64019: च्छ्वोः शूडनुनासिके च ============================ **Padacheda:** च्छ्-वोः | S | 6 | 2 | श-ऊठ् | S | 1 | 1 | अनुनासिके | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **अनुनासिकादौ अथवा झलादौ किति/ङिति प्रत्यये परे, तथा च क्विप्-प्रत्यये परे अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य 'श्' इति आदेशः भवति, तथा च 'व्' इत्यस्य 'ऊठ्' इति आदेशः भवति ।** यदि अनुनासिकादिः कित् / ङित् प्रत्ययः, अथवा झलादिः कित्/ङित् प्रत्ययः, अथवा क्विप्-प्रत्ययः अङ्गात् परः विद्यते, तर्हि - 1) अङ्गस्य अन्ते विद्यमानस्य 'त्छ्' इति समूहस्य 'श्' इति आदेशः भवति । 2) अङ्गस्य अन्ते विद्यमानस्य 'व्' इत्यस्य 'ऊठ्' इति आदेशः भवति । उदाहरणानि एतानि - 1. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे शकारादेशः - .. code-block:: text प्रछँ (ज्ञीप्सायाम्, तुदादिः, (6.149)) --> प्रछ् + नङ् [**यजयाचयतविच्छप्रच्छरक्षो नङ्** (3.3.90) इति भावे नङ्-प्रत्ययः] --> प्र तुक् छ् + न [**छे च** (6.1.73) इति तुगागमः] --> प्रत् छ् + न [ककारस्य इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ] --> प्रश् + न [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे **च्छ्वोः शूडनुनासिके च** (6.4.19) इति शकारादेशः । अत्र प्रकियायाम् वस्तुतः **ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च** (6.1.16) इति सम्प्रसारणम् अपि प्राप्नोति । परन्तु एतादृशं सम्प्रसारणं क्रियते चेत् 'प्रश्न' इति अन्तिमः शब्दः नैव सिद्ध्यति । परन्तु अयम् अवश्यं साधुशब्दः, यतः पाणिनिना सः शब्दः स्वयमेव **प्रश्ने चासन्नकाले** (3.2.117) इत्यत्र प्रयुक्तः अस्ति । अतः इदमेव सूत्रं अस्य शब्दस्य साधुत्वार्थं ज्ञापकरूपेण स्वीकृत्य अत्र सम्प्रसारणम् निषिध्यते ] --> प्रश्न [**स्तोः श्चुना श्चुः** (8.4.40) इति नकारस्य श्चुत्वे प्राप्ते **शात्** (8.4.44) इति निषिध्यते] 2. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य झलादि-कित्-प्रत्यये परे शकारादेशः - .. code-block:: text प्रछँ (ज्ञीप्सायाम्, तुदादिः, (6.149)) --> प्रछ् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] --> प्र तुक् छ् + त [**छे च** (6.1.73) इति तुगागमः] --> प्रत् छ् + त [ककारस्य इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ] --> पृ त् छ् + त [**ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च** (6.1.16) इति सम्प्रसारणम् । रेफस्य सम्प्रसारणे **इग्यणः सम्प्रसारणम्** (1.1.45) इति ऋकारः] --> पृश् + त [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य झलादि-कित्-प्रत्यये परे **च्छ्वोः शूडनुनासिके च** (6.4.19) इति शकारादेशः] --> पृष् + त [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वम्] --> पृष् + ट [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] --> पृष्ट 3. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य क्विप्-प्रत्यये परे शकारादेशः - .. code-block:: text प्रछँ (ज्ञीप्सायाम्, तुदादिः, (6.149)) --> प्रछ् + क्विप् [**क्विप् च** (3.2.76) इति क्विप्-प्रत्ययः] --> प्र छ् + व् [**लशक्तवतद्धिते** (1.3.8) इति ककारस्य इत्संज्ञा । **हलन्त्यम्** (1.3.3) इति पकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः ।] --> प्र तुक् छ् + व् **छे च** (6.1.73) इति तुगागमः] --> प्रत् छ् + व् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ] --> प्रश् + व् [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य क्विप्-प्रत्यये परे **च्छ्वोः शूडनुनासिके च** (6.4.19) इति शकारादेशः । अत्र वस्तुतः **ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च** (6.1.16) इति सम्प्रसारणम् प्राप्नोति, परन्तु इति वार्त्तिकेन ((3.2.128)) अत्र सम्प्रसारणं निषिध्यते] --> प्राश् + व् [ इति वार्त्तिकेन ((3.2.128)) अत्र उपधादीर्घः भवति ।] --> प्राश् [**वेरपृक्तस्य** (6.1.67) इति अपृक्तवकारलोपः] --> प्राष् [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वम्] --> प्राड् [**झलां जशोऽन्ते** (8.2.39) इति ष्टुत्वम्] --> प्राट् / प्राड् [**वाऽवसाने** (8.4.56) इति वैकल्पिकं चर्त्वम्] 4. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे 'ऊठ्' आदेशः - .. code-block:: text खवँ (भूतप्रादुर्भावे, क्र्यादिः, (9.68)) --> खव् + लट् [**वर्तमाने लट्** (3.1.123) इति लट्-प्रत्ययः] --> खव् + तिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] --> खव् + श्ना + ति [**क्र्यादिभ्यः श्ना** (3.1.81) इति श्ना-प्रत्ययः । अयं **सार्वधातुकमपित्** (1.2.4) इति ङिद्वत् भवति ।] --> खव् + ना + ति [शकारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः] --> ख ऊठ् + ना + ति [अनुनासिकादि-ङित्-प्रत्यये परे **च्छ्वोः शूडनुनासिके च** (6.4.19) इति वकारस्य 'ऊठ्' इदेशः] --> ख ऊ + ना + ति [ठकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] --> खौनाति [**एत्येधत्यूठ्सु** (6.1.89) इति वृद्ध्येकादेशः] 5. