64007: नोपधायाः =============== **Padacheda:** न | S | | | 6 उपधायाः | S | 6 | 1 | Sutrartha --------- **षष्ठीबहुवचनस्य नाम्-प्रत्यये परे नकारान्तशब्दस्य उपधायाः दीर्घः भवति ।** नकारान्तशब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य सामान्यरूपेण नुडागमः न भवति । परन्तु ये नकारान्तशब्दाः 'षट्-संज्ञकाः' सन्ति, तेषां विषये **षट्चतुर्भ्यश्च** (7.1.55) इत्यनेन आम्-प्रत्ययस्य नुडागमः विधीयते । अस्यामवस्थायाम् तस्य नकारान्त-अङ्गस्य उपधावर्णस्य दीर्घादेशः भवति । यथा - पञ्चन् शब्दस्य **ष्णान्ता षट्** (1.1.24) इत्यनेन षट्-संज्ञा भवति । अतः 'पञ्चन् + आम्' इत्यत्र **षट्चतुर्भ्यश्च** (7.1.55) इत्यनेन आम्-प्रत्ययस्य नुडागमः विधीयते । ततः 'पञ्चन् + नाम्' इति स्थिते वर्तमानसूत्रेण पञ्चन्-शब्दस्य यः उपधावर्णः अकारः तस्य दीर्घादेशः भवति । अग्रे नकारस्य **नलोपः प्रातिपदिकान्तस्य** (8.4.7) इत्यनेन लोपे कृते 'पञ्चानाम्' इति रूपं सिद्ध्यति । ज्ञातव्यम् - यत्र नकारान्तशब्दस्य षट्-संज्ञा न भवति तत्र नकारान्तशब्दात् परस्य आम्-प्रत्ययस्य नुडागमः अपि न भवति, अतः तत्र अयं दीर्घादेशः अपि न दृश्यते । यथा - शशिन् + आम् → शशिनाम् । Sutrartha (English) ------------------- The उपधा of the नकारान्त words becomes दीर्घ when the नकारान्त word is followed by the नाम्-प्रत्यय. Vasu English Summary -------------------- In a अङ्ग (stem) ending in न् the preceding vowel is lengthened before the affix नाम् । Vasu English Translation ------------------------ In a अङ्ग (stem) ending in न् the preceding vowel is lengthened before the affix नाम् । Thus पञ्चन् + नाम् (7.1.55) = पञ्चान् + माम् (6.4.7) = पञ्चानाम् (8.2.7); सप्तानाम्, नवानाम्, दशानाम् ॥ Why do we say 'ending in न्'? Observe चतुर्णाम् ॥ But not in चर्म्मणाम् where the affix is not नाम् but आम् without नुट् ॥ Kashika ------- नान्तस्याङ्गस्योपधाया नामि परतो दीर्घो भवति। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। न इति किम्? चतुर्णाम्। नामीत्येव — चर्मणाम्॥ Siddhanta Kaumudi ----------------- नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुङ्नुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥ Laghu Siddhanta Kaumudi ----------------------- नान्तस्योपधाया दीर्घो नामि। पञ्चानाम्। पञ्चसु॥ Balamanorama ------------ **नोपधायाः** - पञ्चन् आम् इति स्थितेषट्चतुभ्र्यश्चे॑ति नुटि नलोपे तस्याऽसिद्धत्वात् 'नामि' इति दीर्घेऽप्राप्ते आह — नोपधायाः ।ने॑ति सुप्षष्ठीकम्, अङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते, 'नामि' इति सूत्रं च । तदाह — नान्तस्येत्यादिना । नलोप इति । नलोपस्याऽसिद्धत्वात्प्रथमं दीर्घे ततो नलोप इत्यर्थः । परमेति । परमाश्च ते पञ्च चेति विग्रहः । 