64010: सान्तमहतः संयोगस्य ========================= **Padacheda:** सान्त | S | | | 6 महतः | S | 6 | 1 | संयोगस्य | S | 6 | 1 | Sutrartha --------- **यस्मिन् शब्दे अन्ते नकार-सकार-संयोगः अस्ति, तस्य शब्दस्य, तथा महत्-शब्दस्य नकारस्य उपधास्वरस्य असम्बुद्धौ सर्वनामस्थानपरे दीर्घः भवति ।** असम्बुद्धिवाचके सर्वनामस्थानसंज्ञके प्रत्यये परे - (1) महत्-शब्दे विद्यमानस्य नकारस्य उपधायाः दीर्घः भवति । (2) 'न्स्' अयं संयोगः यस्य अन्ते दृश्यते, तस्य शब्दस्य 'संयोगे विद्यमानस्य नकारस्य' उपधायाः दीर्घः भवति । यथा - (1) महत्-शब्दस्य प्रथमाद्विवचनस्य प्रक्रिया - महत् + औ [प्रथमाद्विवचनस्य प्रत्ययः] → महन् त् + औ [**उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इति नुमागमः] → महान् त् + औ [**सान्तमहतः संयोगस्य** (6.4.10) इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → महान्तौ (2) पयस्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रिया - पयस् + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → पयस् + शि [**जश्शसोः शि** (7.1.20) इति शि-आदेशः । **शि सर्वनामस्थानम्** (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → पयन्स् इ [शकारस्य इत्संज्ञा, लोपः । **नपुंसकस्य झलचः** (7.1.72) इति अङ्गस्य नुमागमः] → पयान्स् इ [**सान्तमहतः संयोगस्य** (6.4.10) इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → पयांसि [**नश्चापदान्तस्य झलि** (8.3.24) इति नकारस्य अनुस्वारः] (3) ईयसुँन्-प्रत्ययान्तः 'गरीयस्' शब्दः - गरीयस् + सुँ → गरीय न् स् + स् [**उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इति नुमागमः ] → गरीयान्स् + स् [**सान्तमहतः संयोगस्य** (6.4.10) इति उपधादीर्घः ।] → गरीयान्स् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → गरीयान् [**संयोगान्तस्य लोपः** (8.2.23) इति सकारलोपः] ज्ञातव्यम् - 1. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - हे महन् । 2. अनेन सूत्रेण निर्दिष्टः उपधादीर्घः धातोः विषये न भवति । यथा, 'सुहिन्स्' इदम् प्रातिपदिकम् 'सु + हिन्स् + क्विप्' एवम् सिद्ध्यति । **क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति** अनेन सिद्धान्तेन 'सुहिंस्' इत्यत्र अन्ते विद्यमानः 'न्स्'अयं धातोः अवयवः अस्ति, अतः अस्य शब्दस्य विषये अयमुपधादीर्घः न विधीयते । यथा - सुहिन्स् + सुँ → सुहिन् । अत्र संयोगान्तलोपं कृत्वा रूपं सिद्ध्यति । Sutrartha (English) ------------------- The स्वर preceding the नकार from (a) महत् and (b) any word that ends in न्स् - becomes दीर्घ in presence of प्रत्यय that is also a सर्वनामस्थान, other than सम्बोधन-एकवचन. Vasu