63062: एक तद्धिते च =================== **Padacheda:** एक | S | | | 6 तद्धिते | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The short is substituted for the long एका before a तद्धित affix and when a second member follows. Vasu English Translation ------------------------ The short is substituted for the long एका before a तद्धित affix and when a second member follows. As एकस्या आगतं = एकरूप्यम्, एकमयम्, एकस्या भावः = एकत्वम्, एकता ॥ So also एकस्याः क्षीरं = एकक्षीरम्, एकदुग्धम् ॥ The shortening takes place of the Feminine word एका, having the affix आ ॥ When एक is an adjective (गुणवचन) then the above forms could be evolved by the help of the rules of masculation, such as (6.3.35), i.e. when एक means the numeral one. But when it means 'alone', then those rules will not apply. The word एक is exhibited in the *sutra* without any case-affix as a *Chhandas* irregularity. The examples given are of एका in the feminine which alone can be shortened, and not of एक whose final is already short. Nor can the rule of shortening be applied to ए of एक, for the rule applies to the final letter, and not to a vowel situeated in the body of a word. Bhashya ------- एकतद्धिते च (2921) (एकतद्धितेपदप्रयोजनभाष्यम्) एकतद्धिते किमुदाहरणम् ? एकत्वम्, एकता - इति । नैतदस्ति प्रयोजनम् । पुंवद्भावेनाप्येतत् सिद्धम् । कथम् ? तसिलादिष्वाकृत्वसुचः (6.3.35) इति ॥ इदं तर्हि प्रयोजनम् - एकस्या आगतं - एकरूप्यम्, एकमयम् । इदं चाप्युदाहरणम् - एकत्वम्, एकता । ननु चोक्तं पुंवद्भावेनाप्येतत्सिद्धमिति । न सिद्ध्यति । उक्तमेतत् - त्वतलोर्गुणवचनस्य इति ॥ (उत्तरपदे पदप्रयोजनभाष्यम्) अथोत्तरपदे किमुदाहरणम् ? एकशाटी । नैतदस्ति । पुंवद्भावेनाप्येतत्सिद्धम् । कथं पुंवद्भावः ? समानाधिकरणलक्षणः पुंवद्भावः । इदं तर्हि - एकस्याः क्षीरं - एकक्षीरम् । इदं चाप्युदाहरणम् - एकशाटी । ननु चोक्तं पुंवद्भावेनाप्येतत्सिद्धमिति । न सिद्ध्यति । न कोपधायाः (6.3.37) इति प्रतिषेधः प्राप्नोति । नैषोऽस्ति प्रतिषेधः । उक्तमेतत् कोपधप्रतिषेधे तद्धितवुग्रहणम् इति ॥ Kashika ------- एकशब्दस्य तद्धित उत्तरपदे च ह्रस्वो भवति। एकस्या आगतम् एकरूप्यम्। एकमयम्। एकस्या भाव एकत्वम्। एकता। उत्तरपदे — एकस्याः क्षीरम् एकक्षीरम्। एकदुग्धम्। लिङ्गिविशिष्टस्य ग्रहणमेकशब्दह्रस्वत्वं प्रयोजयति। अचा हि गृह्यमाणमत्र विशेष्यते, न पुनरज् गृह्यमाणेनेति॥ Siddhanta Kaumudi ----------------- एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ॥ Balamanorama ------------ **एक तद्धिते च** - एक तद्धिते च । एकेति लुप्तषष्ठीकम् । तदाह — एकशब्दस्येति ।स्त्रीप्रत्ययान्तस्ये॑ति शेषः, अन्यथा ह्रस्वविधिवैयथ्र्यात् । उत्तरपदे चेति । चकारात्तदनुकर्ष इति भावः । एकरूप्यमिति ।हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॑ । एकक्षीरमिति । एकश्याः क्षीरमिति विग्रहः । Tattvabodhini ------------- **एक तद्धिते च** - एक तद्धिते च ।