63112: सहिवहोरोदवर्णस्य ======================= **Padacheda:** सहि-वहोः | S | 6 | 2 | ओत् | S | 1 | 1 | अवर्णस्य | S | 6 | 1 | Sutrartha --------- **ढकारलोपनिमित्तके ढकारे परे सह्-धातोः वह्-धातोः च अवर्णस्य ओकारादेशः भवति ।** ढकारलोपनिमित्तके ढकारे परे, रेफलोपनिमित्तके वा रेफे परे **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति सूत्रेण अकारस्य दीर्घादेशे प्राप्ते; ** "सह्" तथा "वह्" धात्वोः विषये तद्बाधित्वा** प्रकृतसूत्रेण अण्-वर्णस्य ओकारादेशः भवति । क्रमेण उदाहरणानि एतादृशानि — **1. सह्-धातोः प्रक्रियायाम् अकारस्य ओकारादेशः** — 1. सह्-धातोः तुमुन्-प्रत्यये कृते प्रकृतसूत्रेण ओकारादेशं कृत्वा अन्तिमं रूपं सिद्ध्यति — .. code-block:: text षहँ (मर्षणे, (1.988), भ्वादिः) → सह् [**धात्वादेः षः सः** (6.1.64)] → सह् + तुम् [**तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्** (3.3.10) इति तुमुन्-प्रत्ययः] → सढ् + तुम् [**हो ढः** (8.2.31) इति हकारस्य ढत्वम्] → सढ् + धुम् [**झषस्तथोर्धोऽधः** (8.2.40) इति तकारस्य धकारः] → सढ् + ढुम् [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वे ढकारः] → स + ढुम् [**ढो ढे लोपः** (8.3.13) इति ढकारे परे ढकारलोपः] → सोढुम् [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यनेन अकारस्य दीर्घे प्राप्ते; तद्बाधित्वा **सहिवहोरोदवर्णस्य** (6.3.112) इति ओकारादेशः] 2. सह्-धातोः लुट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ओकारादेशः भवति — .. code-block:: text षहँ (मर्षणे, (1.988), भ्वादिः) → सह् [**धात्वादेः षः सः** (6.1.64)] → सह् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्-लकारः] → सह् + तास् + लुट् [**स्यतासी लृतुटोः** (3.1.33) इति विकरणप्रत्ययः] → सह् + ता + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → सह् + ता + डा [**लुटः प्रथमस्य डारौरसः** (2.4.85) इति तिप्-प्रत्ययस्य डा-आदेशः] → सह् + त् + आ [**टेः** (6.4.143) इति टिसंज्ञकस्य लोपः] → सढ् + त् + आ [**हो ढः** (8.2.31) इति अपदान्तहकारस्य झलि परे ढकारः] → सढ् + ध् + आ [**झषस्तथोर्धोऽधः** (8.2.40) इत्यनेन तकारस्य धकारः] → सढ् + ढ् + आ [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] → स + ढ् + आ [**ढो ढे लोपः** (8.3.13) इति ढकारलोपः] → सो + ढ् + आ [**ढ्रलोपे पूर्वस्य दीर्घोणः** (6.3.111) इत्यनेन अकारस्य दीर्घे प्राप्ते तस्य अपवादत्वेन **सहिवहोरोदवर्णस्य** (6.3.112) इति सह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः] → सोढा **2. वह्-धातोः प्रक्रियायाम् अकारस्य ओकारादेशः** — 1. वह्-धातोः तृच्-प्रत्ययान्तरूपस्य सिद्धौ प्रकृतसूत्रेण ओकारादेशः भवति — .. code-block:: text वहँ (प्रापणे,भ्वादिः, (1.1159)) → वह् + तृच् [**ण्वुल्तृचौ** (3.1.133) इति तृच्-प्रत्ययः] → वढ् + तृ [**हो ढः** (8.2.31) इति अपदान्तहकारस्य झलि परे ढकारः] → वढ् + धृ [**झषस्तथोर्धोऽधः** (8.2.40) इत्यनेन तकारस्य धकारः] → वढ् + ढृ [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] → व + ढृ [**ढो ढे लोपः** (8.3.13) इति ढकारलोपः] → वोढृ [**ढ्रलोपे पूर्वस्य दीर्घोणः** (6.3.111) इत्यनेन अकारस्य दीर्घे