English Summary -------------------- In the strong cases with the exception of Vocative Case singular, the penultimate vowel is lengthened in the case of a अङ्ग (stem) ending in स् with a Nasal consonant preceding it, and of महत्। Vasu English Translation ------------------------ In the strong cases with the exception of Vocative Case singular, the penultimate vowel is lengthened in the case of a अङ्ग (stem) ending in स् with a Nasal consonant preceding it, and of महत्। That is, a stem ending in the conjunct consonant न्स्, elongates its penultimate vowel before the affixes of the first five cases. Thus श्रेयान्, श्रेयांसौ, श्रेयांसः, श्रेयांसि, पयांसि, यशांसि ॥ महत्-महान्, महान्तौ, महान्तः ॥ But हे श्रेयन्, हे महन् in Vocative Singular. The Nasal is inserted by (7.1.70). Kashika ------- सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्योपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसंबुद्धौ। श्रेयान्, श्रेयांसौ, श्रेयांसः। श्रेयांसि। पयांसि। यशांसि। महतः खल्वपि — महान्, महान्तौ, महान्तः। असंबुद्धाविति किम्? हे श्रेयन्। हे महन्॥ Siddhanta Kaumudi ----------------- सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि । अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाज्जरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम् । अजरम् । अजरसी । अजरे । अजरांसि । अजराणि । शेषं पुंवत् । पद्दन्न (SK228) इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्गा । उदभ्यामित्यादि । आसानि । आस्ना । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये मांस्पचन्या उखाया इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । पद्दन्न (SK228) इत्यत्र हि छन्दसीत्यनुवर्तितं वृत्तौ तथापि अपोभि (SK442) इत्यत्र मासश्छन्दसीति वार्तिके छन्दोग्रहणसामर्थ्याल्लोकेऽपि क्वचिदिति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् ॥ Laghu Siddhanta Kaumudi ----------------------- सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने। महान्। महान्तौ। महान्तः। हे महन्। महद्भ्याम्॥ Balamanorama ------------ **सान्तमहतः संयोगस्य** - सान्त महतः ।सर्वनामस्थाने चासंबुद्धौ इति, 'नोपधाया' इति चानुवर्तते ।ने॑ति लुप्तषष्ठीकं पदम् ।ढ्रलोपे पूर्वस्ये॑त्यतो 'दीर्घ' इत्यनुवर्तते । नकारस्य उपधाया दीर्घ इति लभ्यते ।संयोगस्ये॑त्यवयवषष्ठन्तं नकारेऽन्वेति ।सान्ते॑ति षष्ठन्तं पृथक्पदम् । आर्ष षष्ठआ लुक् । सान्तस्येति लभ्यते । तच्च संयोगेऽभेदेनान्वेति-सान्तो यः संयोग इति । अत एवाऽसामर्थ्यान्महच्छब्देन तस्य न समासः । 