63068: इच एकाचोऽम्प्रत्ययवच्च ============================= **Padacheda:** इचः | S | 6 | 1 | एकाचः | S | 6 | 1 | अम् | S | 1 | 1 | प्रत्ययवत् | S | 0 | 0 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- A monosyllabic word ending in any vowel other than अ when followed by a word formed by a खित् affix receives the augment अम् which is added in the same way as the affix अम् of the Accusative -2nd case singular. Vasu English Translation ------------------------ A monosyllabic word ending in any vowel other than अ when followed by a word formed by a खित् affix receives the augment अम् which is added in the same way as the affix अम् of the Accusative -2nd case singular. The word अम् is to be repeated here thus, इच एकाचोऽम्, अम्प्रत्ययवच्च ॥ Thus गांमन्यः, स्त्रींमन्यः, or स्त्रियंमन्यः, श्रियंमन्यः, भ्रुवंमन्यः ॥ By force of the *atidesa* अम्प्रत्ययवत्, the changes produced by the Accusative ending are caused by this augment also : viz: the substitution of long आ, the substitution of a vowel homogenous with the first, the *guna*, the substitutes इयङ् and उवङ् As आ-गां मन्यः (6.1.93); पूर्वसवर्ण as स्त्रींमन्यः (6.1.107); *guna*, as, - नरंमन्यः (7.3.110) and इयङ् and उवङ्, as श्रियंमन्यः, भ्रुवंमन्यः (6.4.81) &c)). Why do we say ending in a vowel other than अ (इच्)? Observe त्वन्मन्यः ॥ Why do we say 'a monosyllable'? Observe लेखाभ्रुं मन्याः ॥ The affix अम् is elided after a Neuter noun (7.1.23), therefore, will this अम् also be elided when श्री is treated as Neuter? As श्रियमात्मानं मन्यते ब्राह्मणकुलं = श्रियंमन्यम् or श्रिमन्यम्? The second is the valid form according to *Patanjali*. Bhashya ------- इच एकाचोऽम्प्रत्ययवच्च (2927) (मुमोऽधिकरणम्) (सूत्रप्रयोजनाक्षेपभाष्यम्) अमः प्रत्ययवदनुदेशे किं प्रयोजनम् ? (6464 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - अमः प्रत्ययवदनुदेशे प्रयोजनमात्वपूर्वसवर्णगुणेयङुवङादेशाः - अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णगुणेयङुवङादेशाः - प्रयोजनम् । आत्वं प्रयोजनम् - गांमन्यः । पूर्वसवर्णः प्रयोजनम् - स्त्रींमन्यः । गुणः प्रयोजनम् - नरंमन्यः । इयङुवङौ प्रयोजनम् - श्रियंमन्यः, भुवंमन्यः ॥ (6465 प्रयोजनाक्षेपवार्तिकम् ॥ 