64015: अनुनासिकस्य क्विझलोः क्ङिति
==================================
**Padacheda:** अनुनासिकस्य | S | 6 | 1 |
क्वि-झलोः | S | 7 | 2 |
क्ङिति | S | 7 | 1 |
Sutrartha
---------
**अनुनासिकान्तस्य अङ्गस्य उपधावर्णस्य - (1) क्विप्-प्रत्यये परे (2) झलादि-कित्-प्रत्यये परे (3) झलादि-ङित्-प्रत्यये परे - दीर्घादेशः भवति ।**
अनुनासिकान्त-अङ्गस्य यः उपधावर्णः, तस्य - (1) क्विप्-प्रत्यये परे, (2) झलादि कित्-प्रत्यये परे, तथा च (3) झलादि ङित्-प्रत्यये परे अनेन सूत्रेण दीर्घादेशः विधीयते । उदाहरणानि एतानि -
**क्विप्-प्रत्यय**
अष्टाध्याय्याम् द्वौ भिन्नौ 'क्विप्-प्रत्ययौ विद्येते । कृत्संज्ञकः 'क्विप्' प्रत्ययः **क्विप् च** (3.2.76) इति सूत्रेण सर्वेभ्यः धातुभ्यः विधीयते । सनादिसंज्ञकः 'क्विप्' प्रत्ययः इति वार्त्तिकेन सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते । उदाहरणानि एतानि -
1. शम्-धातोः क्विप्-प्रत्ययान्तरूपम् -
.. code-block:: text
शमुँ (उपशमे, दिवादिः, (4.98))
--> शम् + क्विप्
--> शम् + व् [ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा, पकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । द्वयोः **तस्य लोपः** (1.3.9) इति लोपः । इकारः उच्चारणार्थः, सः अपि लुप्यते ।]
--> शाम् + व् [**अनुनासिकस्य क्विझलोः क्ङिति** इति उपधादीर्घः]
--> शाम् [वकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः भवति]
एवमेव -
अ) प्र + तम् (काङ्क्षायाम्, (4.99)) + क्विप् --> प्रतान्
आ) दम् (उपशमे, (4.100)) + क्विप् --> दाम्
इ) घुण् (भ्रमणे, (1.505)) + क्विप् --> घूण् ।
इत्यादीनि रूपाणि अपि सिद्ध्यन्ति ।
2. इत्यनेन वार्त्तिकेन 'तत् इव आचरति' इत्यस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः क्विप्-प्रत्ययः भवति । यथा - 'राजा इव आचरति' इत्यस्मिन् अर्थे राजन् शब्दस्य क्विप्-प्रत्ययः विधीयते -
.. code-block:: text
राजन् + क्विप्
→ राजन् + व् [ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा, पकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । द्वयोः **तस्य लोपः** (1.3.9) इति लोपः । इकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ राजान् + व् [**अनुनासिकस्य क्विझलोः क्ङिति** (6.1.14) इत्यनेन अनुनासिकस्य अङ्गस्य उपधावर्णस्य क्विप्-प्रत्यये परे दीर्घादेशः भवति ।]
--> राजान् [**वेरपृक्तस्य** (6.1.67) इति अपृक्तवकारस्य लोपः । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
वाक्ये प्रयोगः - देवदत्तः राजानति । देवदत्तः राजा इव आचरति इत्यर्थः ।
एवमेव -
अ) पन्था इव आचरति इति पथीनति । अ्त्र 'पथिन् + क्विप् --> पथीन्' इति क्विबन्तधातुः ।
आ) दण्डिन् इव आचरति इति दण्डीनति । अत्र 'दण्डिन् + क्विप् --> दण्डीन्' इति क्विबन्तधातुः ।
**झलादि कित्-प्रत्ययः **
यस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'झलादि-कित्-प्रत्ययः' नाम्ना ज्ञायते । यथा - क्त्वा, क्त, क्तिन् आदयः । अस्मिन् प्रत्यये परे अङ्गस्य उपधावर्णस्य दीर्घः भवति । यथा -
.. code-block:: text
शमुँ (उपशमे, दिवादिः, (4.98))
--> शम् + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
--> शाम् + त [**अनुनासिकस्य क्विझलोः क्ङिति** इति उपधादीर्घः]
--> शांत [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
--> शान्त [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः]
एवमेव
अ) तम् (कांक्षायाम् (4.99)) + क्त --> तान्त
