63080: द्वितीये चानुपाख्ये ========================== **Padacheda:** द्वितीये | S | 7 | 1 | च | S | 0 | 0 | अनुपाख्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- स is substituted for सह when it is in connection with a word which refers to a second object which latter however is not directly perceived. Vasu English Translation ------------------------ स is substituted for सह when it is in connection with a word which refers to a second object which latter however is not directly perceived. Of the two things which are generally found co-existing, the non-principal is called the 'second' or द्वितीया ॥ That which is perceived, observed or is known is called उपाख्य, that which is not perceived &c is अनुपाख्य, i.e. what is to be inferred. That is, when the second object is to be inferred from the presence of the first, स is added to such second word. Thus साग्निः (कपोतः) 'a pigeon which points out that conflagration has taken place some where'. सपिशाचा वात्या "a storm-wind which announces the *Pisachas*". सराक्षसीका शाला ॥ Here the fire, the *Pisacha* or the *Rakshasas* are not directly perceived, but their existence is inferred from the presence of the pigeon &c. Kashika ------- द्वयोः सहयुक्त योरप्रधानो यः, स द्वितीयः। उपाख्यायते प्रत्यक्षत उपलभ्यते यः, स उपाख्यः, उपाख्यादन्योऽनुपाख्योऽनुमेयः। तस्मिन् द्वितीयेऽनुपाख्ये सहस्य स इत्ययमादेशो भवति। साग्निः कपोतः। सपिशाचा वात्या। सराक्षसीका शाला। अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीयमाना अनुपाख्या भवन्ति॥ Siddhanta Kaumudi ----------------- अनुमेये द्वितीये सहस्य सः स्यात् । सराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥ Balamanorama ------------ **द्वितीये चानुपाख्ये** - द्वितीये चानुपाख्ये । अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यं=प्रत्यक्षम् । तदन्यदनुपाख्यम् । अनुमेयमिति यावत् । तदाह — अनुमेय इति । सहायवाचिन्युत्तरपदे परत इत्यर्थः । सराक्षसीकेति ।तेन सहे॑ति बहुव्रीहिः ।नद्यृतश्चे॑ति कप् । अनुमेयराक्षसीसहिता निशेत्यर्थः । तदाह — राक्षसी साक्षादिति । Tattvabodhini ------------- **द्वितीये चानुपाख्ये** - द्वितीये ।अप्रधानो यः स द्वितीयः॑इति लोकप्रसिद्धम् । उपाख्यं=प्रत्यक्षं, तद्भिन्नमनुमेयं । तदाह -अनुमेये इति । सराक्षसीकेति ।नद्यृतश्चे॑ति कप् । Padamanjari ----------- अप्रधानो यः सः द्वितीय इति । तत्रैव लोके द्वितीयशब्दस्य प्रयोगात्, स्वामिभृत्ययोहि स्वामिनं प्रति भृत्यो द्वितीय इत्युच्यते, न विपर्ययेण । उपाख्यायते इत्यस्य विवरणम् - प्रत्यक्षेणीपलभ्यत इति । घञर्थे एकविधानम् इति कः कर्मणि । साग्निरिति । पूर्ववद्धहुव्रीहिः, इदमपि नित्यार्थं वचनम् । अग्न्यादयः त्याइदिना अनुपाख्यत्वं दर्शयति, कपोतश्चेदगारमुपहन्याततश्च कपोतेनाग्निरनुमीयते । विद्यौद्वात्ययोश्च रक्षः पिशाचं वर्तत इति वार्ता ॥ Prakriyasarvasvam ----------------- सहितवस्तु द्वितीयम् । तस्मिन्नदृश्ये सति सहस्य सः स्यात् । सविशाचा वात्या । अत्र पिशाचस्यादृश्यत्वम् ।।