2 ॥) - अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णाप्रसिद्धिरप्रथमात्वात् - अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णयोरप्रसिद्धिः । किं कारणम् ? अप्रथमात्वात् । प्रथमयोरित्युच्यते, न चात्र प्रथमां पश्यामः । किं च भोः आत्वं प्रथमयोः इत्युच्यते ? न खलु प्रथमयोरित्युच्यते, प्रथमयोरिति विज्ञायते । कथम् ? अम्शसोरित्युच्यते, त एवं विज्ञास्यामः - शस्सहचरितो योऽम्शब्दः । कश्च शस्सहचरितः ? प्रथमैव ॥ ननु च प्रत्ययवदनुदेशाद्भविष्यति । न सिद्ध्यति । किं कारणम् ? (6466 आक्षेपसाधकवार्तिकम् ॥ 3 ॥) - सामान्यातिदेशे हि विशेषानतिदेशः - सामान्ये ह्यतिदिश्यमाने विशेषोऽनतिदिष्टो भवति । तद्यथा - ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति सामान्यं यत् ब्राह्मणकार्यं तत् क्षत्रियेऽतिदिश्यते । यद्विशिष्टं माठरे कौण्डिन्ये वा, न तदतिदिश्यते । एवमिहापि सामान्यं यत्प्रत्ययकार्यं तदतिदिश्यते । यद्विशिष्टं द्वितीयैकवचने भवति - प्रथमयोरिति, न तदतिदिश्यते ॥ (6467 समाधानवार्तिकम् ॥ 4 ॥) - सिद्धं तु द्वितीयैकवचनवद्वचनात् - सिद्धमेतत् । कथम् ? द्वितीयैकवचनवद्वचनात् । द्वितीयैकवचनवद्भवतीति वक्तव्यम् ॥ (6468 प्रकारान्तरेण समाधानवार्तिकम् ॥ 5 ॥) - एकशेषनिर्देशाद्वा - अथवैकशेषनिर्देशोऽयम् । अम् च अम् च - अम् । इच एकाचोऽम् भवति, अम्प्रत्ययवच्चास्मिन् कार्यं भवति ॥ (प्रयोगसाधनाक्षेपभाष्यम्) अथेह कथं भवितव्यम् - श्रियं मन्यते ब्राह्मणकुलम् - श्रियंमन्यं ब्राह्मणकुलम्, आहोस्विच्छ्रिमन्यमिति ? श्रियंमन्यमिति भवितव्यम् । स्वमोर्नपुंसकात् (7.1.23) इति लुक्कस्मान्न भवति ? (बाध्यसामान्यचिन्तया प्रयोगसाधकभाष्यम्) नाप्राप्ते लुक्यम् - आरभ्यते । स यथैव सुपो धातुप्रातिपदिकयोः (2.4.71) इत्येतं बाधत एवं स्वमोर्नपुंसकात् इत्येतमपि लुकं बाधेत ॥ (बाध्यविशेषचिन्तयाऽऽक्षेपभाष्यम्) न बाधते । किं कारणम् ? येन नाप्राप्ते तस्य बाधनं भवति । न चाप्राप्ते सुपो धातुप्रातिपदिकयोः इत्येतस्मिन्नेतदारभ्यते, स्वमोर्नपुंसकात् इत्येतस्मिन् पुनः प्राप्ते चाप्राप्ते च ॥ अथवा मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवमयममागमः सुपो धातुप्रातिपदिकयोः इत्येतं बाधते, स्वमोर्नपुंसकात् इत्येतन्न बाधते ॥ (समाधानभाष्यम्) एवं तर्हि असिद्धं बहिरङ्गमन्तरङ्गे इत्यसिद्धत्वाद्बहिरङ्गलक्षणस्यामोऽन्तरङ्गलक्षणो लुक् न भविष्यति ॥ (पूर्वपक्षिणः सिद्धान्तभाष्यम्) नैषा परिभाषेहोत्तरपदाधिकारे शक्या विज्ञातुम् । इह हि दोषः स्यात् - द्विषन्तपः, परन्तपः - इति ॥ तस्माच्छ्रिमन्यमित्येव भवितव्यम् ॥ Kashika ------- इजन्तस्य एकाचः खिदन्त उत्तरपदेऽमागमो भवति, अम्प्रत्ययवच्च द्वितीयैकवचनवच्च स भवति। अमिति हि द्विरावर्तते। गांमन्यः। स्त्रींमन्यः, स्त्रियंमन्यः। नरंमन्यः। श्रियंमन्यः। भ्रुवंमन्यः। अम्प्रत्ययवच्चेत्यतिदेशादात्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति। इच इति किम्? त्वङ्मन्यः। एकाच इति किम्? लेखाभ्रुंमन्यः। अथेह कथं भवितव्यम्, श्रियमात्मानं ब्राह्मणकुलं मन्यत इत्युपक्रम्य श्रिमन्यमिति भवितव्यमिति भाष्ये (३.१.६७) व्यवस्थितम्। तत्रेदं भाष्यकारस्य दर्शनम् — अत्र विषये परित्यक्त स्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा प्रष्ठादयः स्त्रियाम्। तत्र **स्वमोर्नपुंसकात्**(७.१.२३) इत्यमो लुग् भवति॥ Siddhanta Kaumudi ----------------- इजन्तादेकाचोऽम् स्यात्स च स्वाद्यम्वत्खिदन्ते परे । औतोऽम्शसोः (SK285) । गांमन्यः । वाम्शसोः (SK302) । स्त्रियंमन्यः । स्त्रींमन्यः । नृ । नरंमन्यः । भुवंमन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनात् श्रीशब्दस्य ह्रस्वो मुममोरभावश्च ॥ Balamanorama ------------ **इच एकाचोऽम्प्रत्ययवच्च** - इच एकाचः । एकाच अमिति छेदः । अम् च अम् चेत्येकशेषः । एकं विदेयसमर्पकम् ।इच एकाचो॑ऽमिति प्रथमं वाक्यम् । इच इत्येकाचेति च पञ्चमी । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारादाक्षिप्तं पूर्वपदमिचा विशेष्यते । तदन्तविधिः । तदाह — इज्नतादेकाचोऽम्स्यादिति । मुमोऽपवादः । द्वितीयमम्पदंप्रत्ययव॑दित्येकदेशेन प्रत्ययेन समानाधिकरमं संबध्यते । असामत्र्येऽपि वतिप्रत्यय आर्षः ।अम्प्रत्ययव॑दिति द्वितीयं वाक्यं संपद्यते । स्वादिप्रत्ययेषु यद्द्वितीयैकवचनं तदेवाऽत्र अमिति विवक्ष्यते, व्याख्यानात् । तदाह — स च स्वाद्यम्वदिति । एतत्सर्वं भाष्ये स्पष्टम् । खिदन्ते पर इति । खिदन्ते उत्तरपदे परत इत्यर्थः ।खित्यनव्ययस्ये॑त्यतः खितीत्यनुवर्तते इति भावः ।अम्प्रत्ययव॑दित्यतिदेशसय् प्रयोजनमाह — औतोम्शसोरिति । गाम्मन्य इति । गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन्, सुपो लुक्, गोशप्दादम्,अम्प्रत्ययव॑दित्यस्य प्रयोजनान्तरमाह — वाऽम्शसोरिति । स्त्रियम्मन्य इति । स्त्रियमात्मानं मन्यते इत्यर्थे मनेः खशि श्यन् । सुपो लुक् । स्त्रीशब्दात् 'वाऽम्शसोः' इति इयङ्विकल्पः । अत्र यकारादकारस्य श्रवणार्थमम्विधिः । मुमि तु अकारो न श्रुयेत । स्तरीम्मन्य इति । इयङभावपक्षेअमि पूर्वः॑ ।अम्प्रत्ययव॑दित्यस्य प्रयोजनान्तरमाह — नृ - नरम्मन्य इति ।नृ॑इत्यविभक्तिकम्, उदाहरणे नृशब्दस्य समावेशसूचनार्थम् । नरमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक्, नृशब्दादम् ।अम्प्रत्ययव॑दित्यतिदेशात्ऋतोऽङी॑ति गुणः । अत्राऽपि रेफादकारश्रवणार्थोऽम्विदिः । मुमि त्वकारो न श्रूयेत ।