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य झलादि-ङित्-प्रत्यये परे 'ऊठ्' आदेशः - .. code-block:: text दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, (4.1)) --> दिव् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] --> दि ऊठ् + त [झलादि-कित्-प्रत्यये परे **च्छ्वोः शूडनुनासिके च** (6.4.19) इति वकारस्य 'ऊठ्' इदेशः] --> दि ऊ + त [ठकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] --> द्यूत [**इको यणचि** (6.1.77) इति यणादेशः] 6. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य क्विप्-प्रत्यये परे 'ऊठ्' आदेशः - .. code-block:: text दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, (4.1)) --> दिव् + क्विप् [**क्विप् च** (3.2.76) इति क्विप्-प्रत्ययः] --> दिव् + व् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ] --> दि ऊठ् + व् [क्विप्-प्रत्यये परे **च्छ्वोः शूडनुनासिके च** (6.4.19) इति वकारस्य 'ऊठ्' इदेशः] --> दि ऊ + व् [ठकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] --> दि ऊ [**वेरपृक्तस्य** (6.1.67) इति अपृक्तवकारलोपः] --> द्यू [**इको यणचि** (6.1.77) इति यणादेशः] **सूत्ररचनाविशेषाः** 1. अस्मिन् सूत्रे 'च्छ्वोः' इत्यत्र 'च्छ्' इति निर्देशः वस्तुतः 'त्छ्' इत्यस्य निर्देशः अस्ति । 'त्छ्' इत्यत्र तकारस्य **स्तोः श्चुना श्चुः** (8.4.40) इति त्रिपादीसूत्रेण श्चुत्वे कृते यः चकारादेशः विधीयते, तेन सह अत्र सूत्रनिर्देशः कृतः अस्ति ।परन्तु अत्र सूत्रप्रयोगसमये सपादसप्ताध्याय्यां तु तस्य असिद्धत्वात् 'त्छ्' इत्येव स्वीक्रियते । 2. उपरिनिर्दिष्टायाम् 'पृष्ट' शब्दस्य प्रक्रियायाम् **च्छ्वोः शूडनुनासिके च** (6.4.19) इति शकारादेशस्य तादृशं न किञ्चन प्रयोजनम्, यतः अस्य शकारादेशस्य अनुपस्थितौ अपि **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वे कृते इष्टरूपम् अवश्यं सिद्ध्येत् । वस्तुतस्तु 'झलादिः' इति अनुवृत्तिः अस्मिन् सूत्रे केवलम् वकारार्थम् आवश्यकी, न हि 'त्छ्' इत्यर्थम्, यतः त्छ्-इत्यस्य झलादि-प्रत्यये परे शकारादेशे कृतेऽपि, अकृतेऽपि च **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वम् अवश्यमेव सिद्ध्यति । परन्तु एकवारम् अनुवृत्तिः क्रियते चेत् **पर्जन्यवत् लक्षणप्रवृत्तिः** इति न्यायेन सूत्रस्य प्रयोगः अवश्यं करणीयः, अतः झलादौ क्ङिति प्रत्यये परे 'त्छ्' इत्यस्य शकारादेशः अत्र अवश्यं क्रियते । 3. अस्मिन् सूत्रे 'क्ङिति' इति पदस्य अनुवृत्तिः नैव करणीया - इति कश्चन गौणपक्षः अस्य सूत्रस्य महाभाष्यव्याख्याने उपस्थापितः अस्ति । अस्मिन् पक्षे सर्वेषु झलादिप्रत्ययेषु 'त्छ्' इत्यस्य 'श्' इत्यादेशः भवति इति अर्थे कृते, अग्रे **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इत्यत्र सतुक्-छकारस्य ग्रहणम् अनावश्यकं भवति इति निर्णयः सिद्ध्यति । अपि च, अस्मिन् पक्षे **दिव उत्** (6.1.131) इत्यत्र विद्यमानस्य तकारस्य प्रयोजनम् 'तपरकरणम्' अस्ति इति स्वीक्रियते । अस्मिन् विषये अधिकं ज्ञातुं जिज्ञासवः काशिकां भाष्यं वा पश्येयुः । Sutrartha (English) ------------------- The last 'त्छ्' of an अङ्ग is converted to 'श्', and the last 'व्' of an अङ्ग is converted to 'ऊठ्' when followed by an अनुनासिकादि or झलादि प्रत्यय that is either कित् or ङित् । Vasu English Summary -------------------- For च्छ (including the augment तुक्) is substituted श् and for व् is substituted ऊठ् before an affix beginning with a nasal as well as before क्वि and झलादि ङित् and कित् affixes -- अनुनासिकस्य क्विझलोः क्ङिति (6.4.15). Vasu English Translation ------------------------ For च्छ (including the augment तुक्) is substituted श् and for व् is substituted ऊठ् before an affix beginning with a nasal as well as before क्वि and झलादि ङित् and कित् affixes -- अनुनासिकस्य क्विझलोः क्ङिति (6.4.15). Thus प्रश्नः, विश्नः from प्रच्छ and विच्छ, with the affix नङ् (3.3.90) the च्छ being replaced by श ॥ Similarly from the root सिव् we have स्थोनः thus: सिव् + न (*Unadi* III.9). = सि + ऊ + न = स्थू + न = स्थोनः (7.3.84). Here the ऊ is added to the stem prior to the scope being given to the *guna* rule of (7.3.86), otherwise the form would be सिव् + न = सेव् + न = से + ऊ + न ॥ Having thus added ऊ, before scope could be given to the *guna* rule (7.3.86), we make *sandhi* of सि + ऊ = स्थू, because semivowel substitution is *antaranga* operation and of wider scope than *guna*, and the maxim of वार्णादाङ्ग बलीयो भवति has no scope here. "An operation which is taught in the *Angadhikara*, and affects the *anga* or stem, possesses force than an operation which concerns a combination of letters (i. e. is taught in a *sandhi* rule)". With क्वि we have शब्दप्राश् formed with क्विप् (*Unadi* 11.57 ) added to प्रच्छ, there is no vocalisation of the semivowel र, and there is lengthening of अ, and च्छ changed to श. So also गोविश् ॥ Of the change of व into ऊ we have the following :- अक्षद्यूः, हिरण्यद्यूः (दिव् + क्विप् = दि + ऊ = द्यूः) ॥ Here the ऊ substitution is *Bahiranga*, and दि + ऊ = द्यू, the change of इ into य is *antaranga*, therefore on the maxim of असिद्धं बहिरङ्गमन्तरङ्गे (a *bahiranga* is non-existent for the purposes of an *antaranga*); there should be no change of इ into य, for ऊ is non-existent. That maxim is however set aside by नाजानन्तर्ये बहिष्ट्व प्रक्लृप्तिः "A *bahiranga* operation is not regarded as *bahiranga*, and consequently *asiddha*, when an *antaranga* operation is to take effect, which depends on the immediate sequence of a vowel and something else". So also before a *jhaladi* affix; as प्रच्छ + क्त = पृष्टः, पृष्टवान् (क्तवतु), पृष्ट्वा (क्त्वा); here च्छ is changed to श, there is vocalisation by (6.1.16), and श changed to ष by (8.2.36). So also व is changed to ऊ as, द्यूतः, द्यूतवान्, द्यूत्वा ॥ When the affixes are not ङित् or कित्, the rule does not apply: as द्युभ्याम्, द्युभिः ॥ Some do not read the *anuvritti* of कित् and ङित् into this *sutra*, and explain द्युभ्याम् and द्युभिः by (6.1.131) : उ short being substituted for व of दिव् ॥ In "छशां ष" (8.2.36) the letter छ should not be taken, because by the force of the present *sutra*, श is ordained to come every where in the place of छ ॥ The indicatory ठ् in ऊठ् is for the sake of distinguishing this ऊ in *sutras* like एत्ये धत्यूठ् सु (6.1.89). In the *sutra* वाह ऊंठ् (6.4.132) there is also indicatory ठ् ॥ Bhashya ------- च्छ्वोः शूडनुनासिके च (3017) (ऊठोऽधिकरणम्) (ऊठष्ठित्वसाधकभाष्यम्) अथ ऊडादिः कस्मान्न भवति, आदिष्टित् भवतीति प्राप्नोति । कस्य पुनरादिः ? वकारस्य । अस्तु । वकारस्य का प्रतिपत्तिः ? लोपो व्योर्वलि (6.1.66) इति लोपो भविष्यति । नैवं शक्यम् । ज्वरत्वरस्रिव्यविमवामुपधायाश्च (6.4.20) इति द्वावूटौ स्याताम् । एवं तर्हि नैष टित् । कस्तर्हि ? ठित् । (ठित्वे आक्षेपपरिहारभाष्यम्) यदि तर्हि ठति, धौतः पट इति एत्येधत्यूठ्सु (6.1.89) इति वृद्धिर्न प्राप्नोति । चर्त्वे कृते भविष्यति । असिद्धं र्चत्वं तस्यासिद्धत्वान्न प्राप्नोति । आश्रयात्सिद्धत्वं भविष्यति । असत्यन्यस्मिन्नाश्रयात्सिद्धत्वं स्यात्, अस्ति चान्यः वाह ऊट् इति । एषोऽपि ठित्करिष्यते । तत्रोभयोर्श्चत्वे कृते आश्रयात्सिद्धत्वं भविष्यति ॥ (क्ङिदनुवर्तनविचारभाष्यम्) अथ क्ङिद्ग्रहणमनुवर्तते, उताहो न ? किञ्ञ्चातः ? (क्ङिदनुवर्तनाक्षेपे श्लोकवार्तिकम्) शूट्त्वे क्ङिदधिकारश्चेच्छः षत्वम् शूट्त्वे क्ङिदधःइकारश्चेत् छः षत्वं वक्तव्यम् । प्रष्टा, प्रष्टुं, प्रष्टव्यम् । (क्ङिदनुवर्तनाक्षेपे श्लोकवार्तिकम्) तुक्प्रसङ्गश्च । तुक् च प्रसज्येत ॥ निवृत्तेऽपि वै क्ङिद्ग्रहणेऽवश्यमत्र तुगभावार्थो यत्नः कर्तव्यः । अन्तरङ्गत्वाद्धि तुक् प्राप्नोति । च्छ्वोः इति तुका सह सन्निपातग्रहणं विज्ञायते । ननु चैवमपि अन्त्यस्य प्राप्नोति । सन्निपातग्रहणसार्मथ्यात्सर्वस्य भविष्यति । एवमप्यङ्गस्य प्राप्नोति । निर्दिश्यमानस्यादेशा भवन्तीति - एवमङ्गस्य न भविष्यति ॥ यद्येवमुत्पुच्छयतेरप्रत्ययः उत्पुड् इति प्राप्नोति, उत्पुदिति चेष्यते । तथा वाञ्ञ्छतेरप्रत्ययः -वान्, वांशौ, वांश इति न सिध्यति । यथालक्षणमप्रयुक्ते ॥ तत्र त्वेतावान् विशेषः - अनुवर्तमाने क्ङिद्ग्रहणे छः षत्वं वक्तव्यम्, तत्र चापि सन्निपातग्रहणं विज्ञेयम् ॥ (क्ङिद्ग्रहणाननुवर्तनाक्षेपे श्लोकवार्तिकम्) निवृत्ते दिव ऊठ्भावः अथ निवृत्तं दिव ऊठ्भावः प्राप्नोति । द्युभ्यां द्युभिः । अस्तु । कथं द्युभ्यां - द्युभिः इति ? ऊठि कृते दिव उत् (6.1.131) इत्युत्वं भविष्यति । न सिध्यति । आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति ॥ (क्ङिद्ग्रहणाननुवर्तने दोषनिवारकं श्लोकवार्तिकम्) तदर्थं तपरः कृतः ॥ तदर्थं तपरः क्रियते ॥ (संग्रहः) शुट्त्वे क्ङिदधिकारश्चेच्छः षत्वं तुक्प्रसज्यते । निवृत्ते दिव ऊठ्भावस्तदर्थं तपरः कृतः ॥ (क्ङिद्ग्रहणानुवर्तने दोषनिवारकं भाष्यम्) क्व पुनः क्ङिद्ग्रहणं प्रकृतम् ? अनुनासिकस्य क्विझलोः क्ङिति (15) इति । यदि तदनुवर्तते, अज्झनगमां सनि (16) क्विझलोश्चेति क्विझलोरपि दीर्घत्वं प्राप्नोति । झलि तावन्न दोषः । सनमत्र झल्ग्रहणेन विशेषयिष्यामः -सनि झलादाविति । क्वावप्याचार्यप्रवृत्तिर्ज्ञापयति - नानेन क्वौ दीर्घत्वं भवतीति, यदयं क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं चेति दीर्घत्वं शास्ति ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥ Kashika ------- छ इत्येतस्य सतुक्कस्य वकारस्य च स्थाने यथासंख्यं श् ऊठ् इत्येतावादेशौ भवतः, अनुनासिकादौ प्रत्यये परतः क्वौ झलादौ च क्ङिति। प्रश्नः। विश्नः। अन्तरङ्गत्वाच् **छे च** (६.