'महत' इत्यप्यवयवषष्ठन्तम् । तच्च नकारेऽन्वेति । तदाह-सान्त-संयोगस्येत्यादिना । अजरांसीति । दीर्घे सतिनश्चपदान्तस्ये॑त्यनुस्वारः । अत्र उपधाया इति पूर्वत्वमात्रोपलक्षणं, पारिभाषिकोपधात्वस्याऽसंभवात् । अथ द्वितीयैकवचने रूपं दर्शयितुमाह — अमि लुक इति । अजर अमिति स्थितेस्वमोर्नपुंसका॑दिति सुक् प्राप्तः, तं बाधित्वा तदपवादोऽतोमित्यम्भावः प्राप्तः, तं बाधित्वाविप्रतिषेधे पर॑मिति परत्वाज्जरस् । अजरसमिति । वस्तुस्थितिकथनमेतत् । ननु लुगपवादस्याऽम्भावस्य जरसादेशेन बाधितत्वात्अपवादे निषिध्दे पुनरुत्सर्गस्य स्थिति॑रिति न्यायेनाऽमो लुक्कुतो न स्यादित्यत आह — तत इति ।ततो न लु॑गित्यन्वयः । जरसादेशानन्तरममो लुङ्न भवतीत्यर्थः । कुत इत्यत आह — संनिपातेति । अम्संनिपातमाश्रित्य प्रवृत्तस्य जरसस्तल्लुकि निमित्तत्वाऽभावादिति भावः । शेषं पुंवत् । अजरसा-अजरेण । अजरसे-अजराय । अजरसः-अजरात् । अजरसः-अजरस्य । अजरसोःअजरयोः । अजरसि-अजरे । ह्मदयोदकास्यशब्दाः सुटि ज्ञानवत् । शसादौ विशेषमाह — पद्दन्निति । ह्मन्दीति । ह्मदयशब्दाच्छसः शिभावे ह्मदादेशे 'नपुंसकस्य झलचः' इति ऋकारात् परतो नुमिनश्चपदान्तस्ये॑त्यनुस्वारे तस्य परसवर्णे नकारे रूपम् । इत्यादीति । ह्मदे । ह्मदः । ह्मदः । ह्मदोः । ह्मदाम् । ह्मदि । ह्मदोः । ह्मत्सु । ह्मदभावपक्षे ज्ञानवत् । उदकशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह — उदानीति । शसः शिभावे उदन्नादेशेसर्वनामस्थाने चे॑ति दीर्घः । 'अल्लोपोऽन' इति तु न, शेः सर्वनामस्थानत्वात् । उद्नेति । उदक-आ इति स्थिते उदन्नादेशे अल्लोपः । उदभ्यामिति । उदन्नादेशेन लोपः प्रातिपदिकान्तस्ये॑ति नलोपः,स्वादिष्वसर्वनामस्थाने॑ इति पदत्वात् । इत्यादीति । उद्गे । उद्गः । उद्गः । उद्गोः । उदनि — उद्गि । उद्गोः । उदन्नभावपक्षे ज्ञानवत् । आस्यशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह — आसानीत्यादि । उदन्नादेशवद्रूपाणि । इत्यादीति । आस्ने । आस्नः । आस्नः । आस्नोः । आस्नि-आसनि । आस्नोः । आससु । आसन्न-भावपक्षे ज्ञानवत् । मांसशब्दोऽपि सुटि ज्ञानवत् ।मांसपृतनासानूना॑मिति शसादौ 'मांस' आदेशः । अत्र नकारस्यनश्चापदान्तस्ये॑ति कृतानुस्वारस्य निर्देशः । अत एवाह — मान्भ्यामिति । मांस्ादेशे सकारस्य संयोगान्तलोपे सति निमित्ताऽपायादनुस्वारनिवृत्तौ रूपम् । संयोगान्तलोपस्याऽसिद्धत्वान्न लोपो न । अथ सुठपि ह्मदाद्यादेशं साधयितुमाह — वस्तुतस्त्विति । इत्युक्तमिति । 