अम्प्रत्यव॑दित्यस्य प्रोजनान्तरमाह — भुवम्मन्य इति । भुवमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक् । भूशब्दादम्,अम्प्रत्ययव॑दित्यतिदेशात् 'अचि श्नुधातु' इत्युवङ् । अतिदेशाऽभावे तु उवङ् न स्यात्, तस्याऽजादिप्रत्यये विधानात् । श्रिमन्यमिति । मनेः खश् । श्यन् । अत्र मननक्रियां प्रति कुलत्वेन रूपेण कुलं कर्तृ, तस्यैव कुलस्य अध्यारोपतिश्रीत्वेन रूपेण कर्मत्वं चेति स्थितिः । एवं च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम् । यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पर्वलिङ्गत्यागः । यथा प्रकृते श्रीशब्दः । यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः, यथागङ्गायां घोष॑इत्यादावितिपुंयोगादाख्याया॑मिति सूत्रे , प्रकृतसूत्रे च भाष्यैयटयोर्मर्यादा स्थिता । एवं चकालिम्मन्यं कुल॑मित्यत्र कालीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् ।श्रिमन्यं कुल॑मित्यत्र तु प्रयोगाऽनुसाराच्श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागान्नपुंसकलिङ्गत्वमेवाश्रीयते । ततश्च श्रीशब्दस्याऽत्र नपुंसकत्वात्खित्यनव्ययस्ये॑ति बहिरङ्गं ह्रस्वं बाधित्वाह्रस्वो नपुंसके प्रातिपदिकस्ये॑ति ह्रस्व एव न्याय्यः । मुमपवादे 'इच एकाचः' इत्यमि कृते तस्यस्वमोर्नपुंसका॑दित लुक् । तथा चश्रिमन्यं कुल॑मिति सिद्धम् । नच गाम्मन्य इत्यादावपिसुपो धातुप्रातिपदिकयो॑रिति लुक् स्यादिति वाच्यम्, 'इच एकाचः' इत्यमः 'सुपो धातु' इति लुगपवादत्वात् ।स्वमोर्नपुंसका॑दिति लुकस्तु नायमम्विधिर्बाधकः, मध्येऽपवादन्यायादिति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । तदाह — भाष्यकारेत्यादि । 'ह्रस्वो नपुंसके' इत्यनेने॑ति शेषः । मुममोरभावश्चेति । मुमपवादस्य अमःस्वमोर्नपुंसका॑दिति लुकि सति तयोः प्रयोगाऽभावः फलतीत्यर्थः । Tattvabodhini ------------- **इच एकाचोऽम्प्रत्ययवच्च** - इच एकाचः । अम्ग्रहणमिहाऽऽवर्तते, तत एकेन अम् विधीयते, परेण प्रत्ययो विशेष्यते । तदाह — स्वाद्यम्वदिति । एवं चन विभक्तौ तुस्माः॑ इति निषेधान्मकारस्य नत्संज्ञा, अतएव परश्च भवति ।औतोऽम्शसो॑रित्यत्र शशा साहचर्यात्सुबेवाऽम् गृह्रत इत्युक्तत्वादोत आकारश्च भवतीत्याशयेनोदाहरति — गांमन्य इति । नरंमन्य इति ।ऋतोऽङीत्यादिना गुणः ।भाष्यकरोति । अयं भावः — यथा प्रष्ठादयः शब्दाः पुंयोगात्स्त्रीयां वर्तन्ते — प्रष्ठी गणिकेति, तथेह श्रीशब्द परित्यक्तस्वलिङ्गः क्लीबः सन् कुले वर्तते, तत्रह्रस्वो नपुंसके॑ इति ह्रस्वः, मुम् तु न, अपवादेन अमा बाधात् ।