१.७३) इति तुकि कृते सतुक्कस्य शादेशः। वकारस्य ऊठ् — स्योनः। सिवेरौणादिके नप्रत्यये (प० उ० ३.९) लघूपधगुणात् पूर्वमूठ् क्रियते। तत्र कृतेऽन्तरङ्गत्वाद् यणादेशो नानाश्रयत्वात् च न **वार्णादाङ्गं बलीयः** (परि० ५५) भवति। क्वौ छस्य — शब्दप्राट्। **क्विब् वचि०** (प०उ० २.५८) इत्यादिनौणादिकः क्विप् दीर्घश्च। गोविट्। वकारस्य — अक्षद्यूः। हिरण्यष्ठ्यूः। **असिद्धं बहिरङ्गमन्तरङ्गे** इति **नाजानन्तर्ये०** इति प्रतिषिध्यते। झलादौ छस्य — पृष्टः। पृष्टवान्। पृष्ट्वा। वकारस्य — द्यूतः। द्यूतवान्। द्यूत्वा। क्ङितीत्येव — द्युभ्याम्। द्युभिः। केचिदत्र क्ङितीति नानुवर्तयन्ति। कथं द्युभ्यां द्युभिरिति? ऊठि कृते, **दिव उत्** (६.१.१३१) इति तपरत्वाद् मात्राकालो भविष्यति। छशां षः (८.२.३६) इत्यत्र छग्रहणं न कर्तव्यम्, अनेनैव हि सर्वत्र शकारो विधीयते। ऊठष्ठित्करणम् **एत्येधत्यूठ्सु** (६.१.८९) इति विशेषणार्थम्। **वाह ऊठ्** (६.४.१३२) इत्ययमपि ठिदेव॥ Siddhanta Kaumudi ----------------- सतुक्कस्य छस्य वस्य च क्रमाच्छ ऊठ् एतावादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति । खौनाति । चखाव खविता । शानचः परत्वादूठि कृते हलन्तात्वाभावान्न शानच् । खौनीहि{$ {!1532 हेठ!} च$} । ष्टुत्वम् । हिठ्णाति ।{$ {!1533 ग्रह!} उपादाने$} । स्वरितेत् । ग्रहिज्या - (SK2412) । गृह्णाति । गृह्णीते ॥ Laghu Siddhanta Kaumudi ----------------------- सतुक्कस्य छस्य वस्य च क्रमात् श् ऊठ् इत्यादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥ Balamanorama ------------ **च्छ्वोः शूडनुनासिके च** - च्छ्वोः शूडनुनासिके च । च्छ् व् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम् । छकारात्प्राक्तुकः श्चुत्वेन चकारस्य निर्देशः । 'शूठ' इति छेदः । श् ऊठ् अनयोः समाहारद्वन्द्वात्प्रथमा । चकारेण क्विझलोः क्ङितीत्यनुवर्तते । तदाह — सतुक्कस्येत्यादि । यथा विश्नः प्रश्नः । विच्छधातोः प्रच्छधातोश्च औणादिके नङ्प्रत्यये अन्तरङ्गत्वात्छे चे॑ति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः । वकारस्य ऊठमुदाहरति — खौनातीति । खव् ना तीति स्थिते वकारस्य ऊठ, ठकार इत् 'एत्येधत्यूठ्सु' इति वृद्धिरिति भावः । खौनीतः खौनन्तीत्यादि । खव् ना हि इति स्थितेहलः श्नश्शानज्झौ॑इतिशानजादेशमाशङ्क्याअह — शानचः परत्वादिति । हेठ चेति । हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः । ग्रह उपादाने इति । अदुपधः । स्वरितेत्त्वादुभयपदी । किति ङिति च संप्रसारणं स्मारयति — ग्रहिज्येति । गृह्णाति गृह्णीते इति । श्नाप्रत्ययस्य ङित्त्वाद्रेफस्य संप्रसारणे पूर्वरूपमिति भावः । णलि द्वित्वे कृतेलिटभ्यासस्ये॑ति संप्रसारणे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासचुत्वे उपधावृद्धिः । जग्राह.अतुसादौ क्ङति परत्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वित्वादि । जगृहतुः जगृहुः । जग्रहिथ । जगृहुथुः जगृह । जग्राह-जग्रह जगृहिव जगृहिम । जगृहे जगृहाते जगृहिरे । जगृहिषे जगृहाथे जगृहिढ्वे-जगृहिध्वे । जगृहे जगृहिवहे जगृहिमहे । Tattvabodhini ------------- **च्छ्वोः शूडनुनासिके च** - च्छ्वोः शूडनु ।च्छ्वो॑रिति सतुक्कस्यानुकरणम् । चुत्वेन तकारस्थाने चकार इत्याह — सतुक्कस्येति । एवं च सूत्रे छकारात्पूर्वं चकारो ज्ञेयः । सतुक्कस्य किम् । विच्छप्रच्छायां नङ्प्रत्यये छकारस्य शकारे कृते तुकोऽश्रवणं यथा स्यात् । अकृतव्यूहपरिभाषा त्वनित्या, अस्मादेव सतुक्कग्रहणात् । तेनातिक्रान्तो भवकन्तमतिभवकानित्यादि सिद्धमित्याहुः । सूत्रस्थेन चशब्देन क्विझलोः क्ङितीत्यनुकृष्यत इत्याह - क्वावित्यादि । ग्रहो लिटि दीर्घः । एकाचः किम् । जाग्रहिता । जाग्रहिष्यति — इत्यादौ यङ्लुकि माभूत् । विहितस्येति किं । ग्राहितम् । न चाऽत्र णिलोपस्य स्थानिवद्भावाद्ग्रहेः परत्वं कनेति वाच्यं, दीर्घविधौ स्तानिवत्त्वनिषेधात् ।त्रैपादिकदीर्घविधावेव, स्थानिवत्त्वनिषेध॑ इत्यभ्युपगमे तु विहितविशषमं व्यर्थमेवेत्याहुः । प्रकृतस्येटो ग्रहणाद्ग्राहिता ग्राहिष्यत इत्यादौ चिण्वदिटो न दीर्घः । Padamanjari ----------- यद्यत्र केवलस्य च्छस्य ग्रहणं स्यात्, तदा पृच्छेरुप देशानन्तरं तुकि कृते क्तप्रत्यये परतश्च्छकारमात्रस्य शादेशे षत्वे तुकः ष्टुअत्वे षृट्ष्ट इत्यनिष्ट्ंअ रुपं स्यात् । न च निमिताभावे नैमितिकस्याप्यभावः इति तुको निवृत्तिः, न हीदं वचनं नापि न्यायः, न हि कृतस्य निवृतौ कश्चिन्न्यायः । कथं तर्हि स्थातेत्यत्र सत्वे कृते ष्टुअत्वस्य निवृत्तिः, नात्र कृतमेव ष्टुअत्वं निवर्तते, किं तहि तस्यासिद्धत्वात्पूर्वमेव सत्वम्, तत्र ष्टुअतवस्य प्राप्त्यभावः तदेवं वितुक्कस्य ग्रहणे दोषं दृष्ट्वाऽऽह - च्छ इत्येतस्य सतुक्कस्येति । कथं पुनर्ज्ञायते - छेत्यस्य सतुक्कस्य ग्रहणमिति यजयाचेति नङे ङ्त्किरणात् । तद्धि विश्न इत्यत्र गुणो मा भूदिति, सतुक्कस्यैव शादेशे लघूपधत्वाद् गुणप्रसङ्गः । वितुक्कस्य तु शादेशे तकार उपधा, नेकारः, संयोगे गुरु इति गुरुसंज्ञश्च । पृच्छेस्तु क्ङिति सम्प्रसारणार्थ नङे ङ्त्विं न भवति प्रश्ने चासन्नकाले इति