63070: कारे सत्यागदस्य ====================== **Padacheda:** कारे | S | 7 | 1 | सत्य-अगदस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- मुम् is the augment of सत्य and अगद when the word कार follows. Vasu English Translation ------------------------ मुम् is the augment of सत्य and अगद when the word कार follows. As सत्यंकारः = सत्यंकरोति or सत्यस्यकारः ॥ So also अगदंकारः ॥ Vart:- So also of अस्तु, as अस्तुंकारः ॥ Vart:- So also in Vedas, of भक्ष before कारः -e. g. भक्षंकार, in secular language भक्षकारः ॥ Vart:- Of धेनु before भव्या, e.g. धेनुंभव्या ॥ Vart:- Of लोक before पृण, e.g. लोकंपृणा ॥ Vart:- Of अनभ्याश before इत्य as अनभ्याशमित्यः ॥ Vart:- Of भ्राष्ट्र and अग्नि, before इन्धः, as भ्राष्ट्रामिन्धः, अग्निमिन्धः ॥ Vart:- A word before गिल takes मुम् augment, unless it is also गिल e.g. तिमिङ्गिलः, but गिलगिलः ॥ Vart:- So also before गिलगिल, e.g. तिमिङ्गिलगिलः ॥ Vart:- Of उष्ण and भद्र before करण, e. g. उष्णं करणं, भद्रंकरणं ॥ Vart:- पुत्रड् is optionally the substitute of दुहितृ when the words सूत, उग्र, राज, भोज, and मेरु precede it e. g. सूतपुत्री or सूतदुहिता, उग्रपुत्री or उग्रदुहिता, राजपुत्री or राजदुहिता, भोजपुत्री or भोजदुहिता, मेरुपुत्री or मेरुदुहिता ॥ Some read पुत्र in the *Sarangaravadi* class (4.1.73), and then this word has its feminine पुत्री ॥ This is seen in other places also, e.g. शैलपुत्री ॥ Bhashya ------- कारे सत्यागदस्य (2929) (6469 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अस्तुसत्यागदस्य कार उपसंख्यानम् - अस्तुसत्यागदस्य कार उपसंख्यानं कर्तव्यम् । अस्तुंकारः, सत्यङ्कारः, अगदंकारः ॥ (6470 उपसंख्यानवार्तिकम् ॥ 2 ॥) - भक्षस्य छन्दसि - भक्षस्य च्छन्दस्युपसंख्यानं कर्तव्यम् । तस्यते भक्षङ्कारस्य । छन्दसीति किमर्थम् ? भक्षकारस्य तन्मतमिति ॥ (6471 उपसंख्यानवार्तिकम् ॥ 3 ॥) - धेनोर्भव्यायाम् - धेनोर्भव्यायामुपसंख्यानं कर्तव्यम् । धेनुम्भव्या ॥ (6472 उपसंख्यानवार्तिकम् ॥ 4 ॥) - लोकस्य पृणे - लोकस्य पृण उपसंख्यानं कर्तव्यम् । लोकम्पृणस्य धन्विनः ॥ (6473 उपसंख्यानवार्तिकम् ॥ 5 ॥) - इत्येऽनभ्याशस्य - इत्येऽनभ्याशस्योपसंख्यानं कर्तव्यम् । अनभ्याशमित्यम् ॥ (6474 उपसंख्यानवार्तिकम् ॥ 