स्वमोर्नपुंसका॑दित्यमो लुक् । नचैं गामंन्य इत्यादावपिसुपो धातुप्रातिपदिकयो॑रिति लुक् स्यादिति वाच्यम्,अम्विधिसामर्थ्यादेव तद्बाधादित्याहुः । अम्प्रत्ययस्तुमध्येऽपवादा॑ इति न्यायेनसुपो धातुप्रातिपदिकयो॑रिति लुकमेव बाधते न तुस्वमोर्नपुंसका॑दिति लुकमिति भाष्यादौ स्थितम् । स्यादेतत् — नपुंसकह्रस्वे कृते मुमः प्राप्तिरेव नास्ति, कथमत्रापवादेन अमा बाधादित्युक्तिः सङ्गच्छेत,अरुर्द्विष॑दिति सूत्रे हि अन्तग्रहणस्य समीपवाचित्वेनखित्यनव्ययस्ये॑ति पुनह्र्यस्वो मुमर्थः स्वीक्रियते तथात्रापि भवेदित्यस्त्येव मुमः प्राप्तिरिति । Padamanjari ----------- अमागमो भवतीति । कथमस्यागमत्वम् मित्वात् । यद्येवम्, मकार इत्संज्ञकः प्रयोगे श्रवणं न प्राप्नोति - श्रियम्मन्यः, भ्रुवम्मन्य इति नैवास्य मकारस्य श्रवणम्, किं तर्हि मुमः । ननु च नाप्राप्ते मुम्यारभ्यमाणोऽयमागमस्तं बाधेत न बाधेत उक्तं तत्र -अन्तग्रहणं कृताजन्तकार्यप्रतिपत्यर्थमिति, तेनास्मिन्नपि प्रकृते भविष्यति । वयन्तु ब्रूमः - नेवायमित्संज्ञको मकारः, अम्प्रत्ययवद्भावेन न विभक्तौ तुस्माः इति एप्रतिषधात् । यद्यवम्, आदेशः प्राप्नोति अम्प्रत्ययवद्भावात्परो भविष्यति । आगमव्यपदेशास्तु यौगिकः समीप आगच्छतीति, यथा न य्वाभ्यां पदान्ताभ्याम् इत्यत्रैचः । द्वितीयोऽपि वा मकारः संयोगान्तलोपेन लुप्तनिर्दिष्टो द्रष्टव्यः । यद्यत्र प्रत्ययवच्चेत्येतावदुच्येत गाम्मन्य इत्यत्र औतोऽम्शसोः इत्याकारो न स्यात्, शसा सहचरितस्यामस्तत्र ग्रहणात् । इह च स्त्रीम्मन्य इति अमि पूर्वः इति पूर्वरुपं न स्यात् प्रथमयोः इति तत्रानुवृतेः । इह च नरम्मन्य इति ऋतो ङिसर्वनामस्थानयोः इति गुणो न स्यात् सामान्यतिदेशे विशेषानतिदेशात् । यत्र हि सामान्यशब्देनातिदेशस्तत्र विषेषाणामशब्दार्थत्वात्सामान्यनिबन्धनमेव कार्यं प्राप्यते यथा - ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणमात्रप्रयुक्तं कार्यमतिदिश्यते, न माठरादिर्विशेषप्रयुक्तम्, तद्वदत्रापि प्रत्ययमात्रप्रयुक्तयोरियणुवङेरेवातिदेशः स्यत्, न त्वाकारदेरिति मत्वाऽऽह - अम् प्रत्ययवच्चेचि । एतदेव विवृणोति - द्वितीयैकवचनवच्चेति । ननु चात्रैकमम्ग्रहणं यदि तेनागमो निर्दिष्टः प्रत्ययो न विशेषितः स्यात् अथ प्रत्ययो विशेष्यते, आगमो न निर्दिष्टः स्यात् इत्यत आह - अमिति हीत्यादि । नन्वत्रापि पक्षे अम्प्रत्ययप्रयुक्तयोरात्वपूर्वत्वयोरेवातिदेशः स्यात्, न गुणस्य सर्वनामस्थानमात्रनिमितस्य, नतरामियणुवङेः प्रत्ययमात्रनिमितयोः स्यादेतदेवम्, यद्यमित्येतदाहत्य विहितं तस्यैवातिदेशः स्यात् । वयं तु - आमि यद् दृष्ट्ंअ सामान्यनिबन्धनं विशेषणबन्धनं वा तत्सर्वमतिदिशामः । त्वङ्मन्य इति । अत्र त्वचंमन्य इति प्राप्नोति, येषामेको मकारः प्रत्ययवद्भावात्त्उ परोऽयमिति पक्षः । येषामपि द्वितीयस्तेषामचः परोऽम् प्राप्नोति, येषां त्वित्संज्ञको मकारस्तेषामक्षापि को दोष इति चिन्त्यम् । नन्वज्ग्रहणानुवृतेरेवात्र न भविष्यति, उपसमस्तस्य