आ) क्षम् (सहने, (1.510)) + क्त --> क्षान्त
आदीनि रूपाणि अपि सिद्ध्यन्ति ।
**झलादि ङित्-प्रत्ययः**
यस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ङकारः इत्संज्ञकः अस्ति (नो चेत् यः प्रत्ययः अतिदेशेन ङित्त्वम् प्राप्नोति) सः प्रत्ययः 'झलादि-ङित्-प्रत्ययः' नाम्ना ज्ञायते । एतादृशे प्रत्यये परे अनुनासिकान्तस्य अङ्गस्य वर्तमानसूत्रेण उपधादीर्घः भवति । यथा -
.. code-block:: text
शमुँ (उपशमे, दिवादिः, (4.98))
--> शम् + यङ् [**धातोरेकाचो हलादे क्रियासमभिहारे यङ्** (3.1.22) इति क्रियासमभिहारे यङ्-प्रत्ययः]
→ श + शम् + य [**सन्यङोः** (6.1.9) इति द्वित्वम्]
--> श + शम् + य [**हलादिः शेषः** (7.4.60) इति मकारः लुप्यते ।]
→ शन् + शम् + य [**नृगतोऽनुनासिकान्तस्य** (7.4.85) इति अभ्यासस्य नुक्-आगमः ।]
→ शन् + शम् [**यङोऽचि च** (2.4.74) इति यङ्-प्रत्ययस्य लुक् । अयं बहिरङ्गत्वात् द्वित्वकार्यात् अनन्तरं भवति । ]
→ शन्शम् [ **सनाद्यन्ताः धातवः** (3.1.32) इति धातुसंज्ञा ]
→ शन्शम् + लट् [**वर्तमाने लट्** (3.2.123) इति लट् ]
→ शन्शम् + तस् [**तिप्तस्झि...** (3.4.78) इति प्रथमाद्विवचनस्य विवक्षायाम् तस्-प्रत्ययः । **सार्वधातुकमपित्** (1.2.4) इत्यनेन तस्-प्रत्ययः ङिद्वत् कार्य करोति ।]
→ शन्शम् + शप् + तस् [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकं गणविकरणम् शप्]
→ शन्शम् + तस् [**चर्करीतं च** इत्यनेन गणसूत्रेण यङ्लुगन्तानाम् अदादिगणे समावेशः क्रियते । अतः **अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक् भवति । ]
→ शन्शाम् + तस् [**अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति झलादि ङिति तस्-प्रत्यये परे उपधादीर्घः ]
--> शन्शाम्तः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ]
→ शंशांतः [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ शंशान्तः [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति नकारादेशः]
एवमेव 'तम् (कांक्षायाम् (4.99))' इत्यस्य यङ्लुकि लटि प्रथमपुरुषे द्विवचनस्य रूपम् 'तन्तान्तः' इति सिद्ध्यति ।
**बाध्यबाधकभावः**
1) झलादि-कित्-ङित्-प्रत्यये परे **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) अनेन सूत्रेण उक्तः उपधादीर्घः द्वाभ्यां सूत्राभ्याम् बाध्यते -
अ) अनुदात्तोपदेशधातूनां विषये तथा च तनोत्यादिगणस्य धातूनां विषये अत्र उक्तम् उपधादीर्घं बाधित्वा **अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति** (6.4.37) इत्यनेन अनुनासिकलोपः भवति । यथा, गम् + क्त --> गत ।
आ) जन्, सन्, खन् - एतेषां विषये अत्र उक्तम् उपधादीर्घं बाधित्वा **जनसनखनां सञ्झलोः** (6.4.42) इति अन्तिमवर्णस्य आकारादेशः भवति । यथा - जन् + क्त --> जात ।
2) हन्-धातोः विषये क्विप्-प्रत्यये परे शिष्टप्रयोगसामर्थ्यात् इदं सूत्रं न प्रवर्तते । ब्रह्माणं अहन् = ब्रह्म + हन् + क्विप् --> ब्रह्महन् ।
यदि प्रत्ययस्य इडागमः भवति, तर्हि तस्य अजादित्त्वात् इदं सूत्रं नैव प्रवर्तते । यथा, 'कणँ (शब्दे, सेट्, (1.517)) + क्त' इत्यत्र प्रत्ययस्य इडागमे कृते 'कणित' इति रूपं भवति । अत्र प्रत्ययस्य अजादित्त्वात् **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति सूत्रं नैव प्रवर्तते ।]
Sutrartha (English)
-------------------
If an अङ्ग ends in an अनुनासिक, the उपधा letter of that अङ्ग becomes दीर्घ in presence of a क्विप्-प्रत्यय, झलादि-कित्-प्रत्यय and a झलादि-ङित्-प्रत्यय.