6 ॥) - भ्राष्ट्राग्न्योरिन्धे - भ्राष्ट्राग्न्योरिन्ध उपसंख्यानं कर्तव्यम् । भ्राष्ट्रमिन्धः । अग्निमिन्धः ॥ (6475 उपसंख्यानवार्तिकम् ॥ 7 ॥) - गिलेऽगिलस्य - गिलेऽगिलस्योपसंख्यानं कर्तव्यम् । तिमिंगिलः । अगिलस्येति किमर्थम् ? गिलगिलः ॥ (6476 उपसंख्यानवार्तिकम् ॥ 8 ॥) - गिलगिले च - गिलगिले चेति वक्तव्यम् । तिमिंगिलगिलः ॥ (6477 उपसंख्यानवार्तिकम् ॥ 9 ॥) - उष्णभद्रयोः करणे - उष्णभद्रयोः करण उपसंख्यानं कर्तव्यम् । उष्णंकरणम्, भद्रंकरणम् ॥ (6478 उपसंख्यानवार्तिकम् ॥ 10 ॥) - सूतोग्रराज भोजकुलमेरुभ्यो दुहितुः पुत्रड्वा - सूतोग्रराजभोजकुलमेरुभ्यो दुहितुः पुत्रट् वा भवतीति वक्तव्यम् । सूतपुत्री, सूतदुहिता - सूत । उग्रपुत्री, उग्रदुहिता - उग्र । राजपुत्री, राजदुहिता - राज । भोजपुत्री, भोजदुहिता - भोज । कुलपुत्री, कुलदुहिता - कुल । मेरुपुत्री, मेरुदुहिता - मेरु ॥ Kashika ------- कारशब्द उत्तरपदे सत्य अगद इत्येतयोर्मुमागमो भवति। सत्यं करोतीति, सत्यस्य वा कारः सत्यंकारः। एवमगदंकारः॥ अस्तुसत्यागदस्य कार इति वक्तव्यम्॥ अस्तुंकारः॥ भक्षस्य छन्दसि कारे मुम् वक्त व्यः॥ भक्षं करोतीति, भक्षस्य वा कारो भ॒क्षं॒का॒रः॑ (मै०सं० ४.७.३)। छन्दसीति किम्? भक्षकारः॥ धेनोर्भव्यायां मुम् वक्त व्यः॥ धे॑नुं॒भ॑व्या॒ (मै०सं० ४.४.८)॥ लोकस्य पृणे मुम् वक्तव्यः॥ लोकंपृ॒णा (तै० सं० ५.७.५.६)॥ इत्येऽनभ्याशस्य मुम् वक्तव्यः॥ अनभ्याशमित्यः॥ भ्राष्ट्राग्न्योरिन्धे मुम् वक्त व्यः॥ भ्राष्ट्रमिन्धः। अग्निमि॒न्धः(ऋ० १.१६२.५)॥ गिलेऽगिलस्य मुम् वक्त व्यः॥ तिमिङ्गिलः। अगिलस्येति किम्? गिलगिलः॥ गिलगिले चेति वक्तव्यम्॥ तिमिङ्गिलगिलः॥ उष्णभद्रयोः करणे मुम् वक्तव्यः॥ उष्णंकरणम्। भद्रंकरणम्॥ सूतोग्रराजभोजमेर्वित्येतेभ्य उत्तरस्य दुहितृशब्दस्य पुत्रडादेशो वा वक्तव्यः॥ सूतपुत्री, सूतदुहिता। उग्रपुत्री, उग्रदुहिता। राजपुत्री, राजदुहिता। भोजपुत्री, भोजदुहिता। मेरुपुत्री, मेरुदुहिता। केचित् तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति, तेषां पुत्रीति भवति। अन्यत्रापि हि दृश्यते। शैलपुत्रीति॥ Siddhanta Kaumudi ----------------- मुम् स्यात् । सत्यङ्कारः । अगदङ्कारः । (वार्तिकम्) ॥ अस्तुङ्कारः । (वार्तिकम्) ॥ धेनुम्भव्या । (वार्तिकम्) ॥ लोकम्पृणः । पुणः इति मूलविभुजादित्वात्कः । (वार्तिकम्) ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः । (वार्तिकम्) ॥ भ्राष्टमिन्धः । अग्निमिन्धः । (वार्तिकम्) ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः । (वार्तिकम्) ॥ तिमिङ्गिलगिलः । (वार्तिकम्) ॥ उष्णङ्करणम् । भद्रङ्करणम् ॥ Balamanorama ------------ **कारे सत्यागदस्य** - कारे सत्यागदस्य । शेषपूरणेन सूत्रंव्याचष्टे-मुम्स्यादिति ।अरुर्द्विष॑दित्यतस्तदनुवृत्तेरिति भावः । सत्यस्य अगदस्य च कारे परे मुम्स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । सत्यङ्कार इति । भावे घञ् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगजङ्कार इति । गदो-रोगः, तस्याऽभावऋ-अगदः । अर्थाभावे अव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तेः । अगदस्य कार इत्यर्थः । अस्तोश्चेति ।कारे मु॑मिति शेषः । अस्तुङ्कार इति । अस्त्विति तिङन्तप्रतिरूपकमव्ययमभ्युपगमे वर्तते । धेनोरिति । 'मुम्वक्तव्य' इति शेषः । धेनुभव्येति । नवप्रसवात्प्रागियमुक्तिः । भविष्यन्ती धेनुरित्यर्थः ।भव्यदेये॑ति कर्तरि निपातनात्कृत्यप्रत्ययः । धेनुश्चासौ भव्याचेति विग्रहः । मयूरव्यंसकादित्वाद्भव्याशब्दस्य परनिपातः । लोकस्य पृणे इति । 'मुम्वक्तव्य' इति शेषः । ननु लोकं पृणतीति विग्रहे कर्मण्यणि लधूपधगुणे रपरत्वे 'पर्ण' इति स्यादित्यत आह — मूलाविभुजादित्वात्क इति ।इत्येऽनभ्याशस्येति । 'मुम्वक्तव्य' इति शेषः । अनभ्याशमित्य इति । अभ्याशः — समीपम्, अनभ्याशं-दूरं । द्वितीयान्तमिदम् । इण्धातोः प्रापणार्थकात्एतिस्तुशा॑सित्यादिना क्यप्,गम्यादीनामुपङ्ख्यान॑मिति द्वितीयासमासः । सुब्लुकि मुम् । दूरं प्रापयितव्यः, नतु समीपमित्यर्थं मनसि निधायाह — दूरतः परिहर्तव्य इति । भ्राष्ट्राग्न्योरिन्धे इति । 'मुम्वक्तव्य' इति शेषः । भ्राष्ट्रमिन्ध इति । भ्राष्ट्रं-धानादिभर्जनार्गं पात्रम्, तत् इन्द्धे=तापयतीति भ्राष्ट्रमिन्धः । कर्मण्यणि उपपदसमासः । सुब्लुकि, मुम् । अग्निमिन्झ इति । अग्न प्रज्वलयतीत्यर्थः । गिलेऽगिलेस्येति ।अगिलस्ये॑ति च्छेदः । गिले परे गिलभिन्नस्य मुम्वाच्य इत्यर्थः । तिमिङ्गिल इति ।गृ निगरणे॑ । तिमिः — मत्स्यविशेषः । तं गिलतीति मूलविभुजादित्वात्कः । 'ॠत इद्धातोः' इति रपरत्वेअचि विभाषे॑ति लत्वम्, उपपदसमासः । सुब्लुकि मुम् । गिलगिल इति । अयमपि मत्स्य विशेषः । गिलगिले चेति । अगिलस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिलगिल इति । गिलं गिलतीति । गिलगिलः, तिमीनां गिलगिल इति विग्रहः । संबन्धसामान्ये षष्ठी । तिमिषु गिलगिल इति निर्धारणसप्तमी वा ।