63074: तस्मान्नुडचि =================== **Padacheda:** तस्मात् | S | 5 | 1 | नुट् | S | 1 | 1 | अचि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the above न-elided of the Negative Particle नञ् (i.e. after अ) is added the augment नुट् to a word beginning with a vowel. Vasu English Translation ------------------------ After the above न-elided of the Negative Particle नञ् (i.e. after अ) is added the augment नुट् to a word beginning with a vowel. Thus अनजः, अनश्वः, अनुष्ट्रः ॥ Why do we use तस्मात् "after such a नञ्"? Otherwise नुट् would have been the augment of नञ्, and not of the subsequent word for: the *sutra* would have read thus नुडाचि ॥ Adding नुट् to नञ् or rather to अ, we have अन् (granting that नुट् is not to be added before अ but after it, against (1.1.46)). Now अन् + अजः will be अन्रजः and not अनजः for (8.3.32) will cause the doubling of the final न of अन् ॥ Hence to prevent this contingency, नुट् is ordained with regard to the second member and not with regard to अ or नञ् ॥ Bhashya ------- तस्मान्नुडचि (2933) (तस्मात्पदाक्षेपभाष्यम्) किमर्थं तस्मादित्युच्यते, न नुडचि इत्येवोच्येत ? नुडचि इतीयत्युच्यमाने नञ्ञ एव नुट् प्रसज्येत ॥ (नुटः पूर्वान्तत्वेन सामाधानभाष्यम्) एवं तर्हि पूर्वान्तः करिष्यते, तत्रायमप्यर्थः - तदोः सः सावनन्त्ययोः (7.2.106) इति तदोर्ग्रहणं न कर्तव्यं भवति । तत्र हि तवर्गानिर्देश एतत्प्रयोजनम् - इह मा भूत् - अनेषः करोति - इति । यावता पूर्वान्तोऽयम्, न दोषो भवति ॥ (सिद्धान्तभाष्यम्) नैवं शक्यम् । इह हि - अनुष्ण इति नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः प्रसज्येत । नुग्वचनान्न भविष्यति । ङमुट् तर्हि प्राप्नोति । तस्मात्परादिः कर्तव्यः । परादौ च क्रियमाणे तस्मात् इति च वक्तव्यम् ॥ Kashika ------- तस्माद् लुप्तनकाराद् नञो नुडागमो भवत्यजादावुत्तरपदे। अनजः। अनश्वः। तस्मादिति किम्? नञ एव हि स्यात्। पूर्वान्ते हि **ङमो ह्रस्वादचि ङमुण्नित्यम्**(८.३.३२) इति प्राप्नोति॥ Siddhanta Kaumudi ----------------- लुप्तनकारन्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । अर्थाभावे अव्ययीभावेन सहायं विकल्पते । रक्षोहागमलघ्वसंदेहाः प्रयोजनम् इति, । (वार्तिकम्) ॥ तेनानुपलब्धिरविवादोऽविघ्नमित्यादि सिद्धम् । (वार्तिकम्) ॥ अपचसि त्वं जाल्म ॥ नैकधेत्यादौ तु न शब्देन सह सूपा (SK649) इति समासः ॥ Laghu Siddhanta Kaumudi ----------------------- लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्। अनश्वः। नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः॥ Balamanorama ------------ **तस्मान्नुडचि** - तस्मान्नुडचि । तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते । उत्तरपद इत्यनुवृत्तमचीत्यनेन विशेष्यते । तदादिविधिः ।उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा॑दिति परिभाषया सप्तमी षष्ठी प्रकल्पयति । तदाह — लुप्तनकारादिति । अनआ इति । समासे सति नञो नकारस्य लोपे तत्परिशिष्टाऽकारस्य नुट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयव इति भावः । नुक्तु न कृतः, ङमुट्प्रसङ्गात् । ननुउत्तरे कर्मण्यविघ्नमस्तु॑ इत्यादौ विघ्नानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लिङ्गत्वेऽविघ्न इति स्यात् । नच अर्थाभावेऽव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निरमक्षिकमित्यादौ सावकाशतया परत्वात्तत्पुरुषस्यैव प्रसङ्गादित्यत आह — अर्थाऽभावे इति । रक्षेति । पस्पशाह्निकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्चलघु च असन्देहश्चेति द्वन्द्वः ।परवल्लिङ्ग॑मिति पुंस्त्वम् । अत्र सन्देहाऽभाव इत्यर्थेऽसन्देहशब्दस्य असन्देहा इति प्रयोगात्तत्पुरुषो विज्ञायते । अव्ययीभावेरक्षोहागमलघ्वसन्देह॑मिति स्यात् । अद्रुतायामसंहितमिति ।परः सन्निकर्षः संहिते॑सूत्रे पठितमिदं वार्तिकम् । अद्रुतायां वृत्तौ स#ंहिताऽभाव इत्यर्थः । अत्र अव्ययीभावे सति असंहितमिति प्रयोगादव्ययीभावेऽपि अर्थाऽभावो नञा गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात् । ततश्च नञा गम्येऽभावे तत्पुरुषाऽव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति । अनुपलब्धिरित्यत्र,अविवाद इत्यत्र च तत्पुरुषः, अविघ्नमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः । शब्देन्दुशेखरे त्वन्यथा प्रपञ्चितम् । नञो नलोपस्तिङि क्षेपे इति । 'न लोपो नञः' इति सूत्रस्थवार्तिकमिदम् । नञो नकारस्य लोपः स्यात्तिङि परे निन्दायामिति वक्तव्यमित्यर्थः । अपचसि त्वं जाल्मेति । कुत्सितं पचसीत्यर्थः । अत्र अ इति भिन्नं पदं तिङन्तेन समासाऽभावात् । वार्तिकमिदं प्रसङ्गादुपन्यस्तम् । नञ्समानार्थकेन 'अ' इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव । केचित्तु अस्मादेव वार्तिकादव्ययेषु 'अ' इत्यस्य पाठोऽप्रामाणिक इत्याहुः । ननु नैकधेत्यत्रापि नञ्समासे 'न लोपो नञः' इति नकारस्य लोपेतस्मान्नुडची॑ति नुटि अनेकधेत्येव स्यादित्यत आह — नैकधेत्यादौ त्विति । एतदर्थमेवन॑ञिति सूत्रे, 'न लोपो नञः' इति सूत्रे च ञकारानुबन्दग्रहणमिति भावः । Tattvabodhini ------------- **तस्मान्नुडचि** - तस्मान्निडाच ।