पृथगनुवृत्तिर्दुर्ज्ञानेति मन्यते । लेखाभ्रुमन्य इति । पूर्ववद् ह्रस्वत्वं मुमागमश्च । अथहेत्यादि । भाष्ये अथेह कथमित्यारभ्यश्रिमन्यमितिभवितव्यमिति स्थितम्, स्थापितमित्यर्थः । तेन भिन्नकर्तृकत्वं नाशङ्कनीयम् । ननु च स्त्रीलिङ्गः श्रीशब्दस्तत्कथं श्रिमन्यमिति रुपमित्याशङ्क्योपपादयति - तच्चेदमिति । अर्थान्तरे हि वर्तमानाः शब्दाः केचित्स्वलिङ्गत्यागेन वर्तन्ते, यथा - यष्ट।लदयः शब्दाः पुंयोगात्स्त्रियां वर्तमानाः यष्टी, प्रचरी, गणिकेति । केचितु स्वलिङ्गोपादानेन यष्टीः पुरुषान् प्रवेशयेति । तत्रेह प्रथमा विधा भाष्यकारस्याभिप्रेता, तेन स्वमोर्नपुंसकात् इत्यमोलुकि कृते श्रिमन्यमिति भवति । यद्येवम्, सुपो धातुप्रातिपदिकयोः इत्यस्यापि लुकोऽतिदेशः प्राप्नोति, तस्याप्यमि दृष्टत्वात्, अथाम्विधानसामर्थ्यदस्य लुको नातिदेशः, खमोर्नपुंसकात् तित्यस्यापि न स्यात् उच्यते, येन नाप्राप्ते इति वा, मध्येऽपवादाः इति वा सुपो धातुप्रतिपदिकयोः इत्यस्यैव लुको विधानसामर्थ्याद्वाधः न स्वमोर्नपुंसकात् इत्यस्य । एवमप्येकपदाश्रयत्वाल्लुगन्तरङ्गो विपर्ययादागमो बहिरङ्ग तैत्यन्तरङ्गे लुकि कर्तव्ये बहिरङ्गोऽमागमो नास्त्येव, तत्कुतो लुक् नात्र बहिरङ्गपरिभाषा शख्याऽऽश्रयितुम् । अनुस्वारोऽपि हि न स्याद् - अरुन्तुदः, द्विषन्तप इति । तस्मादत्र लुकि सति श्रिमन्यमिति भवति, येषां त्वमो मकार इत्संज्ञकः प्रयोगे तु मुमः श्रवणम्, तेषामकारमात्रस्य लुकि सति मुमः शेवणप्रसङ्गः ॥ Nyaas ----- अत्र यदि `प्रत्ययवच्च` इत्येतावदुच्येत, तदा गाम्मन्य इत्यत्र **औतोऽम्शसोः** (6.1.93) इत्यात्त्वं न सात्, इह च स्त्रीम्मन्य इति -अत्रापि **अमि पूर्वः** (6.1.107) इति पूर्वसवर्णः, इह च नरम्मन्य इति नृशब्दस्य **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इति गुणः। सामान्यातिदेशे विशेषस्यानतिदेशाद्वचनं त्वियङुवङर्थमेव केवलं स्यात्, इयङुवङावजादौ प्रत्ययमात्रसामान्येन विधीयमानौ सामान्यातिदेशेऽपि भवत इति कृत्वा। `अम्प्रत्ययवच्च` इत्येवमुच्यमाने सत्यात्त्वादयो भवन्ति, तेषामप्यम्प्रत्यय इष्टत्वात्। एतत्? सर्वं बुद्धौ कृत्वाह -`अम्प्रत्ययवच्च` इति। एतदेव विवृणोति -`द्वितीयैकवचनवच्च` इति। कथधं पुनरयमर्थो लभ्यते, यावतैकमम्ग्रहणम्, तेन चाभागमो निरदिश्यते, प्रत्ययवच्चेत्येतदनिष्टं स्यात्। अथ प्रत्ययस्तेन विशिष्यत आगमो न निर्दिष्टः स्यादित्यत आह - `अमिति हि` इत्यादि। एकमपयम्ग्रहणमारभ्यमाणं यस्मादुभयमेतत्? सम्पादयति तस्मादयमर्थो लभ्यत इत्यभिप्रायः। `श्रियम्मन्यः; भ्रूवम्मन्यः` इति। `अचिं श्नुधातु` (6.4.77) इत्यादिने यङ्वङौ। `लेखाभ्रुम्मन्यः` इति। पूर्वसूत्रेण मुमागमः। `अथेह` इत्यादि। श्रियमात्मानं ब्राआहृणकुलं