'ककुद्दोषणी' इति भाष्यप्रयोगात्प्रभृतिग्रहणस्य प्रकारार्थत्वमजन्तपुंलिङ्गाधिकारे स्वयमुक्तमित्यर्थः । ननु प्रभृतिग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षायां प्रथमैकवचने ह्मदिति प्रयोगोऽनुपपन्नः, सोर्लुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात्, तदनित्यत्वाश्रयणे च मानाऽभावादित्यत आह-एत एवेति । मांस्पचन्या इति । पच्यते अस्यामुखायामिति पचनी । अधिकरणे ल्युट्, अनादेशः । टित्त्वात् ङीप् । मांसस्य पचनीति षष्ठीसमासः । अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावे प्रत्ययपरत्वाऽभावात् मांसादेशो न स्यात् । अतो ह्मदाद्यादेशविधौन लुमते॑ति निषेधस्याऽनित्यत्वमाश्रीयत इत्यर्थः । ननु 'मांस्पचन्या' इत्यत्र अन्तर्वर्तिनं ङसं लुप्तमाश्रित्य मांसित्यस्यास्ति पदत्वम्,सुप्तिङ्न्त॑मिति पदसंज्ञायाः प्रकृतिप्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाऽभावेनाऽत्रन लुमते॑ति निषेधस्याऽप्रवृत्तेः । अन्यथा 'राजपुरुष' इत्यत्र कथं नलोपः । ततश्चात्र संयोगान्तलोपो दुर्वार इत्यत्र आह — भत्वात्संयोगान्तलोपो नेति । ननु यजादिस्वादिप्रत्यये परे विधीयमानाया भसंज्ञायाः केवलाङ्गधर्मत्वात्तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात्कथमिह भसंज्ञेत्यत आह — अयस्मयादित्वेनेति । मांसादेशस्याऽयस्मयादिगणपठितत्वात्अयस्मयादीनि छन्दसी॑नि भत्वमित्यर्थः । ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेपः । परिहरति — तथापीति । 'पद्दन्नो' इति सूत्रे छन्दोग्रहणानुवृत्तावपि लोकेऽपि क्वचिदित्यन्वयः । कुतो लोकेऽपि प्रयोग इत्यत आह — अपो भीत्यादीति ।अपो भी॑ति सूत्रम् । अपस्तकारः स्याद्भादौ प्रत्ययपरे इत्यर्थः । तत्रास्ति वार्तिकं — ॒मासश्छन्दसी॑ति । मासित्यस्य तकारः स्याद्भादिप्रत्यये परे छन्दसीति तदर्थः । ऋग्वेदे 'माद्भिः शरद्भिः' इत्यादिमन्त्रमुदाहरणम् । यदिपद्दन्नि॑ति छन्दोमात्रविषयं स्यात्तदा मासित्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वान्मासश्छन्दसीति सस्य तकारविधौ छन्दौग्रहणं व्यर्थं स्यात् । अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्यापद्दन्नि॑त्यस्य लोकेऽपि प्रवृत्तिमनुमत्य पदाद्यादेशाः प्रयोक्तुं योग्या इत्यर्थः । इत्यदन्ताः । Tattvabodhini ------------- **सान्तमहतः संयोगस्य** - सान्त महतः । अत्रनोपाधायाः॒॑सर्वनामस्थाने चासंबुद्धा॑वित्यनुवर्तते ।सान्ते॑ति लुप्तषष्ठी कंसंयोगान्तस्ये॑त्यनेन समानाधिकरणमिति व्याचष्टे — — सान्तसंयोगस्येत्यादि । तस्योपधाया इति । तत्पूर्वस्येत्यर्थः । अमि लुकोऽपवादमित्यादि । एतेनस्वमोरमादेशे एव कृते वा जर॑सिति प्राचो ग्रन्थः प्रत्युक्तः । मांस्पचन्या इत । पच्यतेऽस्यामिति पचनी ।करणाधिकरणयोश्चे॑ति ल्युट् । टित्त्वान्ङीप्ष मांसस्य पचनी मांस्पचनी । अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणं नेति प्रभृतिग्रहणस्य प्रकारार्थत्वं विना मांसशब्दस्यमा॑सित्यादेशो न सिध्येदिति भावः । ननु पृषोदरादिसूत्रेमांसस्य पचि युङ्घञो॑रिति वक्ष्यमाणत्वादन्तलोपेनाप्येतद्रूपं सिद्धमिति चेत्, अत्राहुः — ॒पृष्टोदरादीनि यथोपदिष्ट॑मित्यस्योत्तरपदाधिकारस्थत्वाल्ल्युडन्तं यदुत्तरपदंमांस्पचन॑मित्यादि तत्रैबान्तलोपः स्यात् । अत्र हि ङूबन्तमुत्तरपदं न तु ल्युडन्तमिति नास्त्येबान्तलोप इति । मासश्छन्दसीति ।