63072: रात्रेः कृति विभाषा ========================== **Padacheda:** रात्रेः | S | 6 | 1 | कृति | S | 7 | 1 | विभाषा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word रात्रि optionally takes मुम् augment before a word formed by कृत् affix. Vasu English Translation ------------------------ The word रात्रि optionally takes मुम् augment before a word formed by कृत् affix. As रात्रिचरः or रात्रिंचरः, रात्रिमटः or रात्र्यटः ॥ This is an *aprapta*-*vibhasha*. The augment is compulsory before a *krit*-affix having an indicatory ख, As, रात्रिंमन्यः ॥ Bhashya ------- रात्रेः कृति विभाषा (2931) (विभाषास्वरूपजिज्ञासाभाष्यम्) किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते ? कथं च प्राप्ते कथं वाऽप्राप्ते ? यदि खितीत्यनुवर्तते, ततो नित्यं प्राप्ते । अथ नानुवर्तते, तदाऽप्राप्ते ॥ (विभाषानिर्णयभाष्यम्) रात्रेरप्राप्ते विभाषा । प्राप्ते नित्यो विधिः - रात्रिम्मन्यः । अप्राप्ते विभाषा - रात्र्यटः, रात्रिमटः ॥ Kashika ------- रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति। रात्रिंचरः, रात्रिचरः। रात्रिमटः, रात्र्यटः। अप्राप्तविभाषेयम्। खिति हि नित्यं मुम् भवति। रात्रिंमन्यः॥ Siddhanta Kaumudi ----------------- रात्रिञ्चरः । रात्रिचरः । रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु अरुर्द्विषत्- (SK2942) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ॥ Balamanorama ------------ **रात्रेः कृति विभाषा** - रात्रेः कृति । अस्य उत्तरपदाधिकारस्थत्वेनप्रत्ययग्रहणे तदन्तग्रहण॑मिति तु इह न भवति । कृतः धातुप्रकृतिकत्वेन रात्रेः कृतोऽसंभवात्तदन्तविधिरित्यभिप्रेत्य आह — कृदन्ते परे इति । रात्रेर्मुम्वा स्यादित्यर्थः । रात्रिञ्चरः, रात्रिचर इति । सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमटः रात्र्यट इति । सुप्युपपदे मूलविभुजादित्वात्कः । उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमटः रात्र्यट इति । सुप्युपपदे मूलविभुजादित्वात्कः । उपपदसमासः । सुब्लुक् पक्षे मुम् । ननु ननु 'रात्रिम्मन्यः' इत्यत्रापि मुम्विकल्पः स्यादित्यत आह — अखिदर्थमिति । खिति त्विति । खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेनअरुर्द्विषदजन्तस्ये॑ति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः । रातिरम्मन्य इति ।आत्ममाने खश्चे॑ति खश् । खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यआत्ममाने खश्चे॑ति खश् ।खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यं मुमिति भावः । Tattvabodhini ------------- **रात्रेः कृति विभाषा** - रात्रेः कृति । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभावेऽपि रात्रिशब्दात्परत्र कृतोऽसंभवात्कृदन्त उत्तरपदेऽयं विधिरित्याशयेनोदाहरति -रातिंरचर इथि । यद्यप्याचारक्विबन्ताण्ण्वुलादिः संभवति, तथापि विलम्बितोपस्थितिकत्वात्स न गृह्रत इति भावः । नित्यमेवेति । पूर्वविप्रतिषेधेनेति भावः । रात्रिम्मन्य इति ।आत्ममाने खश्चे॑ति खश् । खशः सार्वधातुकत्वात्तस्मिन्परे श्यन् । Padamanjari ----------- कृदन्त उतरपद इति । यद्यप्याचारक्विबन्तस्य रात्रिशब्दस्यानन्तरस्तृजादिः कृत्सम्भवति, तथापि तस्य गौणार्थत्वादग्रहणमिति सामर्थ्यादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्भवति । रात्रिष्चर इति । रात्रौ चरतीति चरेष्टः । राश्रिमट इति । अटतीत्यटः, पचाद्यच्, साधनं कृतेति समासः । अप्राप्तविमाषेयमिति । ननु चोभयत्रविभाषेयं युक्ता, रात्रिम्मन्येत्यादाê खिदन्ते प्राप्ते, अन्यत्राप्राप्ते इत्यत आह - खिति हि नित्यं मुम् भवतीति । पूर्वविप्रतिषेधेनेति भावः ॥ Nyaas ----- `कृदन्त उत्तरदे` इति। कथं पुनस्तदन्तविधिर्लभ्यते, यावता ज्ञापितमेतत् - `उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तर्विधिर्नास्ति` (पु।प।पा।26) इति। रात्रिशब्दादनन्तरस्य कृतयप्रत्ययस्यासम्भवात्? तदन्तविधिरविज्ञायत इति चेत्? अयुक्तमेतत्; सम्भवति हि रातरेरनन्तरः कृत्प्रत्ययः। रात्रिरिवाचरतीति `अचारे सर्वप्रातिपदिकेभ्यः क्विव्? वा` (वा।187) इति क्विप्, **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा, तृच्, इट्, गुणायादेशौ - रात्रयितेति। तदेवं सम्भवत्यनन्तरे कृत्प्रत्यये तत्रैव स्यात्? न तदन्ते? नैष दोषः; **अरुर्द्विषदजन्तस्य मुम्** (6.3.67) इत्यतोऽन्तग्रहणमनुवर्तते, तेन तदन्त एव कार्यं विज्ञायत इति। एवं तह्र्रचारक्विबन्तस्यापि रात्रिशब्दस्य कृदन्त उत्तरपदे स्यात्। भवतु। अथ तु नेष्यते? व्यवस्थितविभाषाऽङ्गीकर्तव्या। गौणत्वाद्वा रात्रिशब्दस्य न भविष्यति। गौणत्वं पुनः प्राथमकल्पिकादर्थदपेतत्वात्, यथा - वाहीको गौरित्यत्र गोशब्दस्य। `रात्रिञ्चरः` इति। रात्रौ चरतीति **चरेष्टः** (3.2.16) इति टः, उपपदसमासः। `रात्रिमटः` इति। अटतीत्यटः, पचाद्यच्, `रात्र्यटः` [`रात्रावटः` इति मुद्रितः पाठः] इति। `सप्तमी` (2.1.40) इति योगविभागात्? समासः। `अप्राप्तविभाधेयम्` इति। ननु च खिदपि कृदस्ति - रात्रिम्मन्यमिति, अत्र हि **अरुर्द्विषदजन्तस्य मुम्** (6.3.67) इति नित्यं प्राप्नोति, `रात्रिञ्चरः` इत्यादौ न केनचित्? प्राप्नोति; एवञ्च प्राप्ते चाप्राप्त इयं विभाषा युक्तेत्यत आह - `खिति हि नित्यं मुम्? भवति` इति। पूर्वविप्रतिषेधेनेत्यभिप्रायः। अत्र हि पूर्वविप्रतिषेध आश्रीयते, खिति पूर्वेण नित्यं मुम्भवति। एवञ्च खितोऽन्यदेव कृदन्तमस्य वचनस्यावकाशः। न च केनचित्? तत्र प्राप्नोतीति युक्तमस्याप्राप्तविभाषात्वम्॥ Prakriyasarvasvam ----------------- कृदन्ते परे रात्रेर्वा मुम् । रात्रिञ्चरः । रात्रिचरः । चरेष्टः (३-२-१६) रात्रिंमटः । रात्र्यटः । पचाद्यच् ॥