संज्ञाया॑मिति सप्तमीसमासः । उष्णभद्रयोः करणे इति । मुम्वाच्य इत्यर्थः । उष्णङ्करणं, भद्रङ्करणमिति षष्ठीसमासः । Tattvabodhini ------------- **कारे सत्यागदस्य** - कारे सत्या ।अरुर्द्विष॑दित्यतोऽनुवर्तनादाह — मुम्स्यादिति । सत्यङ्कारः — शपथकरणम् । अशपथेऽपिसत्यादशपते॑इति डाचं बाधित्वा पत्वान्मुमेव । अगदङ्कारो वैद्यः ।अस्तोश्चेति वक्तव्यम् । अस्तुङ्कारेऽभ्युपगमः । अस्त्विति तिङन्तप्रतिरूपकमव्ययम् । धेनोर्भव्यायाम् । धेनुम्भव्येति । भविष्यन्ती धेनुरित्यर्थः ।भव्येगेये॑ति निपातनात्कर्तति कृत्यः । धेनुश्चासौ भव्या चेकि विग्रहः । गौतमस्मृतौ तुअधेनुभव्या॑इत्यत्र आर्षत्वान्मु म्नेति बोध्यम् । लोकम्पृण इति । पृणधातुः प्रीणनार्थः ।पृणतिः पूरणकर्मा॑इति तु हरदत्तः ।इत्येऽनभ्याशस्य । अनभ्यशमित्य इति । अभ्यासं=समीपं, तद्भिन्नमनभ्याशम् ।एतिस्तुशास्वृदृजुषः॑इति इणः क्यप् ।भ्राष्ट्राइयोरिन्धे । भ्राष्ट्रमिन्ध इति । कर्मण्यपि उपपदसमासः । एवमग्निमिन्धोऽपि । गिलेऽगिलेस्य च ।गिलेऽगिलस्येति । गिलशब्दे उत्तरपदे अगिलस्य मुमुत्यर्थः ।तिमिङ्गिल इति । मत्स्यविशेषः । गिरतेर्मूलविभुजादित्वात्कः ।अचि विभाषे॑ति लत्वम् ।गिलिगिले च । गिलगिले चेति ।गिलं गिलतीति गिलगिलः, तिमीनां गिलगिलः॑इति विग्रहे इदमारब्धम् । Padamanjari ----------- सत्यङ्कारः - समयकरणम् । अशपथऽपि परत्वाद् डाचं बाधित्वा कारे मुमेव भवति, ताअगदङ्कारः - विषप्रतिपक्षद्रव्यविषेषकरणम् । मक्षङ्कारः - यागविशेषे द्रव्यभक्षण्स्य करणम् । भक्षङ्करेतीति वा भक्षङ्कारः, कर्मण्यण् । धेनुम्भव्येति । भविष्यन्ती धेनुरुच्यते, भव्यगेय इति यत्कर्तरि । लोकमपृणेति । पृणोतिः पूरणकर्मा, मूलविभुजादित्वात्कः । अनभ्याशामित्य इति । एतिस्तुशासु इत्यादिना क्यप् - एतव्यम्, थैत्यम् । अनभ्याशम् - दूरम्, एतानभ्याशामित्यः , दूरतः परिहर्तव्य उच्यते । भ्राष्ट्रमिन्धः, अग्निमिन्ध इति । कर्मण्यण्, घञन्तेन वा षष्ठीसमासः । तिमिङ्गिल इति । मत्स्यविशेषः । तिमिङ्गिलतीति पूर्ववत्कः, इत्वम् । अचि विभाषा इति लत्वम् । तिमिङ्गिलगिलः । अयमपि मत्स्यविशेष एव । गिलगिले चेति । यदा गिलं गिलतीति गिलगिलः तिमिङ्गिलगिल इति व्युत्पत्तिस्तदेदमुपसंख्यानम् । यदा हि तिमिङ्गिलं गिलतीति तिमिङ्गिलगिल इति व्युत्पाद्यते, तदा नार्थ एतेन । उष्णङ्करणम्, भद्रङ्करणमिति । षष्ठीसमासौ । पुत्रड्वेति । दकारो ङीबर्थः । केचित्वित्यादि । तेषां पक्ष उपसंख्यानमिदं नारब्धव्यम् । अन्यत्रापि हीत्यादिना शार्ङ्गरवादिपाठमेव द्रढयति । अन्ये तु शार्ङ्गरवादिपाठ्ंअ नेच्छन्ति ॥ Nyaas ----- `सत्यं करोति` इत्यनेन कर्मण्यणं सूचयति। `सत्यस्य कारः` इत्यनेनापि घञम्। एवं `अगदङ्कारः` इत्यत्राप्यण्घञौ वेदितव्यौ। `अस्तुङ्कारः` इति। भावे घञ्। अस्तुशब्दो विभक्तिप्रतिरूपको निपातोऽभ्युपगमे वर्तते। अस्त्वित्यभ्युपगमस्य करणस्तुङ्कारः। `भक्षङ्कारः` इति। भावे घञ्। `धेनुम्भव्या` इति। `भव्यगेय` (3.4.68) इत्यादिना कर्तरि कृत्यः। धेनुश्चासौ भव्या चेति धेनुम्भव्या। `लोकम्पृमः` इति। `पृण प्रीणने`, (धातुपाठः-1329) लोकं पृणतीति मूलविभुजादित्वात्? कः। `अनभ्याशमित्यः` [`अनम्याशमित्यम्` - मुद्रितः पाठः] इति। अनभ्याशं दूरमित्यं गन्तव्यमस्येत्यनभ्याशमित्यः। इन्धनमिन्धः, भावे घञ्। भ्राष्ट्रस्येन्दो `भ्राष्ट्रमिन्धः`। अग्नेरिन्धोऽग्निमिन्धः। `तिमिङ्गिलः` इति। `गृ निगरणे` (धातुपाठः-1410)। तिमिं गिलतीति पर्ववत्? कः, `ऋत इद्धातोः` (7.1.100) इतीत्त्वम्, रपरत्वम्, **अचि विभाषा** (8.2.21) इति लत्वम्। `गिलिगिलः` इति। गिलं गिलतीति पूर्वववत्? कः, इत्त्वादि च। `गिलगिले च` इति। गिलं गिलतीति गिलगिलः। **आतश्चोपसर्गे** (3.3.106) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्? कः। पूर्वत्राप्येवं कविधाने न दोषः। तिमीनां गिलगिल इत्यस्मिन्नर्थे विवक्षित इदं वक्तव्यम्। अथ तिमिं गिलतीति तिमिङ्गिलः, तिमिङ्गलं गिलतीत्येधोऽर्थो यदा विवक्ष्यते तदा पूर्वेणैव सिद्धमिति नार्थ एतेन। `उष्ट्रङ्करणम्, भद्रङ्करणम्` इति। षष्ठीसमासौ। `पुत्रट्` इति। टकारो ङीबर्थः। केचित्तु शाङ्र्गरवादिषु पुत्रशब्दं पठन्ति` इति। तान्? प्रति नेदमुपसङ्ख्यानं कर्तव्यम्। `अन्यत्रापि दृश्यते` इति। अनेन शाङ्र्गरवादिषु पुत्रशब्दस्य पाठं द्रढयति॥ Prakriyasarvasvam ----------------- अनयोः कारे परे मुँ स्यात् । घञ्यणि वा । सत्यङ्कारः । अगदङ्कारः । अस्तुङ्कार इति चेष्टम् । अस्त्वित्यसूयाप्रतिवचनेऽव्ययम् । इत्येऽनभ्याशस्य मुँ वाच्यः । अनभ्याशमित्यः खलः । अगिलस्य गिले मुँ वाच्यः । तिमिङ्गिलः । गिलस्य तु न । गिलगिलः । गिलगिले परे मुँ वाच्यः । तिमिङ्गिलगिलः । 'उष्णभद्रयोः करणे' । उष्णङ्करणम् । भद्रङ्करणम् ॥ Vartika ------- अस्तोश्चेति वक्तव्यम् । Sutra Prayogas -------------- * **सत्यंकारम्** (किरातार्जुनीयम्): `कारे सत्यागदस्य` इति मुमागमः।