मास्शब्दस्य तकारः स्याद्भादौ प्रत्यये छन्दसी॑ति वार्तिकार्थः ।माद्भिः शरद्भिः दुरोदरं तवे॑त्युदाहरणम् । Padamanjari ----------- सकारेऽकार उच्चारणार्थः, सोऽन्तो यस्य स सान्तः । सान्तेति पृथक्पदं लुप्तषष्ठीकं संयोगस्य विशेषणम्, तद्विशिष्टसंयोगो नकारस्य विशेषणम्, महच्छब्दोऽपि तस्यैव विषेषण्, सर्वनामस्थाने इत्यनेनानुवृतेन सान्तः संयोगो महच्छब्दश्च विशेष्यते, तेन हंसः, हंसावित्यत्र दीर्घाभावः । महतश्चेति । यो नकार इत्यपेक्ष्यते । तस्येति नकारस्य, कः पुनर्नकारस्योपधायाश्च सम्बन्धः, यावता यस्मिन्समुदाये योऽन्त्यादलः पूर्वः स तं प्रत्युपधा सत्यम् इह तु गत्यभावात् सामीप्यलक्षणः सम्बन्धः, एनकारसमीपवर्तिन्यास्तमेव नकारान्तं समुदायं प्रत्युपधाया इत्यर्थः । कल्पसूत्रेषु च प्रौढोऽयं व्यवहारः तद्यथा - विसर्जनीयोऽनत्यक्षरोपधो रिषित इति । श्रेयानिति । प्रशस्यस्य श्रः , उगिदचाम् इति नुम् । श्रेयांसीति । जश्शसोः शिः, नपुंकस्य झलचः इति नुम् । महानिति । बृहन्महच्छतृवच्चेति वचनाद् उगिदचाम् इति नुम् ॥ Nyaas ----- सकारेऽकार उच्चारणार्थः। सोन्तोऽस्य स तथोक्तः। `सान्त` इत्यविभक्तिकोऽयं निर्देशः, तत्रोत्पन्नायाः षष्ठआ लुप्तत्वात्। `सकारान्तस्य संयोगो नकारो महतश्च` इति। तत्रापि नकार इत्यपेक्षते। सकारान्तस्य महतश्चेति द्वे अप्यवयवषष्ठ्यौ, सान्तसंयोगो यो नकारोऽवयवो महच्छब्दस्य च योऽवयव इत्यर्थः। एतेन सान्तसंयोगो महच्छब्दश्चोभयमप्येतन्नकारस्य विशेषणमिति दर्शयति। `तस्योपधायाः` इति। तस्येत्यनेन नकारः प्रत्यवमृश्यते। तस्य नकारस्य सम्बन्धिन्या उपधाया इत्यर्थः। एतैनापि नकार उपधाया विशेषणमित्याचष्टे। कः पुनर्नकारस्योपधायाश्च सम्बन्धः येनासौ तस्येति व्यपदिश्यते? निमित्तनिमित्तिभावः। अन्तयनकारापेक्षया हि पर्वत्वे सत्यन्तनकारात्? पूर्वो वर्ण उपधा भवति। तस्मान्नकारो निमित्तम्, उपरधा निमित्तनौ। अथ वा -समीपसमीपिलक्षणः सम्बन्धः, एतेन नकारसमीपवर्त्तिन्या उपधाया इत्यर्थः। `श्रेयान्` इति। प्रशस्योऽयम्, प्रशस्योऽयम्, अनयोरयम्प्रकर्षेण प्रशस्य इति **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इतीयसुन्, **प्रशस्यस्य श्रः** (5.3.60) इति श्रादेशः, **प्रकृत्यैकाच्** (6.4.163) इति प्रकृतिवद्भावाट्टिलोपः, **यस्येति च** (6.4.148) इति लोपश्च न भवति। `उगिदचाम्` (7.1.70) इत्यादिना नुम्, हल्ङ्यादि (6.1.66) संयोगान्त (8.2.23) लोपौ। `श्रेयांसि, पयांसि` इति। पूर्ववज्जसः शिभावः **नपुंसकस्य