निपातनात् । तस्मात्सतुक्कस्य ग्रहणम् । एवं च कृत्वा षृष्टप्रतिवचने इति निर्द्देशोपपतिः । ननु सतुक्कस्य ग्रहणेऽपि अलोऽन्त्यस्य इति च्छमात्रस्य प्रसङ्गः न ह्यनर्थकेऽलोन्त्यविधिरस्ति । अथ सतुक्केन च्छेनाङ्गस्य विशेषणातदन्तस्याङ्गस्यालोऽन्त्यस्य प्रसङ्गः तदापि निर्द्दिश्यमानस्यादेशा भवन्तीति सह तुका भविष्यति । एअन्तरङ्गत्वादिति । उपदेशान्तरं प्रसङ्गादन्तरङ्गत्वम्, शस्तु बहिरङ्गः, कथमुत्पन्ने प्रत्ययेऽङ्गसंज्ञा, अङ्गस्य च शादेशः । न च वार्णादाङ्गं बलीयः, भिन्नकालत्वात् । औणादिके नप्रत्यय इति । साक्षात्सिवेरविहितोऽपि बाहुलकान्नप्रत्ययः । पुगन्तलघूपधगुणात्पूर्वमूठ क्रियते इति । अन्तरङ्गत्वादिति वक्ष्यमाणो हेतुरिहाव्यपक्रष्टव्यः, गुणो हि बह्वहेक्षो बहिर्भूतप्रत्ययाप्रेक्षश्च, ऊठ तु विपर्ययादन्तरङ्गः, तेन स एव पूर्व क्रियते । तत्र कृतेऽन्तरङ्गत्वाद्यणादेश इति । अन्तर्भूताजपेक्षत्वाद्यणोऽन्तरङ्गत्वम्, गुणस्तु पूर्ववदेव बहिरङ्गः । नानाश्रयत्वाच्चेति । यत्रैकमेव निमितीकृत्याङ्गवर्णयोर्युगपत्प्राप्तिस्तत्र वार्णादाङ्गं बलीयः, तथा अचो ञ्णितीति वृद्धेरवकाशः - गौरिति, यणोऽवकाशः - दध्यत्रेति चकारेत्यत्र कृ - अ इति स्थिते उभयप्रसङ्गे परामपि वृद्धिं बाधित्वान्तरङ्गत्वाद्यणि एप्राप्ते वार्णादाङ्गं बलीयः इति वृद्धिर्भवति । शब्दप्राडिति । व्रश्चादिषत्वम्, जश्त्वजत्वे । गोविडिति । विच्छ गतौ, गां विच्छायतीति विगृह्य आयादय आर्धधातुके वा इत्यायप्रत्ययाभावपक्षे क्विप् । अक्षद्यूः, हिरण्यष्ठ।लूरिति । दिविष्ठिविभ्यां क्विप्, सुब्धातुष्ठिबुष्वष्कतीतनां प्रतिषेधः इति सत्वाभावः । ननु चान्तरङ्गे यणि बहिरङ्गस्योठोऽसिद्धत्वाद्यणादेशेन नात्र भवितव्यमत आह - असिद्धं बहिरङ्गमन्तरङ्ग इति । नाजान्तर्य इति । अस्यायमर्थः - यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्यमाश्रीयते तत्र बहिरङ्गपरिभाषा न प्रवर्तत इति । एतच्च षत्वतुकोरसिद्धः इत्यत्र ज्ञापितम् । द्यौम्यामिति । ऊठोऽवकाशः द्यौउतः, द्यौउतवान्, उत्वस्यावकाशः - अहर्विमलद्यौः द्यौभ्यामित्यादावुभयप्रसङ्गः । तस्मात् क्ङ्तीत्यित्रानुवर्तयितव्यमिति भावः । केचिदित्यादि ।तेषां मते हि दिविप्रभृतीनां यङ्लुगन्तानां तिप्सिपोरीडभावपक्षे ऊठि सति देदिवीति देद्योति, देदिवीषि, देद्योषीति । पूर्वत्र तु पक्षे वलिलोपे- देदेति, देदेवीति । कथं द्यौभ्यां द्यौभिरिति ऊठि कृत इति । क्ङ्तीत्यास्यानिनुवृतत्वात् अत्रापि परत्वादूठा भाव्यम्, ऊठि च कृते द्यौउभ्यां द्यौउभिरिति भवितव्यमिति प्रश्नः । दिव उदिति तपरकरणादित्यादि । अत्र हि तपरकरणं न कर्तव्यम्, यतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्राकालो ह्रस्व एव सिद्धः, तत्क्रियते लक्षणान्तरेणापि दीर्घो मा भूदिति । तेन परमप्यूठ्ंअ बाधित्वा दिव उत् इत्यनेन मात्राकालो भविष्यतीत्यर्थः । अथ वा - ऊठि कृते इत्यस्य परेण परिहरग्रन्थेन सम्बन्धः । तत्रायमर्थः - क्रियतां सामान्येन क्ङिति चान्यत्र च ऊठ, कृते तु तस्मिन्नेकदेशविकृतस्यानन्यत्वातस्यैवोठः स्थाने तपरत्वान्मात्राकालो भविष्यति । तेषामित्यादि । क्ङिद्ग्रहणे हि निवृते सति तृजादावपि शास्यानेन विधानाद् व्रश्चादिसूत्रे च्छग्रहणं न कर्तव्यम्, शकारस्य षत्वविधानेनैव सर्वस्य सिद्धत्वात् । ये तु क्ङिद्ग्रहणमनुवर्तयन्ति, तेषां तृजादौ शत्वस्याभावाच्छस्येव षत्वं विधातव्यम् । तत्रापि सतुक्कस्य ग्रहणम् । ऊडयं यदि दित्स्याद् आद्यन्तौ टकितौ इत्यादिः प्रसज्येत, अस्तु वकारस्य, वलि लोपे सति अक्षद्यौउरित्यादि सिद्धम् । न च नाप्राप्ते वलिलोपे आरभ्यमाण ऊङ्वलोपस्य बाधकः स्यादिति शङ्कनीयम्, भिन्नजानीयत्वात् - ऊडागमः, लोप आदेशः, न च भिन्नजातीयं बाधकं भवति । न हि दधि ब्राह्मणेभ्यो दीयतां कम्बलः कौण्डिन्यायेति दध्नः कम्बलो बाधको भवति सत्यम्, उतरसूत्रे त्वागमिभेदाद् द्वावूठौ स्याताम् - एको वकारात्पूर्वः, अपर उपधायाः, तस्मादूठष्टित्वमवश्याङ्गीकर्तव्यमिति मन्यमानस्तदङ्गीकरणे प्रयोजनमाह - ऊठष्ठित्करणमिति । एवं ब्रुवता एत्येधत्यूठसु इति ठकारस्य चर्त्वेन निर्द्देश इत्युक्तं भवति । यत्र ठकारो न क्रियते ततो वृद्धिविधावपि नोपादीयेत, ततश्च प्र - ऊहते पोहत इत्यत्रापि स्यात् । वाह ऊडित्ययमपि ठिदेवेति । अन्यथा तस्य वृद्धिविधौ ग्रहणं न स्यात्, अत्रापि ठकारस्याश्रवणं जश्चत्वचर्त्वाभ्याम् ॥ Nyaas ----- यदि केवलस्य च्छकारमात्रस्य ग्रहणं क्रियते, तदा `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413) इत्यस्य क्तप्रत्यये कृतेऽन्तरङ्गत्वात्? `च्छे च` (6.1.71) इति तुकि कृते छकारमात्रस्य शकारादेशे कृते पृट्ष्ट इत्यनिष्टं रूपं स्यात्। सतुक्कसय ग्रहणे तु सति स्थान्यन्तर्भावात्? तुगप्यादेशेन निवर्त्त्यत इति न भवत्येव दोषप्रसङ्ग इत्येतदालोच्य सतुक्कस्य ग्रहणमिति दर्शयितुमा -``छ` इत्येतस्य सतुक्कस्य` इति। सतुक्कस्य ग्रहणं `यजयाचयतविच्छप्रच्छिरक्षो नङः` (3.3.90) इति ङित्करणादवगम्यते। तस्य हि ङित्करणस्यैतत्प्रयोजनम् -विश्न इत्यत्र `पुगन्तलघूपधस्य` (7.3.86) इति गणो मा भूदिति; यदि चात्र तुग्रहितः केवल एव च्छकारः स्थानित्वेन परिगृह्रते तदा तुकि कृते छकारमात्रस्य सकारे कृते गुरूपधत्वादेव गुणोन भविष्यतीति ङित्करणमनर्थकं स्यात्। सतुक्कस्य तु ग्रहणे कृते तुकि सतुककस्यैव शकारादेशः क्रियते, ततश्च लध्व्यामुपधायां समुपजातायां गुणः प्राप्नोतीति तत्प्रतिषेधार्यं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्; सतुपजातायां गुणः प्राप्नोतीति तत्प्रतिषधार्थं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्; सतुपजातायां गुणः प्रप्नोतीति तत्प्रतिषेधार्थं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्; सतुक्कस्याप्यादेशे कृते निष्ठितमङ्गं भवति, प्रयोगार्हत्वात्। तत्र `अङ्गवृत्ते पुनरङ्गवृत्तावविधिर्निष्ठितस्य` (व्या।