प्राप्ते तस्य अपवादत्वेन **सहिवहोरोदवर्णस्य** (6.3.112) इति वह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः] 2. वह्-धातोः आत्मनेपदस्य लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ओकारादेशे कृते अन्तिमं रूपं सिद्ध्यति — .. code-block:: text वहँ (प्रापणे,भ्वादिः, (1.1159)) → वह् + लुङ् [**लुङ्** (3.2.110) इति लुङ्-प्रत्ययः] → अट् + वह् + लुङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + वह् + च्लि + लुङ् [**च्लि लुङि** (3.1.43) इति च्लि-विकरणप्रत्ययः] → अ + वह् + सिच् + लुङ् [**च्लेः सिच्** (3.1.44) इति सिच्-आदेशः] → अ + वह् + स् + लुङ् [चकारस्य इत्संज्ञा, लोपः । सकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → अ + वह् + स् + त [**तिप्तस्झि..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → अ +वह् + त [**झलो झलि** (8.2.26) इति सकारलोपः] → अ + वढ् + त [**हो ढः** (8.2.31) इति ढत्वम्] → अ + वढ् + ध [**झषस्तथोर्धोऽधः** (8.2.40) इति धत्वम्] → अ + वढ् + ढ [**ष्टुना ष्टुः** (8.4.41) इति ढत्वम्] → अ + व + ढ [**ढो ढे लोपः**(8.3.13) इति ढकारलोपः] → अवोढ [**ढ्रलोपे पूर्वस्य दीर्घोणः** (6.3.111) इत्यनेन अकारस्य दीर्घे प्राप्ते अपवादत्वेन **सहिवहोरोदवर्णस्य** (6.3.112) इति वह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः] **दलकृत्यम्** 1. **अवर्णस्य इत्यत्र अकारग्रहणं किमर्थम् ?** — **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यनेन अण्-वर्णस्य दीर्घादेशे प्राप्ते; तद्बाधित्वा **केवलम् अवर्णस्यैव** ओकारादेशस्य विधानम् कर्तुम् अस्मिन् सूत्रे "अवर्णस्य" इत्यत्र अकारस्य ग्रहणं कृतम् अस्ति । अतः वह्-धातोः वकारस्य यत्र उकारादेशः विधीयते, तत्र प्रकृतसूत्रस्य प्राप्तिः नैव विद्यते, अत तत्र **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यनेन अवश्यं दीर्घः सम्भवति । यथा, वह्-धातोः क्त-प्रत्यये परे **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यनेन उकारस्य दीर्घे कृते अन्तिमं रूपं सिद्ध्यति — .. code-block:: text वहँ (प्रापणे,भ्वादिः, (1.1159)) → वह् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] → उह् + त [**वचिस्वपियजादीनां किति** (6.1.15) इति सम्प्रसारणम् । **सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपम् ] → उढ् + त [**हो ढः** (8.2.31) इति ढत्वम्] → उढ् + ध [**झषस्तथोर्धोऽधः** (8.2.40) इति धत्वम्] → उढ् + ढ [**ष्टुना ष्टुः** (8.4.41) इति ढत्वम्] → उ + ढ [**ढो ढे लोपः**(8.3.13) इति ढकारलोपः] → ऊढ [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति उकारस्य दीर्घः] एतत् काशिकाकारस्य मतम् अस्ति । वस्तुतस्तु भाष्यकारेण अत्र भिन्नां प्रक्रियाम् उक्त्वा एतत् अवर्णग्रहणम् सम्पूर्णरूपेण प्रत्याख्यातम् वर्तते । तत्र भाष्यकारस्य मतेन, ढत्वादीनि कार्याणि अन्तरङ्गाणि सन्ति, सम्प्रसारणं तु बहिरङ्गं वर्तते; अतः आदौ ढत्वादीनि कार्याणि कृत्वा, ततः **सहिवहोरोदवर्णस्य** (6.3.112) इत्यनेन अकारस्य ओकारादेशे कृते, ततः सम्प्रसारणम् क्रियते । इत्युक्ते, सह्-धातोः वह्-धातोः च प्रक्रियायाम् केवलम् **सहिवहोरोदवर्णस्य** (6.3.112) इत्यस्य प्रयोगसमये केवलम् अकारः / आकारः एव दृश्यते, न हि कुत्रचित् ओकारः । अतः प्रकृतसूत्रे "अवर्णस्य" इति निर्देशः अपि नैव आवश्यकः — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् पक्षे प्रकिया एतादृशी वर्तते — .. code-block:: text **भाष्यमतेन "ऊढ"-शब्दस्य प्रक्रिया** —