एके॑ति लुप्तषष्ठीकं, तदाह -एकशब्दस्योति । ह्रस्वविधानमस्य टाबन्ते एवोपयुज्यते न तु केवले, स्वभावत एव ह्रस्व त्वादतो व्याचष्टे -एकस्या आगतमित्यादि । Padamanjari ----------- एक इत्यविभक्तिको निर्देशः, समानाधिकरणे हि स्त्रियाः पुंवद्भावेनैव सिद्धत्वात् । व्यधिकरणार्थमिदम् । एकत्वमिति । असहायादिवचनोऽयमेकशब्दः । संख्यावचनस्य तु त्वतलोर्गुणवचनस्य इति पुंवद्भावेनैव सिद्धम् । किं पुनः कारणं स्त्रीलिङ्ग एवोदाह्रियते, न पुनर्यथाश्रुतः पुंल्लिङ्गो नपुंसकलिङ्गो वेति तत्राह - लिङ्गविशिष्टस्यति । स्त्रीलिङ्गस्यैव ह्रस्वविधानमर्थवद् भवति, नेतरस्य, तस्य स्वत एव ह्रस्वान्तत्वात् । ननु चारस्तु स्वत एवान्तो ह्रस्वः, यस्तवसावादिरेकारः, तदर्थमितरस्यापि ग्रहणमर्थवत् अत आह - अचेति । स्यादेतदेवम्, यदि गृह्यमाणेनैकशब्देन अचश्च इत्युपस्थापितोऽज्विशेष्येत - एकशब्दस्य योऽच् यत्र कुत्र स्थित इति, इह तूपस्थापितेनाचा गृह्यमाण एकशब्दो विशेष्यते एकस्य ह्रस्वो भवति । किंविशिष्टस्य अचः अजन्तस्येति । तत्र अलोन्त्यस्य इत्यन्त्यस्य ह्रस्वेन भाव्यम्, तच्च टाबन्तस्यैवार्थवत्, नेतरस्य । इतिकरणो एहेतौ ॥ Nyaas ----- `एकरूप्यम्` इति। `हेतुमनुष्यभ्योऽन्यतरस्यां रूप्यः` (4.3.81) इति रूप्यः। `एकमयम्` इति। `मयट्? च` (4.3.82) इति, मयट्। `एकत्वम्, एकता` इति। **तस्य भावस्त्वतलौ** (5.1.119) इति त्वतलौ। यदैकशब्दः संख्यापरो भवति तदैतदुदाहरणम्। यदा संख्येयपरो भवति। तदा `त्वलोर्गुणवचनस्य` (वा।730) इति पुंवद्भावेनैव सिद्धम्। ननु च गुणमुक्तवान्? गुणवचनः, यश्च गुणमात्रमभिधाय तद्विशिष्टं द्रव्यमाह स गुणवचनो भवति। तद्यथा -कृष्णः पटः, शुक्लः पट इति; अयं पुनरेकशब्दो न क्वचिदपि द्रव्यव्यतिरिक्तं गुणमाह, सर्वदा संख्येये द्रव्ये वर्तत इति कृत्वा, तत्? कुतोऽसय पुंवद्भावः? अयुक्तमिदमभिधीयते; तथा हि -प्रसिद्धमामाश्रित्यैकादयः संख्येयवचना इत्युच्यन्ते, न त्वेषां संख्याने वृत्तिर्नाभ्युपेयेति। तथा हि -**द्व्येकयोर्द्विवचनैकवचने** (1.4.22) इत्यत्र त्वेकशब्दः संख्यायामेव प्रयुक्तो न संख्येये द्रव्ये। `लिङ्गविशिष्टस्य` इत्यादि। पुंल्लिङ्गो य एकशब्दः स स्वभावत एव ह्रस्वान्त इति न तद्ग्रहणं प्रयोजयति, अपि तु स्त्रीलिंगविशिष्टस्यैव। तस्यैव हि ह्रस्वत्वं विधीयमानमर्थवद्भवति। ननु नैतस्याप्येकशब्दस्य य एकारस्तस्य ह्रस्वत्वं विधीयमानमर्थवद्भवति, तत्? किमुच्यते लिङ्गविशिष्टस्यैकशब्दस्य ग्रहणं प्रयोजयति? इत्याह -`अचा गृह्रमाणम्` इत्यादि। विशेषणविशेष्यभावं प्रति कामचारः। तथा ह्रुक्तम् -विशेषणविशेष्यभावयोर्यथेष्टत्वादिति। तत्र यदि गृह्रमाणेनैकशब्देनाज्विशिष्यते -एकशब्दस्य योऽजिति, तदैकसम्बन्धिन एकारस्य हरस्वत्वं विधीयमानमर्थवद्भवति। पुंल्लिङ्गस्याप्येकशब्दस्य ग्रहणं प्रयोजति। न चात्र गृह्रमाणेनाज्विशिष्यते; एकारस्य ह्यसवस्यानिष्टत्वात्। न ह्रनिष्टार्था शास्त्रे प्रकॢप्तिर्युक्ता (भो।प।सू।107), तस्मादाचा गृह्रमाण एकशब्दोऽत्र विशिष्यते। तेन लिङ्गविशिष्टस्य ग्रहणम्। एकशब्दस्य ह्रस्वो भवति, किं विशिष्टस्चाचः? अजन्तस्येत्यर्थः। तत्रालोऽन्त्यस्यैव ह्रस्वत्वेन भवितव्यम्, तच्च टाबन्तस्यैव सार्थकम्, न पुंल्लिङ्गस्य; न हि ह्रस्वस्यैव ह्रस्वे विधीयमाने कश्चिदर्थः सिध्यति। इतिकरणो हेतौ। यत एव#आचा गृह्रमाण एकशब्दोऽत्र विशिष्यते, तेन लिङ्गविशिष्टस्य ग्रहणमेकशब्दस्य प्रयोजयति॥ Prakriyasarvasvam ----------------- तद्धित उत्तरपदे च परे एकस्यान्तह्रस्वः स्यात् । एकस्य भाव एकत्वम् । एकक्षीरम् ॥