प।38) इत्यनया परिभाषया गुणो न भविष्यतीति। तस्मात्? सतुक्कस्याप्यादेशे क्रियमाणे सति ङित्करणमनर्थकमेव, कथं तेन सतुक्कस्य ग्रहणमवसीयते? एवं तर्हि `ननौ पृष्टपरतिवचने (3.2.120) इति निर्देशात्? सतुक्कस्य ग्रहणमवसीयते। तुग्रहितस्य ग्रहणे पृट्ष्टेत्येवं यथोक्त प्राक्। नङस्तु ङित्करणं `अनित्यमागमशासनम्` (व्या।प।99) इति ज्ञापनार्थम्। अनित्यत्वे हि तस्य यदा तुगभावस्तदाऽसति ङित्करणे गुणः प्रसज्येत। ननु चासति प्रयोजने ज्ञापकं भवति, अस्ति च तस्य ङित्करणस्य प्रयोडजनम्, किं तत्? ग्रह्रादिसूत्रेण (6.1.16) प्रच्छेः सम्प्रसारणं यथा स्यादिति? नैतदस्ति; न हि प्रच्छेर्नङि सम्प्रसारणमिष्यते। कथमेतज्ज्ञायते? **प्रश्ने चासन्नकाले** (3.2.117) इति निर्देशात्। तदेतत्? ङित्करणम्? `अनित्यमागमशासनम्` (व्या।प।99) इत्यस्य ज्ञापकमेव। अथ तु सतुक्कस्यापि ग्रहणे कथं सतुक्कस्यादेशो भवति, य#आवता **अलोऽन्त्यस्य** (1.1.52) इति वचनादन्त्यस्यैव स्यात्? नैतदस्ति; सतुक्कस्य ग्रहणसामथ्र्यान्न भविष्यति। एवमपि तदन्तस्याङ्गस्य स्यात्। `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इति तदन्तस्य न भविष्यति। `प्रश्नः` विश्न` इति। `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413) `विच्छ गतौ` (धातुपाठः-1423) `यजयाच` (3.3.90) इति नङ्।`अन्तरङ्गत्वात्` इत्यादि। `छे च` (6.1.73) इति ह्रस्वस्य वर्णस्य तुग्विधीयत इति वर्णाश्रयत्वात्? तुगन्तरङ्गः, शकारस्त्वङ्गाश्रयः। तत्राङ्गस्यैव तावद्? प्रत्ययाश्रयत्वाद्बहिरङ्गत्वम्। किं पुनस्तदाश्रयस्य शकारस्य। ननु च `वार्णादाङ्गं बलीयः` (व्या।प।39) इति शकारस्यैव बलीयस्त्वम्? नैतदस्ति; यत्र ह्राङ्गवार्णयोर्युगपदेकनिमित्तमाश्रित्य प्राप्तिस्तत्रास्या उपस्थानं भवति। यथा `इयाय` इत्यत्र यमेवाकारमाश्रित्य **इको यणचि** (6.1.77) इत्यभ्यासेकारकस्य यणादेशः प्राप्नोति, तमेवाकारमाश्रित्य **अभ्यासस्यासवर्णे** (6.4.78) इतीयङपि। तत्र युगपदेकत्रोभयप्राप्तौ `वार्णादाङ्गं बलीयः` (व्या।प।39) इत्यस्या उपस्थाने सत्यङ्गकार्यमिङेव भवति। इह तु प्रागेव नङुत्पत्तेश्छकारमाश्रित्य तुक्प्राप्नोति, उत्तरकालं नङि विहिते तदाश्रः शकार इति भिन्नाश्रयत्वम्, अतो नेयमुपतिष्टते। `सिदेः` इति। `षिवु तन्तुसन्ताने` (धा।प।1108) इत्यस्य। `औणादिके नप्रत्यये` इति। `धापृवस्यजतिभ्यो नः` (द।उ।5।39) इति वादिभ्यो विधीयमानो नप्रत्ययो बहुलवनात्? सिवेरपि भवति। केनचित्`सिवेष्ठेर्यू च` (द।उ।4।5) [`सिवेष्टेरूच` -इत्युत्त्वम्] इत्यनेन सूनशब्दस्य व्युत्पत्तये नकारो विधीयते, दीर्घोच्चारणसामर्थ्यात्? तत्र गुणो न भवति। ये तु स्योनशब्दव्युत्पत्तय एवेदं सूत्रं वर्णयन्ति, तेषां दीर्घोच्चारणमनर्थकं स्यात्। त न हि ह्रस्वस्य दीर्घस्य वा गुणे कृते कश्चिद्विशेषोऽस्ति। `लघूपधगुणात्? पूर्वमूठ्? क्रियते` इति। `अन्तरङ्गत्वात्` इति। वक्ष्यमाणो हेतुरिहापि द्रष्टव्यः। गुणो ह्रार्धधातुकमङ्गसम्बन्धिनीञ्चोपधां लध्वीमिग्लक्षणां विशिष्टामेवाश्रयति। ऊडादेशस्त्वनुनासिकादिं प्रत्ययमङ्गसम्बन्धिताविशिष्टं वकारमात्रम्?। तस्माद्गुणो बहिरङ्गः। ऊडादेशस्त्वन्तरङ्गः। अतोऽन्तरङ्गत्वाल्लधूपधगुणात्? पूर्वमेवोठ्? क्रियते। ततर कृतेऽन्तरङ्गत्वाद्यणादेश इति लघूपधगूणात्? पूर्व क्रियत इति प्रकृतेन सम्बन्धः। अन्तरङ्गत्वं तु वर्णाश्रयत्वाद्यणादेशस्य। ननु च `वर्णादाङ्गं बलीयः` (व्या।प।39) इत्याङ्गस्य गुणस्यैव बलीयस्त्वम्, ततः स एव यणादेशात्? पूर्वं कस्मान्न क्रियते? इत्याह -`नानाश्रयत्वात्` इत्यादि। यत्र ह्रुभावप्याङ्गवार्णौ विधी एकं निमित्तमाश्रित्य प्राप्नुतस्तत्रेयमुपतिष्ठत इत्युक्तम्। इह तु यणादेश ऊडाश्रयः, गुणस्त्वार्धधातुकाश्रय इति भिन्नाश्रयत्वम्। अतो नैयं परिभाषोपतिष्टते। `शब्दप्राट्` इति। शब्दं पृच्छतीति `क्विब्वचि` (वा।288) इत्यादिना क्विप्, दीर्घश्च, वश्चादिसूत्रेण (8.2.36) शकारस्य षकारः, तस्यापि जश्तवं डकारः, तस्यापि चर्त्वं टकारः। `गोविट्` इति। `विच्छ गतौ` (दा।पा।1423) गां विच्छतीति क्विप्। `क्विप्च` (3.2.76) इत्यनेन। तथा `अक्षुद्यः, हिरण्यष्ठ्यूः` इत्यत्रापि दिविष्ठिविभ्याम्। ननु यणादेशोऽन्तरङ्गो वर्णाश्रयत्वात्। ऊडादेशस्तु प्रत्ययाश्रयत्वाद्बहिरङ्गः, तत्र `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति यणादेशनात्र न भवितव्यम्? इत्यतद आह -`असिद्धं बहिरङ्गमन्तरङ्गे` इत्यादि। यत्र द्वयोरचोरानन्तर्य्यं तत्रैषा प्रतिषिध्यते `नाजानन्तर्ये बहिष्ट्वपरकॢप्तिः` (व्या।