वहँ (प्रापणे,भ्वादिः, (1.1159)) → वह् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] → वढ् + त [**हो ढः** (8.2.31) इति ढत्वम् । अन्तरङ्गत्वात् इदम् सम्प्रसारणात् पूर्वम् भवति ।] → वढ् + ध [**झषस्तथोर्धोऽधः** (8.2.40) इति धत्वम्] → वढ् + ढ [**ष्टुना ष्टुः** (8.4.41) इति ढत्वम्] → व + ढ [**ढो ढे लोपः**(8.3.13) इति ढकारलोपः] →‌ वो + ढ [अत्र **वचिस्वपियजादीनां किति** (6.1.15) तथा च **सहिवहोरोदवर्णस्य** (6.3.112) इत्येतयोः युगपत् प्राप्तौ **विप्रतिषेधे परं कार्यम्** (1.4.2) इत्यनेन परत्वात् इ**सहिवहोरोदवर्णस्य** (6.3.112) इत्येव प्रवर्तते ।] → उ ओ ढ [ इति परिभाषया पूर्वम् प्रतिषिद्धम् सम्प्रसारणम् अस्मिन् सोपाने प्रवर्तते । अतः अत्र **वचिस्वपियजादीनां किति** (6.1.15) इत्यनेन वकारस्य सम्प्रसारणे उकारः सिद्ध्यति ] → उढ [**सम्प्रसारणाच्च** (6.1.108) इति उकार-ओकारयोः पूर्वरूपैकादेशः उकारः] → ऊढ [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति अण्-वर्णस्य दीर्घादेशः । अत्र **लक्ष्ये लक्षणं सकृदेव प्रवर्तते** इति न्यायेन पुनः **सहिवहोरोदवर्णस्य** (6.3.112) इति सूत्रम् वह्-धातोः विषये न प्रवर्तते, अतः अत्र **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यस्यैव प्रसक्तिः अस्ति ।] अनेन प्रकारेण अत्र "अवर्णस्य" किमपि प्रयोजनं न वर्तते इति उक्त्वा भाष्यकारेण प्रकृतसूत्रात् "अवर्णस्य" इत्यस्य प्रत्याख्यानं कृतम् अस्ति । अस्मिन् सन्दर्भे अधिकं पिपठिषवः प्रकृतसूत्रस्य भाष्यम्, एवमेव **यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्** (परिभाषा-47) इति परिभाषाम् अपि पश्येयुः । 2. **अवर्णस्य इत्यत्र वर्णग्रहणम् किमर्थम् ?** — "अवर्णस्य" इत्यत्र वर्णग्रहणेन अकारेण सह अत्र आकारस्य अपि ग्रहणं भवति । अतः यत्र प्रक्रियायाम् अकारस्य स्थाने वृद्धिं कृत्वा आकारः विधीयते, तत्र तस्य अपि प्रकृतसूत्रेण ओकारादेशः सम्भवति । यथा, वह्-धातोः लुङ्लकारस्य परस्मैपदस्य मध्यमपुरुषद्विवचनस्य प्रक्रियायाम् **वदव्रजहलन्तस्याचः** (7.2.3) इत्यनेन अकारस्य वृद्धौ आकारादेशे कृते, तस्य प्रकृतसूत्रेण अग्रे अवश्यम् ओकारादेशः भवति — .. code-block:: text वहँ (प्रापणे,भ्वादिः, (1.1159)) → वह् + लुङ् [**लुङ्** (3.2.110) इति लुङ्-प्रत्ययः] → अट् + वह् + लुङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + वह् + च्लि + लुङ् [**च्लि लुङि** (3.1.43) इति च्लि-विकरणप्रत्ययः] → अ + वह् + सिच् + लुङ् [**च्लेः सिच्** (3.1.44) इति सिच्-आदेशः] → अ + वह् + स् + लुङ् [चकारस्य इत्संज्ञा, लोपः । सकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → अ + वह् + स् + थ [**तिप्तस्झि..