झलचः** (7.1.72) इति नुम्। कथं पुनरत्र नकारात्? पूर्वस्योपधात्वम्, यावता `अलोन्त्यात्पूर्व उपधा` (1.1.65) इत्यलां सन्निविष्टानां योऽन्त्योऽल्? ततः पूर्वस्योपधासंज्ञा विहिता। न चात्र नकारोऽन्त्यः, किं तर्हि? सकारः? नैष दीषः; अपेक्षितं ह्रन्त्यत्वम्। तत्? सकारात्? पूर्वे ये वर्णास्तेषां नकारोऽन्त्य इति। ततः पूर्वो वर्ण उपधा भवति। यद्येवम्, तक्षको रक्षक इत्यत्रापि सकारात्? पूर्वे ये वर्णास्तेषां ककारोऽन्त्य इति, ततः पूर्वोऽवर्ण उपधा स्यात्, ततश्च `अत उपधायाः, (7.2.116) इति वृद्धिः स्यात्? नैतदस्ति; अङ्गस्य योऽकार उपधा तस्या वृद्धिर्विधीयते। न चात्राकारोऽङ्गस्यीपधा, अतो न भविष्यतीति -एतचचाशक्यं वक्तुम्, अकारस्याङ्गावयवत्वात्। पाचक इत्यादावप्यङ्गावयवत्वादकारोऽङ्गस्योपधेत्युच्यते, तस्मात्? प्राप्नोत्येव वृद्धिः? नैष दोषः, **अत उपधायाः** (7.2.116) इत्यत्र हि `ञ्णिति` (7.2.115) इत्यनुवर्तते, तेनोपधा विशिष्यते -ञिति प्रत्यये परतो योपधेति, तत्र `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।49) इत्येकेन वर्णेन व्यवधानमाश्रोयते, न पुनरनेकेन। तक्षकः, रक्षक इत्यत्रानेकेन वर्णेन व्यवधानम्? अतो न भवति वृद्धिप्रसङ्गः। इह तु सूत्रेन सर्वनामस्थानेनोपधा विशिष्यते, किं तर्हि? संयोगः -तेन सर्वनामस्थाने परतो यः संयोग इति। तेन यत्र संयोगादनन्तरं सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्, तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्, तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानेन संयोगसय विशेषणात्? हंसौ, हंसा इत्यत्र दीर्घत्वं न भवति। न ह्यत्र संयोगादनन्तरं सर्वनामस्थानमस्ति, अकारेण व्यवधानात्। अथेह कस्मान्न भवति -हंसमाचष्ट इति, `तदाचष्टे` (वा।201) इति णिच्? णाविष्ठवत्? कार्यं प्रातिपदिकस्य (वा।813) इति टिलोपः, हंसयतेः क्विप् -हन्, हंसौ हंस इति? **वा षपूर्वस्य निगमे** (6.4.9) इत्यतो वाग्रहणानुवृत्तेः। न चैवं सति सर्वत्र विकल्पप्रसङ्गः; व्यवस्थितविभाषात्वात्। एतेन `हिसि हिंसायाम्` (धातुपाठः-1829) इत्यस्य क्विबन्तस्य सुहिन्? सुहिंसौ सुहिंस इत्यत्र दीर्घत्वाभावो वेदितव्यः। यस्त्वाह -`इदितो नुम्? धातोः` (7.1.58) इत्यनेन नित्यो नुम्; नुम्विधावुपदेशिवद्वचनात्, ततो नुमः पृथक्सिद्धत्वं नास्ति, अत्र तु सिद्धानां सम्बन्धः समवायो भवति, न तु संयोगः। तेन संयोगाभावादिह दीर्घत्वं न भवति तन्मतेन संयोगान्तलोपोऽपि सुहन्नित्यत्र न स्यात्। नेह वैशेषिकशास्त्रप्रसिद्धोऽयं संयोगो गृह्रते अपि तु `हलोऽन्तराः संयोगः` (1.1.7) इति हलान्नैरन्तर्यलक्षण इह शास्त्रे प्रसिद्धः संयोग एव। स चेहास्त्येवेत्यसारः परिहारः। `महान्` इति। `वर्तमाने पृषद्वृहन्महज्जगच्छतृवच्च` (द।उ।6।