मन्यत इत्युपक्रम्य=प्रस्तुत्य खश्प्रत्यये विहिते कथं भवितव्यम् -किं श्रियम्मन्यमति भवितव्यम्, उत श्रिमन्यमिति? कथं पुनरेततपक्षद्वयं सम्भाव्यते, यत एवं पृच्छति? शब्दानां द्विधा प्रवृत्तिदर्शनात्। तथा हि -केषाञ्चित्? स्वलिङ्गापरित्यागेणाप्यर्थान्तरे प्रवृत्तिर्दृष्टा, यथा भूतशब्दस्य -भूतमिथं ब्राआहृणीति; केषाञ्चित्? स्वलिङ्गपितयागेनाऽपि सा दृष्टा, यथा प्रष्ठशब्दस्य -प्रष्ठीति। तत्र श्रीशब्दो ब्राआहृणकुले वर्तमानो यद स्वलिङ्गं न परत्यजति, तदा श्रियम्मन्यमिति भवितव्यम्; अथ स्वलिङ्गं परित्यजय नपुंसकलिङ्गं गृह्णाति तदा `स्वमोर्नपुंसकात्` (7.1.23) इत्यमो लुकि कृते `ह्रस्वो नपुंसके प्रातिपदिकस्य` (1.2.47) इति ह्रस्वत्वे च श्रिमन्यमिति भवितव्यमिति -एवमिमौ द्वावपि पक्षौ सम्भाव्येते। अत उभयपक्षसम्भवे न ज्ञायते -कथं भवितव्यम्? अतस्तत्परिज्ञानार्थं प्रश्नः। `श्रिमन्यमिति भवितव्यमिति भाष्ये व्यवस्थापितम्` [`स्थितम्` -काशिका] इति। ननु च श्रीशब्दोऽयं स्त्रीलिङ्गोऽर्थान्तरेऽपि वर्तमानः स्वलिङ्गमजहदेव वर्तते, तथा च प्रयोगोऽपि दृश्यते -शिरो म#ए श्रीः, यशो मे श्रीरिति; तत्? कथं श्रिमन्यमिति भाष्ये व्यवस्थापितम्? इत्याह -`तत्र` इत्यादि। यथा प्रष्ठादयः शब्दाः पुंयोगात्? स्त्रियां वर्तमानाः परत्यकतस्वलिङ्गा एव वर्तन्ते -प्रष्ठी, प्रवरी, गणकीति; तथा श्रीशब्दोऽप्यत्र कुलविषये वर्तमान इति भाष्यकारस्य मतम्। अतसतन्मतेन `स्वमोर्नपुंसकात्` (7.1.23) इत्यमो लुकि कृते -श्रिमन्यमिति। ननु च नाप्राप्ते लुक्ययमारभ्यते, यथैव **सुपो धातुप्रातिपदिकयोः** (2.4.71) इतीमं लुकं बाधते, तथा `स्वमोर्नपुंसकात्` (7.1.23) इतीममपि लुकं बाधेत? अपि च लुगेकपदाश्रयत्वादन्तरङ्गो विपर्ययाच्चामागमो बहिरङ्गः, ततः `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यन्तरङ्गे लुकि कर्तव्ये बहिरङ्गोऽमागमो नास्त्येव, तत् कुतोऽत्र लुक्? नैष दोषः; `मध्येऽपवादाः पूर्वान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।प।10) इति। एवमयममागमः **सुपो धातुप्रातिपदिकयोः** (2.4.71) इतीमं लुकं बाधिष्यते, न `खमोर्नपुंसकात्` (7.1.23) इतीमम्। बहिरङ्गपरिभाषाप्यत्राशक्याऽऽश्रयितुम्, इह हि दोषः स्यात् -अरुन्तुद इति। तदाश्रयणे तु संयोगान्तलोपो न स्यात्। संयोगान्तलोपे चान्तरङ्गे कर्तव्ये बहिरङ्गस्य मुमागमस्यासिद्धत्वेन संयोगान्ततानुपपत्तेः। तस्मात्? प्राप्तनिमित्ता सतीयमिह नाश्रीयते। दोषा एव हि तस्या एवमादयः॥ Prakriyasarvasvam ----------------- अमिति द्विरावर्त्यः । इजन्तस्यैकाचः । खिदन्ते परपदेऽम् स्यात् । स चाम्प्रत्ययवत् स्यात् । द्वितीयैकवचनस्यामः कार्याण्यत्र स्युरित्यर्थः । द्योशब्दे,