरङ्गयोयुर्गपदुपस्थानं नास्तीति न प्रवर्तते। तदप्रवृत्तौ नास्ति बहिरङ्गसम्प्रसारणस्यासिद्धत्वम्। तेन भवन्त्येवाल्लोपदयः।`वुग्युटौ` इत्यादि। वुग्युडित्येतौ यथा क्रममुवङि यणि च कर्तव्ये सिद्धौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -इह वतिग्रहणं न कर्तव्यम्, विनापि तेनातिदेशः सिद्ध एव, यथा -**षत्वतुकोरसिद्धः** (6.1.86) , `पूर्वतरासिद्धम्` (8.2.1) इति च। तत्? क्रियते क्वचित्? स्वाश्रयमपि सिद्धं यथा स्यादित्येवमर्थम्। तेन वुग्यृटावुवङ्यणोः सिद्धौ भविष्यतः। `बभूव` इति। `भवतेरः` (7.4.73) इत्यभ्यासस्यात्वम्, `भुवो वुग्लुङलिटोः` (6.4.88) इति वुक्। तत्र यद्यसिद्धं स्यात्? `अचिश्नुधातु` (6.4.77) इत्यादिना उवङ स्यात्, तस्य सिद्धत्वान्न भवति। `उपदिदीये` इति। `दीङः क्षये` (धातुपाठः-1134) लिट्? तस्य `लिटस्तझयोः` (3.4.81) इत्यादिनेशु, `दीङो युडचि क्ङिचि` (6.4.63) इति युट्। तस्यापि यद्यसिद्धत्वं स्यात्? `एरनेकोचोऽसंयोगपूर्वस्य` (6.4.82) इति यणादेशः स्यात्। सिद्धत्वान्न भवति। आ भादित्याङ मर्यादायां वा स्यात्? अभिविधौ वा? तत्र यद्याद्य पक्ष आश्रीयत भाधिकारीयस्यासिद्धत्वं न स्यात्। ततश्च `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यस्याः परिभाषाया अनाभाच्छास्त्रीयत्वादस्थां प्रवर्तमानायां वसोः सम्प्रसारणस्याल्लोपादीनां चासिद्धत्वं न स्यात्। एवमपि वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवर्तमानया वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवर्तमानया वसोः सम्प्रसारणस्यासिद्धत्वे उत्पादितेऽन्तरङ्गत्वादल्लोपादयः पपुषः, चिच्युषः, लुलुवष इत्यत्र न स्युः? इतोमं मर्यादापक्षे दोषं वृष्ट्वा द्वितीयं पक्षमाश्रित्याह -`आ भादित्ययमभिविधावाङ्` इति। गतार्थश्च॥
Prakriyasarvasvam
-----------------
श्नान्नलोपादि पादान्तमाभाच्छास्त्राणि तेषु तु । प्राप्तेषु तान्येवान्योन्यमसिद्धान्येकसंश्रये ॥ १२० ॥ इत्यनुनासिकलोपस्यासिद्धत्वादतो लोपो न । द्वयोः त्ताश्रयत्वादेकाश्रयत्वम् । यतः । रतः । नतः । गतः । हतः । मतः । 'वन शब्दे' । अस्य निष्ठायां सेट्त्वेना- झलादित्वाद् वक्ष्यमाणेऽनिटि क्तिन्येवोदाहृतिः । वतिः । तनादेः । ततः । 'तृणु अदने' । तृतः ।
Vartika
-------
वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ ।