63055: ऋचः शे ============= **Padacheda:** ऋचः | S | 6 | 1 | शे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- पद् is substituted for पाद before the affix शस् when the meaning is that of a ऋक् (Hymn). Vasu English Translation ------------------------ पद् is substituted for पाद before the affix शस् when the meaning is that of a ऋक् (Hymn). Thus पच्छो गायत्रीं शंसति = पादं पादं शंसति, the affix शस् being added by (5.4.43). Why do we say 'when meaning a Hymn'? Observe पादशः कार्षापणं ददाति ॥ Kashika ------- ऋक्संबन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति। पच्छो गायत्रीं शंसति। पादंपादं शंसतीति **संख्यैकवचनाच्च वीप्सायाम्** (५.४.४३) इति शस्प्रत्ययः। ऋच इति किम्? पादशःकार्षापणं ददातीति॥ Siddhanta Kaumudi ----------------- ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति ॥ Balamanorama ------------ **ऋचः शे** - ऋचः शे । शस्य शस्प्रत्ययैकदेशस्यानुकरणात्सप्तमीत्यभिप्रेत्योदारति — पच्छ इति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति पादशब्दाच्छस् । तद्दितश्चासर्वविभक्ति॑रित्यव्ययत्वम्, नत्विह लोमादिशस्य ग्रहणं, लोमादौ पादशब्दस्य पाठाऽभावात् । पादशः कार्षापणं ददातीति । कार्षापणाख्यापरिमाणविशेषं सुवरह्णादिकं पादं पदां ददातीत्यर्थः । Tattvabodhini ------------- **ऋचः शे** - ऋचः शे ।शे॑ इति शस्प्रत्ययस्येदमनुकरणम्, लोमादिषु पादशब्दस् । पाठाऽभावान्मत्वर्थे शो न संभवतीति भावः । Padamanjari ----------- शे इति शस्प्रत्ययस्येदमेकदेशानुकरणम्, अन्यस्य शशब्दस्या सम्भवात् । ननु च सम्भवत्ययम्, पादे शेते अधिकरणे शेतेः इत्यच् पादश इति । नास्त्यस्य सम्भवः, न हि ऋक्पादे कश्चिच्छेते । यच्च लोमादिभ्यः एशः, तस्याप्यसम्भव तएव लोमादिषु पादशब्दस्याभावात् ॥ Nyaas ----- `शे` इति तद्धितस्य शस्प्रत्ययस्यावयवभूतो यः शशब्दस्तस्येह ग्रहणम्; ऋक्पादात्? परसयासम्भवात्। ननु च पादे शेते इति `अधिकारणे शेतेः` (3.2.15) इत्यचि कृते पादश इतयत्र शीङ्सम्बन्धी शशब्दः सम्भवति? नैतदस्ति; न हि ऋक्पाद उपपदे शेतेर्धातोरचा भवितव्यम्; तत्र तु शयनग्सम्भवत्, अनभिधानाद्वा। योऽपि **लोमादिपामादिपिच्छादिभ्यः शनेलचः** (5.2.100) इति शो विधीयते, सोऽपि नैव ऋक्पादत्? परः सम्भवति; तत्रानभिधानात्। लोमादिषु तस्यापाठाच्च॥ Prakriyasarvasvam ----------------- ऋक्सम्बन्धिपादस्य शसि परे पद्भावः स्यात् । पादं पादं शंसति पच्छः शंसति । अन्येषामपि प्रकरणादिनैकत्वसिद्धौ स्यात् । कुण्डलशो दत्त्वा गतः । 'अत्यन्तस्वार्थेऽपि शस् वाच्यः' । प्रायशः, सर्वशः, एकैकशः ॥