'षड्भ्यो लुक्' इत्यस्यषट्चतुभ्र्यश्चे॑त्यस्य चाङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । प्रियाः पञ्च यस्येति बहुव्रीहिः । प्रियपञ्चन्शब्दो विशेष्यनिघ्नः त्रिलिङ्गः । तस्य पुंस्त्वे विशेषमाह — गौणत्वे त्विति ।षड्भ्यो लु॑गितिषट्चतुभ्र्यश्चे॑ति च बहुवचननिर्देशेन षट्चतुरर्थप्राधान्यावगमादिति भावः । प्रयिपञ्चेति । सुटि हलादौ च राजवत् । शसादावचि तु 'अल्लोपोऽनः' इत्यकारलोप नस्य श्चुत्वेन ञकारः । चकारे तु परेऽनुस्वारस्य परसवर्णे ञकारः स्थित एव । तथाच ञकारद्वयमध्ये चकारः । अष्टन्शब्दो नित्यं बहुवचनान्तः । Tattvabodhini ------------- **नोपधायाः** - नोपधायाः ।ने॑ति लुप्तषष्ठीकं पदमङ्गस्य विशेषेणम् । नलोपस्यऽसिद्धत्वात्नामी॑पि दीर्घो न प्रवर्तत इत्ययमारम्भः । गौणत्वे त्विति । बहुवचमनिर्देशस्यार्थप्राधान्यार्थत्वादिति भावः । प्रियपञ्च्ञामिति । ञद्वयमध्ये चकारः । Padamanjari ----------- अनजन्तार्थ आरम्भः, न इति षष्ठ।लेकवचनान्तम् । सौत्रत्वान्निर्द्देशः, अकारश्चोच्चारणार्थ इति । पञ्चानामित्यादौ सुब्विधौ नलोपस्यासिद्धत्वान्नान्तत्वम् । उपधाग्रहणमाद्यचो मा भूत् । नैतदस्ति प्रयोजनम् - दीर्घश्रुत्योपस्थापितमचं नाम्परतया विशेषयिष्यामः , उतरत्र च सर्वनामस्थानपरतया, तत्र येन नाव्यवधानमित्येकेन वर्णेन व्यवधाने भविष्यति उतरार्थ तु इन्हन्पूर्षार्यम्णां शौ इत्यत्र दीर्घविधेरुपधानियमात् इति वक्ष्यति, तदार्थमुपधाग्रहणम् ॥ Nyaas ----- अनजन्तार्थ आरम्भः। न इति षष्ठएकवचनान्तम्, सौत्रत्वन्निर्देशस्य यकारलोपस्यासिद्धत्वमनाश्रित्य **आद्गुणः** (6.1.87) कृतः। न इति वर्णग्रहणम्, तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयन्तीति नकारान्तस्याङ्गस्योपधायाः तस्या दीर्घत्वं विज्ञायत इत्याह -`नकारान्तस्याङ्गस्य` इति। `पञ्चानाम्` इति। **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः॥ Praudhamanorama --------------- नेति लुप्तषष्ठीकमङ्गस्य विशेषणम्। **गौणत्वे त्विति।** बहुवचननिर्देशस्यार्थप्राधान्यार्थत्वादिति भावः। **प्रियपञ्चामिति।** ञकारद्वयमध्ये चकारः। Prakriyasarvasvam ----------------- नामि नान्तस्योपधाया दीर्घः स्यात् । पदत्वान्नलोपः । पञ्चानाम् । पञ्चसु । उपसर्जनत्वे तु लुङ्नुटौ न । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । भत्वे प्रियपञ्च्ञः । प्रियपञ्च्ञा । सर्वं राजवत् । प्राधान्ये लुङ्नुटौ स्तः । परमपञ्च । परमपञ्चानाम् । 'अष्टन आ विभक्तौ' (७-२-८४) इति नस्यात्वम् । अष्टा जस् । Sudha ----- नोपधाया इति । अत्र **ढ्रलोपे पूर्वस्य दीर्घोऽणः**(6.3.111) इत्यतो दीर्घ इत्यनुवर्तते । **नामि**(6.4.3) इति सूत्रञ्च । पञ्ञानाम् । पञ्चन् + आम् इत्यत्र **षट्चतुर्भ्यश्च**(7.1.55) इति आमो नुटि टित्वादाद्यावयवे जाते उटि गते 'पञ्चन् न् आम्' इति जाते नस्याकारेण सह संयोगे **नोपधायाः**(6.4.7) इति नान्तोपधाया दीर्घत्वे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नस्य लोपे च 'पञ्चानाम्' इति रूपम् ।