Vasu English Summary
--------------------
The penultimate vowel of a अङ्ग (stem) ending in a nasal is lengthened before the affix क्वि and before an affix having an indicatory क् or ङ् which begins with a consonant other than a semi-vowel or a nasal.
Vasu English Translation
------------------------
The penultimate vowel of a अङ्ग (stem) ending in a nasal is lengthened before the affix क्वि and before an affix having an indicatory क् or ङ् which begins with a consonant other than a semi-vowel or a nasal.
Thus प्रशान् and प्रतान् from the roots शम् and तम् by (8.2.64). So also before an affix beginning with a झल् consonant (any consonant but a nasal and a semivowel). As शान्तः (with क्त), शान्तवान् (with क्तवतु), शान्त्वा (with क्त्वा), शान्तिः (with क्तिन्). These are all formed with कित् affixes. As to ङित् affixes we have शंशान्तः and तन्तान्तः formed by तस् 3rd Person Dual added to the Intensive roots शम् and तम् ॥ तस् is ङित् by (1.2.4). Why do we say 'ending in a Nasal'? Observe ओदनपक्, पक्वः, पक्ववान् ॥ Why do we say 'before क्वि and *jhaladi* affix'? Observe गम्यते, रम्यते ॥ Why do we say ङित् or a कित् affix? Observe गन्ता and रन्ता ॥
Kashika
-------
अनुनासिकान्तस्याङ्गस्य उपधाया दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति। प्रशान्। प्रतान्। झलादौ किति — शान्तः। शान्तवान्। शान्त्वा। शान्तिः। ङिति खल्वपि — शंशान्तः। तन्तान्तः। यङ्लुगन्तादयं तस्। अनुनासिकस्येति किम्? ओदनपक् । पक्वः। पक्ववान्। क्विझलोरिति किम्? गम्यते। रम्यते। क्ङितीति किम्? गन्ता। रन्ता॥
Siddhanta Kaumudi
-----------------
अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिवदेवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतो लोपाच्चक इति रूपमाह । स्व इव स्वति । सस्वौ । सस्व । यत्तु स्वामी स्वांचकरेति तदनाकरमेव ॥
Laghu Siddhanta Kaumudi
-----------------------
अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति। इदमिवाचरति इदामति। राजेव राजानति। पन्था इव पथीनति॥
Balamanorama
------------
**अनुनासिकस्य क्विझलोः क्ङिति** - अनुनासिकस्य । अङ्स्येत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः ।नोपधायाःट इत्यत उपधाया इति, 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादिना । इदामतीति ।हलन्तेभ्य आचारक्विप् नास्ती॑ति 'ह्रस्वनद्यापः' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति । पथिन्शब्दात्क्विपिअनुनासिकस्ये॑ति इकारस्य दीर्घः । इदं तु माधवानुरोधेन । क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम्,इन्ह॑न्निति नियमेन दीर्घाऽप्राप्तेः । न च नियमस्य अन्तरङ्गत्वात्अनुनासिकस्येटत्युपधादीर्घापत्तेरित्याहुः । देवतीतीति । दिव्शब्दादाचारक्विबन्ताच्छपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वात्दिव उ॑दित्युत्त्वं नेति भावः । अत्र ऊठीति । दिव्शब्दात् क्विपिच्छ्वो॑रिति वकारस्य ऊठि कृते लघूपधगुणं