** (3.4.78) इति परस्मैपदस्य मध्यमपुरुषबहुवचनस्य त-प्रत्ययः] → अ + वह् + स् + त [**तस्थस्थमिपां तांतंतामः** (3.4.101) इति थ-प्रत्ययस्य तकारादेशः] → अ + वाह् + स् + त [**वदव्रजहलन्तस्याचः** (7.2.3) इत्यनेन अङ्गस्य अच्-वर्णस्य वृद्धिः । अकारस्य वृद्धिः आकारः] → अ +वाह् + त [**झलो झलि** (8.2.26) इति सकारलोपः] → अ + वाढ् + त [**हो ढः** (8.2.31) इति ढत्वम्] → अ + वाढ् + ध [**झषस्तथोर्धोऽधः** (8.2.40) इति धत्वम्] → अ + वाढ् + ढ [**ष्टुना ष्टुः** (8.4.41) इति ढत्वम्] → अ + वा + ढ [**ढो ढे लोपः**(8.3.13) इति ढकारलोपः] → अवोढ [**ढ्रलोपे पूर्वस्य दीर्घोणः** (6.3.111) इत्यनेन अकारस्य दीर्घे प्राप्ते अपवादत्वेन **सहिवहोरोदवर्णस्य** (6.3.112) इति वह्-धातोः सकारात् परस्य **आकारस्य** ओकारादेशः] 3. **ओत् इत्यत्र तकारग्रहणम् किमर्थम् ?** — ओत् इत्यत्र तकारग्रहणम् उच्चारणार्थम् अस्ति । सवर्णग्रहणनियमार्थम् अत्र तकारः नैव प्रयुज्यते, यतः अकारेण अवश्यम् सवर्णग्रहणम् इष्यते, ओकारश्च विधीयमानः अस्ति अतः तेन सवर्णग्रहणं नैव सम्भवति । **बाध्यबाधकभावः** "सह्" तथा "वह्" धात्वोः अकारस्य **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यनेन प्राप्तं दीर्घं बाधित्वा प्रकृतसूत्रेण ओकारादेशः भवति । अतः प्रकृतसूत्रम् **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यस्य अपवादरूपेण प्रवर्तते । ****ढो ढे लोपः** (8.3.13) इत्यस्य आश्रयात् सिद्धत्वम्** यद्यपि एतत् सूत्रम् सपादसप्ताध्याय्याम् विद्यते, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं **ढो ढे लोपः** (8.3.13) इत्यस्मात् अनन्तरम् एव विद्यते । अतः प्रकृतसूत्रस्य कृते **ढो ढे लोपः** (8.3.13) इति त्रिपादीसूत्रम् आश्रयात् सिद्धम् ज्ञेयम् । Sutrartha (English) ------------------- For the verbs सह् and वह्, when a ढकार is deleted due to a ढकार that follows it, the अकार occurring before the deleted ढकार is converted to ओ. Vasu English Summary -------------------- When ढ् or र् are elided, there is the substitution of ओ or आ of the verbs सह् and वह्। Vasu English Translation ------------------------ When ढ् or र् are elided, there is the substitution of ओ or आ of the verbs सह् and वह्। Thus सोढा, सोढुम्, सोढव्यम्, वोढा, वोढुम् and वोढव्यम् ॥ Why do we say of अ or आ? Observe ऊढः, ऊढवान् ॥ Why do we say अवर्णे which includes long आ also ? The rule will apply even when the short अ of सह and वह is changed to आ by *Vriddhi*: as उदवोढाम्, उदवोढम् ॥ Had merely अ been read into the *sutra*, instead of अवर्ण then coming after the त् of ओत्, it would have denoted only short अ (तादपि पर = तपरः (1.1.75)). Bhashya ------- सहिवहोरोदवर्णस्य (2971) (वर्णग्रहणप्रयोजनभाष्यम्) वर्णग्रहणं किमर्थम्, न सहिवहोरोदस्य इत्येवोच्येत ? वृद्धावपि कृतायामोत्त्वं यथा स्यात् । उदवोढाम्, उदवोढम्, उदवोढेति ॥ (अवर्णप्रयोजनभाष्यम्) अथावर्णग्रहणं किमर्थम् ? इह मा भूत् - ऊढः, ऊढवानिति । नैतदस्ति प्रयोजनम् । भवत्येवात्रौत्त्वम् । श्रवणं कस्मान्न भवति ? पूर्वत्वमस्य भविष्यति । इदमिह संप्रधार्यम् - ओत्त्वं क्रियतां पूर्वत्वमिति, किमत्र कर्तव्यम् ? परत्वादोत्त्वम्, अन्तरङ्गं पूर्वत्वम् ॥ एवं तर्हीदमिह संप्रधार्यम् - ओत्त्वं क्रियतां संप्रसारणमिति, किमत्र कर्तव्यम् ? परत्वादोत्त्वम् । नित्यं संप्रसारणम्, कृतेऽप्योत्त्वे प्राप्नोत्यकृतेऽपि । ओत्त्वमपि नित्यम् । कथम् ? कृतेऽपि संप्रसारणे प्राप्नोत्यकृतेऽपि । अनित्यमोत्त्वम् । न हि कृते संप्रसारणे प्राप्नोति । किं कारणम् ? अन्तरङ्गं पूर्वत्वम् । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न च संप्रसारणमेवौत्त्वस्य निमित्तं विहन्ति, अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम् । उभयोर्नित्ययोः परत्वादोत्त्वम् । ओत्त्वे कृते सम्प्रसारणे कृते संप्रसारणपरपूर्वत्वम् । तत्र कार्यकृतत्वात् पुनरोत्त्वं न भविष्यति ॥ Kashika ------- सहि वहि इत्येतयोरवर्णस्यौकार आदेशो भवति ढ्रलोपे। सोढा। सोढुम्। सोढव्यम्। वोढा। वोढुम्। वोढव्यम्। अवर्णस्येति किम्? ऊढः। ऊढवान्। वर्णग्रहणं किम्? कृतायामपि वृद्धौ यथा स्यात्। उदवोढाम्। उदवोढम्। तादपि परस्तपरः, तपरत्वादाकारस्य ग्रहणं न स्यात्॥ Siddhanta Kaumudi ----------------- अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥ Laghu Siddhanta Kaumudi ----------------------- अनयोरवर्णस्य ओत्स्याड्ढलोपे । अवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवाक्षीः । अवोढम् । अवोढ । अवाक्षम् । अवाक्ष्व । अवाक्ष्म । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवक्षाथाम् । अवोढ्वम् । अवक्षि । अवक्ष्वहि । अवक्ष्महि ॥ Balamanorama ------------ **सहिवहोरोदवर्णस्य** - सहिवहोः । ढलोपे इति । 'ढ्रलोप' इत्यतस्तदनुवृत्तेरिति भावः । 'रलोप' इति तु नानुवर्तते, असंभवात् । तथा चसकारादकारस्य ओत्वे सोढेति रूपम् ।परिसोढे॑त्यत्र 'परिनिविभ्य' इति षत्वे प्राप्ते — Tattvabodhini ------------- **सहिवहोरोदवर्णस्य** - इह रेफलोपस्याऽसंभवात्ढ्रलोपे पूर्वस्ये॑त्यतोढलोप॑ एवानुवर्तते । तदाह — ढलोप इति । ढलोपे किम् । सहते । वहते । Padamanjari ----------- ऊढ इति । अत्रासत्यावर्णग्रहणे वह् - त इति स्थिते न तावदोत्वं ढलोपनिमित्त्व्अत् । अत्र एपूर्वत्रासिद्धम् इति ढत्वादीनामसिद्धत्वात्पूर्वं यजादित्वात्सम्प्रसारणम्, तस्मिन्कृते पूर्वत्वे वोकारस्योत्वं प्राप्नोति । भाष्वे त्वावर्णग्रहणं प्रत्याख्यातम् । अन्तरङ्गणि ढत्वादीनि, वर्णाश्रयत्वात् बहिरङ्गं सम्प्रसारण्, प्रत्ययविशेषत्वातस्याप्यसिद्धत्वात् पूर्वत्रासिद्धम् इत्यस्यानुपस्थानम् । यद्वा - ढलोपस्यौत्वदीर्घविधौ निमितत्वेनाश्रयणादत्र विषये ढत्वादीनामसिद्धत्वं नास्ति, ततः प्रागेव सम्प्रसारणात्परत्वात् ढत्वादिषु कृतेषु वढ इति स्थिते सम्प्रसारणं च प्राप्नोति, ओत्वं च परत्वादोत्वम्, ततः सम्प्रसारणम् । पूर्वत्वं च न पुनरोत्वम्, तस्मन्नेव प्रयोगे कृतत्वातदभावे निमितसद्भावाद् दीर्घत्वं प्रवर्तिष्यत इति । वर्णग्रहणं किमिति । ओदस्येति वक्तव्यमिति प्रश्नः । कृतायामपीत्यादि । उत्पूर्वाद्वहेर्लुङ् तामाइदिषु सिचि वृद्धौ सलोपढत्वादीनि । तत्रेदानीमसति वर्णग्रहणे मात्रिकस्योच्यमानो दीर्घस्य न स्यात । नन्ववर्णः सवर्णान् गृह्णातीत्याकारस्यापि ग्रहणं भवति तत्राह - तादपि परस्तपर इति । इदमेव वर्णग्रहणं लिङ्गं तपरस्तत्कालस्य इत्यत्र पञ्चमीसमासोऽप्याश्रीयत इति । तेनैतन्न चोदनीयम् - सहिवहोरस्यैत् इत्येवं कस्मान्न कृतमिति ॥ Nyaas ----- अनजाद्यर्थोऽयं योगः। एवमुत्तरत्रापि॥ Sutra Prayogas -------------- * **युवामवोढं** (भट्टिकाव्यम्): `सहिवहोरोदवर्णस्य` इत्योत्वम्।