63113: साढ्यै साढ्वा साढेति निगमे ================================= **Padacheda:** साढ्यै | S | 0 | 0 | साढ्वा | S | 0 | 0 | साढा | S | 1 | 1 | इति | S | 0 | 0 | निगमे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- 1. साढ्यै 2. साढ्वा and 3. साढा are irregularly formed in the छन्दस् (Vedas). Vasu English Translation ------------------------ 1. साढ्यै 2. साढ्वा and 3. साढा are irregularly formed in the छन्दस् (Vedas). Thus साढ्यै समन्तात्, साढ्वा शत्रून् ॥ The latter is formed by क्त्वा affix, the ओ substitution not taking place. In the other alternative क्त्वा is changed to धौ ॥ साढा is formed by तृच् affix. In the secular literature सोढा and सोढ्वा the proper forms. Kashika ------- साढ्यै साढ्वा साढा इति निगमे निपात्यन्ते। सा॑ढ्य॒ै (मै० सं० १.६.३) समन्तात्। सा॒ढ्वा॑ (मै०सं० ३.८.५) शत्रून्। सहेः क्त्वाप्रत्यय ओत्त्वाभावः। पक्षे क्त्वाप्रत्ययस्य ध्यैभावः। साढेति तृचि रूपमेतत्। निगम इति किम्? सोढ्वा सोढेति भाषायाम्॥ Siddhanta Kaumudi ----------------- सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुग्रः पृतनासु साह्ला (म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साह्ला॑) । अचोर्मध्यस्थस्य डस्य ळः ढस्य ह्लाश्च प्रातिशाख्ये विहितः । आहहि । द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ह्लाकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति ॥ Padamanjari ----------- साढेअति तृचि रुपमिति । अपपाठोऽयम्, आपाढोऽग्निर्बुहद्वयाः, आपाढमुग्रं सहमानम्, आषाढ्ंअ युत्सु पृतनासु, आषाढाय सहमानाय इत्यादौ निष्ठायामात्वादर्शनात् । तस्मान्नष्ठायां रुपमिति पाठः । सूत्रवृतौ च साढेअति ह्रस्वान्तं छेतव्यम् । यदि तृजन्तेऽपि क्वचिदात्वं दृश्यते, तदान्यतरत्सूत्रे इतिकरणस्य प्रकारार्थत्वात्साध्यम् ॥ Prakriyasarvasvam ----------------- सोढ् वेत्योत्वे प्राप्ते साढ्यै साढ्वा द्वयं सहेः क्त्वायाम् । साढावृचीति वृत्ति साढेति क्तान्तमाह हरदत्तः ॥ अषाळ्हमुग्रंपृतनास्वषाळ्हं युत्स्वित्यपि क्तो न तु तृच् प्रतीतम् । मरुद्भिरुग्रः पृतनासु साळ्ह- त्येतत्त्विन्नन्तं त्विति शब्दसिद्धम् ॥ ८८० ॥