बाधित्व परत्वादिकारस्य यणि द्यूशब्दाच्छपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः । चकाविति । कशब्दात्क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे 'आत औ णलः' इत्यौत्त्वे वृद्धिरेकादेश इति भावः । माधवस्त्विति । चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृदिंध बादित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक अ इति रूपमित्यर्थः । नचैवं सति अ इवाचरति अति, औ, अतुरित्यत्रापि लिटिअत आदे॑रिति दीर्घं बाधित्वा अतो लोपः स्यादिति वच्यं,ण्यल्लोपा॑विति पूर्वविप्रतिषेधलभ्योऽतो लोपः संनिहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, ननुअत आदे॑रिति दीर्घमपि,अनन्तरस्ये॑ति न्यायादिति माधवाशय इत्याहुः । तदनाकरमेवेति । अनेकाच्त्वाऽभावादिति भावः । वस्तुतस्तुप्रत्ययग्रहणमपनीये॑त्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् ।
Tattvabodhini
-------------
**अनुनासिकस्य क्विझलोः क्ङिति** - अनुनासिकस्य ।अङ्गस्ये॑ति विशेष्यसन्निधानात्तदन्तलाभः ।ढ्रलोपे॑ इत्यतो दीर्घग्रहणं,नोपधायाः॑ इत्यत उपधाग्रहणं चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादि । झलादाविति । एतच्चयस्मिन्विधिस्तदादावल्ग्रहणे॑ इति परिभाषया लभ्यते । झलादौ किति शान्तो दान्त इत्युदाहरणं, ङिति तु यङ् लुकि — तसि शंशान्तः दंदान्तः । पथीनतीति । अन्तरङ्गत्वाद्दीर्घस्ततो न गुण इत्याहुः ।इन्ह॑ न्नित्यनेन शावेवेति नियमाद्दीर्घाभावे गुणे सतिपथेनती॑न्निति नियमो, न तु पथ्यादीनाम् । एतेषां तु शौ परतः सुपन्थानीत्यादावुपधादीर्घप्रवृत्तावपिइतोऽत्सर्वनामस्थाने॑ इत्यत्वे कृतेइन्ह॑ न्निति नियमाऽप्रवृत्तेः । अन्यथा पन्थानौ पन्थान इति न सिध्येत् । तथा च पथीनतीत्यात्याद्येव साध्वित्यपरे । देवतीति माधव इति । अपदान्तत्वाद्दिव उन्न । अत्रेति । लघूपधगुणं बाधित्वान्तरङ्गत्वादूठि यण् । तस्मिन्कर्तव्ये बहिरङ्गस्याप्यूठो नाऽसिद्धत्वं,नाजानन्तर्ये॑ इति निषेधात् । न च वर्णादाङ्गस्य बलीयस्त्वाद्यणं बाधित्वा लघूपधगुणः स्यादिति वाच्यं, व्याश्रयत्वात् । अत एव सिवेरौणादिके नप्रत्यये स्योनशब्दः सिध्यतीति भावः । क इवेति । को — ब्राहृआ । चक इतीति । नन्वेवमौ अतुरित्यत्रापिअत आदेः॑ इति दीर्घं बाधित्वाअतो लोप॑ एव स्यादिति चेत् । अत्राहुः — ण्यल्लोपौ॑ इति वचनेन जायमानो योऽतो लोपः स तु सन्निहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, अनन्तरस्येति न्यायात्, न तु व्यवहितमपिअत आदे॑रिति दीर्घमिति माधवाशान्नानेन तद्ग्रन्थस्य विरोध इति । अनाकरमेवेति । अनेकाच्त्वाऽभावादित्यर्थः । अन्ये तु भाष्येप्रत्ययग्रहणमनीये॑ इत्यनुक्तत्वात्प्रत्ययान्ततया स्वामासेत्यादि रूपं शुद्धमेवेत्याहुः ।
Padamanjari
-----------
अङ्गाक्षिप्तस्य झला विशेषणातदादिविधिः । कितीत्येतत्सम्भवव्यभिचाराभ्यां झलादेरेव विशेषणम् । प्रतानित्यादि । तमु काडक्षायाम्, शमु उपशमे, दमु ग्लानौ - एतेभ्यः क्विप, मो नो धातोः इति नत्वम् । यङ्लुगन्तातसिति । स्य सार्वधातुकमपित् इति ङ्त्विम् । वस्तुकथनं चैतत्, न त्वनेन निष्ठाशङ्का वार्यते ङिति खल्वपि इत्युपक्रमात् । किञ्च निष्ठायामिटा भवितव्यम्, न चोदित्वाद् यस्य विभाषा इति प्रतिषेधः, एकाचेति तत्रानुवृतेः ॥
