63065: इष्टकेषीकामालानां चिततूलभारिषु ===================================== **Padacheda:** इष्टका-इषिका-मालानाम् | S | 6 | 3 | चिततूलभारिषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- For the long vowel a short is substituted in इष्टका before चित in इषीका before तूल and in माला before भारिन्। Vasu English Translation ------------------------ For the long vowel a short is substituted in इष्टका before चित in इषीका before तूल and in माला before भारिन्। Thus इष्टकचितम्, इषीकतूलम् and मालभारिणी कन्या ॥ The rule of *tadanta* applies to इष्टका &c, so that the compounds ending in इष्टका &c are also governed by this rule : as पक्वेष्टकचितम्, मुञ्जेषीकतूलम्, उत्पलमालभारिणी कन्या ॥ Kashika ------- इष्टकेषीकामालानां चित तूल भारिन् इत्येतेषूत्तरपदेषु यथासंख्यं ह्रस्वो भवति। इष्टकचितम्। इषीकतूलम्। मालभारिणी कन्या। इष्टकादिभ्यस्तदन्तस्यापि ग्रहणं भवति। पक्वेष्टकचितम्। मुञ्जेषीकतूलम्। उत्पलमालभारिणी कन्या॥ Siddhanta Kaumudi ----------------- इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥ Balamanorama ------------ **इष्टकेषीकामालानां चिततूलभारिषु** - इष्टकेषीका । उत्तरपदे इत्यधिकृतम् । तल्लब्धं पूर्वपदमिष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यपदेशिवद्भावात्तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात्पदाङ्गधिकारे तस्य तदन्तस्य चे॑ति वचनेन वा तेषां ग्रहणम् । 'इको ह्रस्वः' इत्यतो ह्रस्व इत्यनुवर्तते । तदाह — इष्टकादीनां तदन्तानां चेति । इष्टकचितमिति । इष्टकादिभिश्चितमिति विग्रहः ।कर्तृकरणे कृते॑ति समासः । तदन्तविधेः प्रयोजनमाह — पक्वेष्टकचितमिति । इषीकातूलमिति । इषीकायास्तूलमिति विग्रहः । तूलमग्रं । शष्पमित्यन्ये । मुञ्जेषीततूलमिति । मुञ्जेषीकायास्तूलमिति विग्रहः । मालभारीति । 'सुप्यजातौ' इति णिनिः । [सूत्रे]हारिष्विति पाठान्तरम् । Tattvabodhini ------------- **इष्टकेषीकामालानां चिततूलभारिषु** - इष्टकचितमिति ।कर्तृकरणे कृते॑ति तृतीयासमासः । पक्वेष्टकचितमिति । पदाधिकारात्तदन्तविधिः प्रवर्तत इति भावः । मालभारीति ।मालां बिभर्ती॑त्यर्थः ।सुप्यजातौ॑ इति णिनिः ।हारिषु॑इति पाठान्तरम् । Padamanjari ----------- इष्टकचितमिति । कर्तृकरणे कृता बहुलम् इति समासः । इषीकतूलमिति । षष्ठीसमासः । मालाम्बिभर्तीते मालभारिणी, सुप्यजातौ इति णिनिः । प्रायेण तु हरतिमधीयते, प्रयोगस्तु बिभर्तेः, गाल्लिका मालभारिण्य इति । इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवतीति । यथा तु भवति, तथा अलुक्प्रकरण एवोक्तम् ॥ Nyaas ----- `इष्टकचितम्` इति। `कर्तृकरणे` (2.1.31) इत्यादिना समासः। `इषीकतूलम्` इति। षष्ठीसमासः। `मालभारिणी` इति। मालां भर्त्तुं शीलमस्या इति ताच्छील्ये णिनिः (3.2.78) , **उपपदमतिङ्** (2.2.19) इति समासः। `इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवति` इति। बहुलग्रहणानुवृत्तेरित्यभिप्रायः॥ Prakriyasarvasvam ----------------- क्रमाद्ध्रस्वः स्यात् । इष्टकचितम् । इषीकतूलम् । तूलमग्रम् । मालभारी । 'हारिष्वि'ति पाठमाह माधवः । मालहारी । तदन्तस्यापीष्टम् । पक्वेष्टकचितम् । वनमालभारी ॥