64005: छन्दस्युभयथा =================== **Padacheda:** छन्दसि | S | 7 | 1 | उभयथा | S | 0 | 0 | Sutrartha --------- **वेदेषु - षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य दीर्घः कृतः अपि दृश्यते, न कृतः अपि दृश्यते ।** षष्ठीबहुवचनस्य आम्-प्रत्ययस्य यत्र नुडागमः भवति, तत्र तस्य 'नाम्' इति परिवर्तनं भवति । अस्य 'नाम्' प्रत्ययस्य उपस्थितौ **नामि** (6.4.3) इत्यनेन सामान्यरूपेण अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । परन्तु वेदेषु इमम् दीर्घादेशं विना अपि रूपाणि दृश्यन्ते । यथा - 'धातॄणाम्' इत्यस्य स्थाने तैत्तिरीय-उपनिषदे 'धातृणाम्' इति ह्रस्वप्रयोगः क्रियते । ज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे 'तिसृचतसृ' इत्यस्य अनुवृत्तिः नास्ति । परन्तु काशिकाकारेण इमामनुवृत्तिम् स्वीकृत्य अस्य सूत्रस्य अर्थः - 'छन्दसि विषये तिसृ-चतस्रोः नामि परतः उभयथा दृश्यते, दीर्घः च, अदीर्घः च' इति दत्तः अस्ति । अतः काशिकाकारस्य मतेन 'उभयथा' रूपाणि केवलं तिसृ-चतसृ-शब्दयोः एव भवन्ति, अन्येषां शब्दानां विषये तु वेदेषु अपि दीर्घादेशः एव दृश्यते । Sutrartha (English) ------------------- In presence of the नाम् प्रत्यय, the last letter of the अङ्ग might or might not be made दीर्घ in वेदाः. Vasu English Summary -------------------- In the छन्दस् (Vedas) the finals of तिसृ and चतसृ are found in both ways, before the Genitive 6th-Case plural नाम्। Vasu English Translation ------------------------ In the छन्दस् (Vedas) the finals of तिसृ and चतसृ are found in both ways, before the Genitive 6th-Case plural नाम्। In some places they are seen as lengthened, in others not. As तिसृण मध्यंदिने or तिसॄणाम मध्यंदिने ॥ So also चतसृणाम् and चतसॄणाम् ॥ Kashika ------- छन्दसि विषये तिसृचतस्रोर्नामि परत उभयथा दृश्यते, दीर्घश्चादीर्घश्च। तिसृणां मध्यन्दिने (काठ० सं० २७.९), तिसृ॒णां (ऋ० ५.६९.२) मध्यदिने। चतसृणां (काठ० सं० २७.९) मध्यदिने, चतसृणां मध्यदिने॥ Siddhanta Kaumudi ----------------- नामि दीर्घो वा । धाता धातॄणाम् (धा॒ता धा॑तॄ॒णाम्) इति बह्वृचाः । तैत्तिरीयास्तु ह्रस्वमेव पठन्ति ॥ Padamanjari ----------- तिसृ चतसृ इत्येतयोरिति । अविशेषेण तु विकल्पो दृश्यते अयं पितृणामग्निः, धाता धातृणामिति तैतिरीके ह्रस्वः, वह्वृचे दीर्घः ॥ Nyaas ----- वेति वक्तव्ये `उभयथा` इति वचनं वैचित्र्यार्थम्॥ Prakriyasarvasvam ----------------- तिसृचतस्रोः नामि दीर्घोऽदीर्घः स्यात् । तिसृणां सप्ततीनामित्यादि मृग्यम् ।