प।44) इति। अस्या अयमर्थः -अचोरानन्तर्ये सति बहिरङ्गपरिभाषा न प्रकल्पते, न भवतीत्यर्थः। अत्रार्थे ज्ञापकम् -**षत्वतुकोरसिद्धः** (6.1.86) इति तुकि कर्तव्येऽसिद्धवचनम्। तस्य ह्रेतदेव प्रयोजनम् -अधीत्येत्यत्र सवर्णदीर्घस्यासिद्धत्वाद्ध्रस्वलक्षणस्तुग्यथा स्यादिति। यदि चाचोरानन्तर्ये बहिरङ्गपरिभाषा स्यात्? तदैकपदाश्रयत्वादन्तरङ्गे तुकि कर्तव्ये पदद्वयाश्रयत्वाद्बहिरङ्गस्यैकादेस्यासिद्धत्वं भविष्यतीति किमसिद्धवचनेन? तदैकपदाश्रयत्वादन्तरङ्गे तुकि कर्तव्ये पद्द्वयाश्रयत्वाद्बहिरङ्गस्यैकादेस्यासिद्धत्वं भविष्यतीति किमसिद्धवचनेन? तत्क्रियतेजानन्तर्ये बहिरङ्गपरिभाषा नास्तीति ज्ञापनार्थम्। `हिरण्यष्ठ्यूः` इत्यत्र **धात्वादेः षः सः** (6.1.64) इति सत्वं न भवति; `सुब्धातुष्टिवुष्वष्कतीनं प्रतिषेधो वक्तव्यः` (वा।671) इति वचनात्। `पृष्टः` इति। ग्रह्रादिसूतद्रेण (6.1.16) सम्प्रसारणम्, पूर्ववत् षत्वं ष्टुत्वञ्च। `द्युभ्याम्` इति। **दिव उत्** (6.1.131) इत्युत्तवम्। `येऽत्र क्ङितीति नानुवर्तयन्ति तेषामन्यत्राप्यनेन विधिना भवितव्यम्, ततः द्युभ्याम्, द्युभिरिति न सिध्यतीति मन्यमान आह -`कथं द्युभ्याम्, द्युभिरिति ऊठि कृते` इति। ऊठि कृते न किञ्चित्? सिध्यतीत्यर्थः। `दिव उदिति तपरत्वान्मात्राकालो भविष्यति` इति। **दिव उत्** (6.1.131) इत्यत्र तपरकरणं न कर्तव्यम्। यद्यपि हि `भाव्यमान उकारः सवर्णान्? गृह्णाति` (चान्द्र प।44), तथाप्यान्तरतम्यादर्धमात्राकालस्य व्यञ्जनस्य मात्राकाल एवोकारो भविष्यति। न दीर्घ इति किं तन्निवृत्त्यर्थेन तपरकरणेन? तक्रियते लक्षणान्तरेणापि यो दीर्घः प्राप्नोति स मा भूदित्येवमर्थम्। तेनात्र **दिव उत्** (6.1.131) इत्यनेनैव तपरत्वान्मात्राकालो भविष्यति, अन्यथा यदि **च्छ्वोः शूडनुनासिके च** (6.4.19) इत्यनेन दीर्घः स्यात्? ततो निष्फलं **दिव उत्** (6.1.131) इत्यत्र तपरकरणं स्यात्; व्यावर्त्त्याभावात्। अथ वा `ऊठि कृते` इत्युत्तरेण परिहारग्रन्थेन सम्बध्यते। तत्रायमर्थः -क्रियतां नाम सामान्येन क्ङिति चाखिति चोठ्। कृतेऽपि तत्र `एकादेशविकृतमनन्यवद्भवति` (व्या।प।16) इति तस्यैव स्थाने **दिव उत्** (6.1.131) इत्यनेन तपरत्वाद्ध्रस्वो भविष्यति। एतदेव हि तस्य प्रयोजनम् -ऊठ्स्थाने भवन्? मात्रिको यथा स्यात्, आन्तरतम्याद्दीर्घो मा भूदिति। अस्मश्च व्याख्याने यदुकग्तम् -`दिव उदिति तपकरणमूठो निवृत्त्यर्वम्, द्युभ्याम्, द्युभिरित्यत्र परत्वादूठ्? प्राप्नोति` इति तद्विरुध्यते। न हि तेनोत्त्वस्योठः स्थान्यादेशभाव उपपद्यते, किं तर्हि? बाध्यबाधकभावः। तथा हि तस्यायम्रथो वण्र्यते -ऊठो निवृत्त्यर्थ बाधनार्थ तपरकरणम्। असति हि तस्मिन्? परत्वाटूठ्? प्राप्नोति, तस्मात्? तद्बाधनार्थं तपरकरणम्। परमप्यूठं बाधित्वाऽनेनैवमात्रिक उकारो यथा स्यादिति नास्ति विरोधः। ये हि स्थान्यादेशभावमिच्छन्ति त एवं ग्रन्थं व्याचक्षते। ऊठो निवृत्त्यर्थ स्थानिभूतस्योठो निवृत्त्यर्थमित्यर्थः। ऊडादेशे कृत ऊठ्स्थितिमतो निवृत्तिर्यथा स्यादित्येवमर्थं तपरकरणमित्यर्थः। परत्वादूठ्? प्राप्नोतीत्यत्र विहितश्च। श्रुतिमानित्यध्याहाय्र्यम्। तदेतदुक्तं भवति -अत्र हि परत्वादूड्विहितः सन्? श्रतिमानेव प्राप्नोति, निवृत्तिमांश्चेष्यते। तस्मात्? तस्य निवृत्तये तपरत्वमिति। अतपरेऽप्यादेशे विधीयमाने सत्यूठो निवृत्तिर्भवत्येव; निवृत्तिधर्मत्वात्? स्थानिनः। उच्यते चेदं तपरकरणसूठो निवृत्त्यर्थमिति। तत्र वचनसामथ्र्याद्यस्यां निवृत्तौ सत्यां विशेषो भवति तदर्थं तपरकरणमिति विज्ञायते। ततश्च सामथ्र्यादिदमुक्तम् -भवत्यूठो ह्रस्वादेशार्थं तपरकरणमिति। यतस्तपर आदेशे सत्यूठो या निवृत्तिः क्रियते तस्यां सत्यां विशेषो भवति। नातपरे। अतपरे ह्रादेशे सत्यान्तरतम्याद्दीर्घस्य दीर्घ एव स्यादिति कुतो विशेषः। किं पुनः किद्ग्रहणे निवृत्ते सतीष्टं सिध्यति, यदर्तं केचिदत्र क्ङितीति नानुवर्तयन्तीत्याह -`छशां षः इत्यत्र` इत्यादि। क्ङिद्ग्रहणे निवृत्ते सत्यविशेषेण क्ङिति चाक्ङिति चानेने च्छकारस्य शकारो विधीयते, तेन व्रश्चादिसूत्रे (8.2.66) छग्रहणं न कर्तव्यं भवेत्। शकारस्य षत्वविधानेनैव सर्वस्य षत्वस्याभावाच्छकारस्य षत्वविधानार्थं व्रश्चादिसूत्रे (8.2.36) छग्रहणं कर्तव्यमेव। अथ तेषां कथं प्रष्ठेति सिध्यति, यावता तुकि कृते छकारमात्रस्य षत्वे प्रट्ष्टेत्यनिष्टं रूपं प्राप्नोति? नैष दोषः, ते हि व्रश्चादिसूत्रे (8.2.36) सतुक्कस्य च्छकारस्य ग्रहणमिच्छन्ति। ऊडयं यदि टित्? स्यात्? **आद्यन्तौ टकितौ** (1.1.46) इत्यादौ स्यात्। तत्र यद्यपि वकारस्य वलि लोपे कृते सत्यक्षद्यूरित्यादि सिध्यति, जूरित्यादि तु न सिध्ये। टित्त्वे हि सति ज्वरत्वरादि (6.4.20) सूत्रेणैको वकारात्? पूर्वमूडपरोऽकारादिति द्वावूठौ स्याताम्। तस्मादूठष्ठित्त्वमङ्गीकर्तव्यम्? न टित्त्वम्। तस्यापि ठित्त्वस्य यदि प्रयोजनं न स्याद्वैयथ्र्य स्यादित्येतच्चेतसि कृत्वोडादेशस्य यट्ठित्त्वं तस्य प्रयोजनं दर्शयितुमाह -`ऊठष्ठित्करणम्` इत्यादि। एवं ब्राऊवता **एत्येधत्यूठ्सु** (6.1.89) इत्यत्रापि ठित एव ग्रहणं भवति। एवं ह्रूठष्ठित्करणस्य विशेषणार्थतोपपद्यते, यदि तत्रापि ठित एव ग्रहणं भवति, नान्यथा। यद्यत्र ठकारोऽनुबन्धो न क्रियते तदा **एत्येधत्यूठ्सु** (6.1.89) इत्यत्रापि न कर्तव्यम्; ठकारानुबन्धवत ऊकारस्य क्वचिदसम्भवात्। एवञ्चोच्यमाने प्रौउहते, प्रोहत इत्यत्रापि वृद्धिः स्यात्। तस्माद्विशेषणार्थं ठित्करणं क्रियते। ठकारस्य तु श्रवणं न भवति; कृतचर्त्वस्य निर्देशात्। यदि तर्हि ठिदयम्, **एत्येधत्यूठ्सु** (6.1.89) इत्यत्रापि ठित एव ग्रहणम्, एवं सति **वाह ऊठ्** (6.4.132) इत्यस्य तत्र ग्रहण#ं न स्यात्, ततश्च प्रष्ठौह इत्यत्र वृद्धिर्न स्यादित्यत आह -`वाह ऊठित्ययमपि` इत्यादि। ठकारस्यापि पूर्ववदेवाश्रवणम्॥ बाल-मनोरमाध्वसोरेद्धावभ्यासलोपश्च 302, 6.4.19 ध्वसोरेद्धौ। घुस अस् अनयोद्र्वन्द्वः। एत् -हौ इति च्छेदः। ननु अस् हि इति स्थिते `हुझल्भ्यो हेर्धि`रिति। धित्वं परत्वाद्बाधित्वा परत्वाद्बाधित्वा `ध्वसो`रिति सकारस्य एत्त्वे हुझल्भ्यः परत्वाऽभावात्कथं धिभाव इत्यत आह -आभीयत्वेनेति। तथा च अ ए धीति स्थिते आह - श्नसोरिति। नन्वाशिषि अस् हि इति स्थिते तातङ बाधित्वा परत्वादेत्त्वं प्राप्नोतीत्यत आह - तातङ्पक्षे एत्त्वं नेति। कुत इत्यत आह - परेणेति। ननु कृते तातङि तस्य स्थानिवत्त्वेन हित्वात्तस्मिन्परे `ध्वसो`रित्येत्त्वं कुतो नेत्यत आह - सकृद्गताविति। सकृत् = एकवारं, गतौ = प्रवृत्तौ, विप्रतिषेधे = विरोधे सति, यद्बाधितमेव भवति, नतु पुनः प्रवर्तत इति तदर्थः। लङस्तिपि विशेषमाह -अस्तिसिचेति। इकारलोपे आटि वृद्धौ `अस्तिसिचः` इति ईडागम इत्यर्थः। ननु तसादौ ङिति परत्वादाडागमात्प्राक् `श्नसो`रित्यल्लोपे सति अजादित्वाऽभावात्कथमाडित्यत आह - श्नसोरल्लोपस्याभीयत्वेनेति। आस्तामिति। अत्र कृते आडागमे तस्य लोपनिवृत्त्यर्थं `श्नसोरल्लोपः` इति तपरकरणम्। वस्तुतस्तु आट आभीयत्वेनाऽसिद्धत्वादेव लोपे न भवतीति `श्नसोरल्लोपः` इत्यत्र तपरकरणं व्यर्थमिति भाष्ये स्पष्टम्। आसन्निति। आसीः आस्तम्। आस्त। आसम्। आस्व आस्म। विधिलिङ्याह - स्यादिति। स्याताम् स्युरित्यादि। आशीर्लिङि आर्धधातुकत्वाद्भूभावं मत्वाह - भूयादिति। लुङि तु सिचि भूभावे `गातिस्थे`ति सिचो लुकं मत्वाह - अभूदिति। तत्र `अस्तिसिचोऽपृक्ते` इति ईडागममाशङ्क्य आह - सिचोऽस्तेश्चेति। इह भूभावे सति अस्तेरश्रूयमाणत्वादीण्नेति भावः। बाल-मनोरमाच्छ्वोः शूडनुनासिके च 388, 6.4.19 च्छ्वोः शूडनुनासिके च। च्छ् व् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम्। छकारात्प्राक्तुकः श्चुत्वेन चकारस्य निर्देशः। `शूठ` इति छेदः। श् ऊठ् अनयोः समाहारद्वन्द्वात्प्रथमा। चकारेण क्विझलोः क्ङितीत्यनुवर्तते। तदाह - सतुक्कस्येत्यादि। यथा विश्नः प्रश्नः। विच्छधातोः प्रच्छधातोश्च औणादिके नङ्प्रत्यये अन्तरङ्गत्वात् `छे चे`ति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः। वकारस्य ऊठमुदाहरति - खौनातीति। खव् ना तीति स्थिते वकारस्य ऊठ, ठकार इत् `एत्येधत्यूठ्सु` इति वृद्धिरिति भावः। खौनीतः खौनन्तीत्यादि। खव् ना हि इति स्थिते `हलः श्नश्शानज्झौ`इतिशानजादेशमाशङ्क्याअह - शानचः परत्वादिति। हेठ चेति। हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः। ग्रह उपादाने इति। अदुपधः। स्वरितेत्त्वादुभयपदी। किति ङिति च संप्रसारणं स्मारयति - ग्रहिज्येति। गृह्णाति गृह्णीते इति। श्नाप्रत्ययस्य ङित्त्वाद्रेफस्य संप्रसारणे पूर्वरूपमिति भावः। णलि द्वित्वे कृते `लिटभ्यासस्ये`ति संप्रसारणे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासचुत्वे उपधावृद्धिः। जग्राह।अतुसादौ क्ङति परत्वात् `ग्रहिज्ये`ति संप्रसारणे कृते द्वित्वादि। जगृहतुः जगृहुः। जग्रहिथ। जगृहुथुः जगृह। जग्राह-जग्रह जगृहिव जगृहिम। जगृहे जगृहाते जगृहिरे। जगृहिषे जगृहाथे जगृहिढ्वे-जगृहिध्वे। जगृहे जगृहिवहे जगृहिमहे। Prakriyasarvasvam ----------------- अनुनासिकादौ प्रत्यये क्वौ झलादौ किङति च परे छस्य शः स्यात् । वस्य च ऊठ् स्यात् । विच्छ गतौ, विश् छाभावात् तुङ्निवृत्तिरिति रामः । पदत्वे शस्य षः । विट् विशौ । नोपधस्य वाञ्छेः क्विप् । च्छस्य शः । वान् श् पदत्वे संयोगान्तलोपः । वान् वांशौ । ऊट्ठकार 'एत्येधत्यूठ्सु' (६-१-८९) इति निर्देशार्थः । टित्त्वे त्वादौ स्यादिति ठित् कृतः । दिवेर्वस्य ऊत्वं यण् अक्षद्यूः । सिव् हारस्यूः । सेवेरूठि, अयादेशः । सयूः सेवकः । Sutra Prayogas -------------- * **वह्निनिष्ठ्यूतमैशम्** (रघुवंशम्): `च्छ्वोः शूडनुनासिके च` इत्यनेन निपूर्वात्ष्ठीवतेर्वकारस्य ऊठ्। * **अद्यूनः** (किरातार्जुनीयम्): `च्छ्वोः शूडनुनासिके च` इत्यूठादेशः। * **ष्ठ्यूत** (किरातार्जुनीयम्): `च्छ्वोः शूडनुनासिके च` इत्यूठादेशः। * **नीलोपलस्यूतविचित्रधातुमसौ** (शिशुपालवधम्): `च्छ्वोः शूडनुनासिके च` इत्युडादेशे यणादेशः। * **निर्धौते** (शिशुपालवधम्): `च्छ्वोः शूडनुनासिके च` इति वकारस्योठादेशः। * **रोरुदा-वान्** (भट्टिकाव्यम्): `यस्य हलः` इति स्त्रियामतष्टाप्। * **मृग-द्युवौ** (भट्टिकाव्यम्): `च्छ्लो: शूडनुनासिके च` इति चकारात् कौ च ऊठ् यणादेशः। * **अदुद्यूषयद्** (भट्टिकाव्यम्): `च्छोः शूर्-` इति ऊठ्। * **दुद्यूषुः** (भट्टिकाव्यम्): `छोः शूर` इति दिवेरिडभावपक्षे।