डः सि धुडि॑त्यत्रेवाऽचीति सप्तम्याः षष्ठी प्रकल्प्यत इत्याह — अजादेरिति । अचा उत्तरपदविशेषणात्यस्मिन्विधि॑रिति तदादिविधिर्लभ्यत इति भावः । अनआ इति । नुटः परादित्वेनाऽपदान्तत्वान्ङमो ह्रस्वादिति ङमुण्न भवति । ननु विन्घानामबावोऽविघ्नामित्यत्रापि परत्वात्तत्पुरुषः स्यात्, अव्ययीभावस्य निर्मक्षिकादौ सावकाशत्वात् । अन्यथाअनुपलब्धिः॑अविवाद॑ इति न सिद्धयेदित्याशङ्क्याह -अर्थाभावेऽव्ययीभावेन सहेत्यादि । अविघ्नमिति । यद्यप्यविद्यमाना विग्नायस्मिन्निति बहुव्रीहिणाअविघ्नं कर्मे॑त्यादिप्रयोगः सिद्द्यति, तथापिउत्तरे कर्मण्यविघ्नमस्तु॑इत्यादिप्रयोगा अव्ययी भावं विना स्वरसतो न सिद्द्यन्तीति भावः ।नञो नलोपस्तिङि क्षेपे । नञो नलोप इति । तिङन्तेन समासाऽभावादप्राप्ते वचनम् । अपचसीति । कुत्सितं पचसीत्यर्थः । नशब्देनेति । नञा समासे त्वनेकधेत्येव स्यादिति भावः । Padamanjari ----------- नञ तएव हि स्यादिति । तस्मिन्नति निर्द्दिष्टे पूर्वस्य इति वचनात् । नञश्च नुटि सत्यनिष्ट्ंअ रुपं स्यात्, नलोपविधानमनजाद्यर्थं स्यात् तस्माद्ग्रहणे तु सति पञ्चमीनिर्देशस्य बलीयस्त्वादुतरस्यैव भवति । ननु यदि तत्रैव स्यान्नाचीति नलोपमेव प्रतिषेधेत् । तद्वचनं तूत्रपदस्यैव भविष्यति । तस्मादेवं कक्तव्यम् - नाप्राप्ते नलोपे आरभ्यमाणो नुट् तस्य बाधकः स्यात्, तस्माद्ग्रहणे तु सति निमितमेव नुटो नलोपो भवति । अय नुगिति पूर्वान्त एवायं कस्मान्न कृतः, एवं हि नञ एव स्यादित्यवमपि दोषो न भविष्यति, तत्रायमप्यर्थः - तदोः सः सौ इत्यत्र तदोः इत्यपनीय तोः इति वर्गग्रहणमेव कर्तव्यम् परादौ ह्यनेष करोतीत्यत्र नुटो नकारस्यापि प्रसङ्गादशक्यं वर्गग्रहणम् तत्राह - पूर्वान्ते हीति । ङ्मुट् प्राप्नोतीति । नलोपः प्रतिपदिकान्तस्य इति नलोपो विधानसामर्थ्यान्न भवतीति भावः । अत्रापि पक्षे इदं कर्तव्यम् - नाप्राप्ते नलोपे आरभ्यमाणो नुक् तस्य बाधकः स्यादिति ॥ Nyaas ----- `नञ एव हि स्यात्` इति। अचीति सप्तमीनिर्देशात्, **तस्मिन्निति निर्दिष्टे पूर्वस्य** (1.1.66) इति दतनात्। नञो नुडागमे सत्यनिष्टं रपं स्यात्। तस्माद्ग्रहणे तु सति `उभयनिर्देशे पञ्चमीनिर्देशी बलीयान्` (शाक।प।97) इत्युत्तरपदस्यैव भवति, अतो न भवत्यनिष्टप्रसङ्गः। ननु च यदि नञो नुट्? स्यात्, नलोपवचनमनर्थकं स्यात्? नानर्थकम्; अब्राआहृणः, अवृषल इत्यनजादौ नकारश्रवणं माभूदित्येवमर्थत्वात्। यदि नञो मा भूदित्येवमर्थं `तस्मात्` इत्युच्यते, तर्हि न वाच्यम्, पूर्वान्तो ह्रयं नुक्? करिष्यते? इत्याह - `पूर्वान्ते हि` इति। पूर्वान्ते नुटि क्रियमाणे ङमन्तस्य पदस्य विधीयमानः `ङमो ह्रस्वादचि ङमुण्? नित्यम्` (8.3.32) इति नुट्? प्राप्नोति, ततश्च स एवानिष्टप्रसङ्गः। तस्मान्नुडेव कर्तव्यः। अस्मिस्तु क्रियमाणे नञ एव मा भूदित्येवमर्थ तस्माद्ग्रहणम्॥ Prakriyasarvasvam ----------------- लुप्तनकारान्नञः परस्याजादेर्नुडागमः स्यात् । अनश्वः । ‘नञो नलोपः क्षेपे क्षेपे तिङि वाच्यः’ (वा० ६-३-७३) । अ पचसि त्वं जाल्म । कुत्सितं पचसीत्यर्थः । सुपेत्युक्तेरिह नञोऽसमास एव । नैकधेत्यादौ नञर्थस्य नशब्दस्य समासान्नलोपाभावः ॥