5) इति निपातनसूत्रेण शतृवदित्यतिदेशादुगित्कार्यं नुम्। सान्तमहत इति किम्? बृहन्ति॥ Praudhamanorama --------------- सान्तेति पृथक्पदं लुप्तषष्ठीकं संयोगस्येत्यनेन समानाधिकरणमिति व्याचष्टे— **उपधाया इति।** उपधाग्रहणं पूर्वमात्रोपलक्षणं पारिभाषिकार्थस्येहासम्भवात्। **मासश्छन्दसीति।** मासित्यस्य तकारः स्यात् भादौ प्रत्यये छन्दसीति वाक्यार्थः। 'माद्भिः शरद्भिर्दुरोदरं तव' इत्युदाहरणम्। Prakriyasarvasvam ----------------- सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसम्बुद्धौ सर्वनाम- स्थाने परे । नस्यानुस्वारः । अजरांसि, अजराणि । द्वितीया तद्वत् । शेषं निर्जरवत् । ‘पद्दन्—’ (६-१-६३) इति हृदयोदकास्यानां शसादौ हृदुदन्नासन्नादेशाः । शसः । शिभावे नुम् । हृन्दि । हृदाहृद्भ्यामित्यादि । उदन् इ । ‘सर्वनामस्थाने च—’ (६-४-८) इति दीर्घः । उदानि । अल्लोपे उना, उदभ्यामित्यादि । एवम् आसानि आस्ना आसभ्यामित्यादि । शीर्षस्य शसादौ शीर्षन् वेति शीर्षाणि । शीर्ष्णा । शीर्षभ्यामित्यादि । ‘मांसपृतना—’ इति मांस्भावे मांसि । मांसा । मांभ्यामित्यादि । विकल्पे ज्ञानवदूह्यम् ॥ ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ (१-२-४७) इति ह्रस्वः । सोमपं ज्ञानवत् । ‘चतुर्थ्येकवचने डेय—’ (७-१-१३) इति यकारे ‘सुपि च’ (७-३-१०२) इति दीर्घे तस्य च धात्वाकारत्वाद् ‘आतो धातोः’ (६-४-१४०) इति लोपे सोमप्य इति माधवः । सोमपायेत्येवान्ये ॥ वारि स् । ‘स्वमोर्नपुंसकात्’ (७-१-२३) इति लुक् । वारि ॥ Sudha ----- संयोगान्तस्येत्यनेन समानाधिकरणमिति व्याचष्टे – सान्तसंयोगस्येत्यादिना । महान् । 'महत् सु' इत्यत्र सकारोत्तरवर्त्युकारस्येत्सञ्ज्ञायां लोपे च **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सस्य लोपे **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि उमो लोपे मित्वात् **मिदचोऽन्त्यात्परः**(1.1.47) इत्यन्त्यादचः परे जाते 'महन् त्' इति स्थिते **सान्तमहतः संयोगस्य**(6.4.10) इत्युपधाया दीर्घत्वे **संयोगान्तस्य लोपः**(8.2.23) इति तलोपे 'महान्' इति । महान्तौ । 'महत् औ' इत्यत्र नुमि, दीर्घे, अनुस्वारे, परसवर्णे च रूपम् । एवं 'महान्तः' इति । हे महन् । महत् + सु इत्यत्र **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि, सोर्लोपे **सान्तमहतः संयोगस्य**(6.4.10) इत्यत्र 'असम्बुद्धौ' इत्यनुवृत्तेर्न दीर्घे संयोगान्तलोपे च कृते रूपम् । महद्भ्याम् । महत्+भ्याम् इत्यत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसञ्ज्ञायां **झलां जशोऽन्ते**(8.2.39) इति तस्य दत्वे च 'महद्भ्याम्' इति । Sutra Prayogas -------------- * **वपूंषि** (शिशुपालवधम्): `सान्तमहतः संयोगस्य` इति दीर्घः। * **दुषण** (भट्टिकाव्यम्): `दोषो णौ` इत्युपधाया ऊत्वम्।