Nyaas
-----
`क्विप्प्रत्यये परतो झलादौ च क्ङिति` इति। अत्र `क्ङिति` इत्येतज्झलादावित्यनेनैव सम्बध्यते, न तु क्विप्प्रत्ययेन; यतः सम्भवव्यभिचारे हि विशेष्यविशेषणभावो भवति। कित्त्वङित्त्वयोस्तु सम्भव्यभिचारा वुभावपि झलादौ स्तः, न तु क्वौ। तथा हि कित्त्वस्य क्वावव्यभिचारः, ङित्त्वस्य तवसम्भवः। `प्रशान्? प्रतान्? प्रदान्` इति। `शमु उपशमे` (धातुपाठः-1201), `तमु कांक्षायाम्` (धातुपाठः-1202), `दमु उपशमे` (धातुपाठः-1203) -एतेभ्यः प्रपूर्वेभ्यः क्विपि **मो नो धातोः** (8.2.64) इति नत्वम्। `शंशान्तः` इति। शमेर्यङः, द्विवचनम्, `नृगतोऽनुनासिकान्तस्य` (7.4.85) इति नुक्, **यङोऽचि च** (2.4.74) इति यङो लुक्, लट्, तस्, तस्य **सार्वधातुकमपित्** (1.2.4) इति ङित्त्वम्, `चर्करीतञ्च` (धातुपाठः-1081) इत्यदादौ पाठाददादित्वाच्छपो लुक्॥
Prakriyasarvasvam
-----------------
क्वौ झलादौ क्ङिति च परे अनुनासिकान्तस्याङ्गस्योपधाया दीर्घः स्यात् । आभिरण् । कन दीप्तौ, दीर्घः, सुकान् । पदत्वे ‘नलोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नलोपः । सुका सुकानौ । शमे प्रशाम् । पदत्वे
Sudha
-----
**अनुनासिकस्य क्विझलोरिति ** । **अङ्गस्य** (6.4.1) इत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः । **नोपधायाः** (6.4.7) इत्यतः उपधाया इति, **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यतो दीर्घ इति चानुवर्तते । तदाह - **अनुनासिकान्तस्येत्यादिना** । "इदामति" । इदमिवाचरति इत्यर्थे इदमिति प्रातिपदिकात् इति क्विपि तस्य सर्वापहारे प्रत्ययलक्षणेन क्विबन्तत्वात् **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञायाम् **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति उपधायाः दीर्घत्वे "इदाम्" इति भूते तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे मिलित्वा "इदामति" इति रूपम् । "इदामतः", "इदामन्ति" इत्यादि । "इदामाञ्चकार", "इदामिता", "इदामिष्यति", "इदामतु", "ऐदामीत्", "इदामेत्", "इदाम्यात्","ऐदामीत्", "ऐदामिष्यत्" इति । **राजानति** । राजेवाचरति इत्यर्थे "राजन्" इति प्रातिपदिकात् इति क्विपि, क्विपो लुकि, प्रत्ययलक्षणेन क्विबन्तत्वात् **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञायाम् **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति उपधाया दीर्घत्वे "राजान्" इति जाते तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे मिलित्वा "राजानति" इति रूपम् । "राजानाञ्चकार", "राजानिता", "राजानिष्यति", "राजानतु", "अराजानत्", "राजानेत्", "राजान्यात्", "अराजानीत्", "अराजानिष्यत्" इति । "पथीनति " । पन्था इव आचरति इत्यस्मिन्नर्थे पथिन्शब्दात् उक्तवार्तिकेण क्विपि, क्विपो लोपे, **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इत्युपधाया दीर्घत्वे, **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञायां लटस्तिपि, शपि, अनुबन्धलोपे, संयुक्ते च कृते "पथीनति" इति रूपम् ।
Sutra Prayogas
--------------
* **प्रक्रान्तं** (भट्टिकाव्यम्): `अनुनासिकस्य क्विझलोः क्ङिति` इति दीर्घः।