63048: त्रेस्त्रयः ================== **Padacheda:** त्रेः | S | 6 | 1 | त्रयः | S | 1 | 1 | Sutrartha --------- **त्रि-शब्दस्य सङ्ख्याशब्दे परे त्रयस्-आदेशः भवति । परन्तु 'अशीतिः' शब्दस्य विषये, तथा च बहुव्रीहिसमासे अयमादेशः न भवति ।** यस्मिन् समासे उत्तरपदम् सङ्ख्यावाची शब्दः अस्ति, तस्मिन् समासे पूर्वपदस्थस्य त्रिशब्दस्य 'त्रयस्' आदेशः भवति । परन्तु, यदि उत्तरपदम् 'अशीति' इति अस्ति तर्हि एतादृशः आदेशः न भवति । तथा च यदि अयं समासः बहुव्रीहिसमासः अस्ति तर्हि अपि एतादृशः आदेशः न भवति । यथा, त्रयोदशन् इत्यस्य निर्माणे त्रि + दशन् इत्यत्र **त्रेस्त्रयः** (6.3.48) अनेन सूत्रेण त्रि-शब्दस्य 'त्रयस्' आदेशः भवति । प्रक्रिया इयम् - त्रि + दशन् → त्रयस् + दशन् [**त्रेस्त्रयः** (6.3.48) इति 'त्रयस्' आदेशः] → त्रयरुँ + दशन् [**ससजुषोः रुँः** (8.2.66) इति रूत्वम् । ] → त्रयउ दशन् [**हशि च** (6.1.114) इति उत्वम् । ] → त्रयो दशन् [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] अशीति-शब्दस्य उपस्थितौ अयमादेशः न विधीयते । यथा - त्रि + अशीतिः = त्र्यशीतिः । बहुव्रीहिसमासस्य विषयेऽपि अयमादेशः न भवति । यथा - त्रयः दश यस्य सः = त्रिदश । वार्त्तिकम् - । इत्युक्ते, अयमाकारादेशः शतम् (100) इत्यस्मात् पूर्वमेव भवति । अतः त्रिशतम्, त्रिसहस्रम् इत्यत्र 'त्रयस्' इत्यादेशः न भवति । Sutrartha (English) ------------------- The words त्रि gets an आकारादेश in presence of a सङ्ख्याशब्द, provided that there is no बहुव्रीहि समास and the word अशीति is not present. Vasu English Summary -------------------- For त्रि is substituted त्रयस् when another numeral follows but not in a बहुव्रीहि समास or before आशीतिः। Vasu English Translation ------------------------ For त्रि is substituted त्रयस् when another numeral follows but not in a बहुव्रीहि समास or before आशीतिः। As, त्रयोदश, त्रयोविंशतिः, त्रयस्त्रिंशत् ॥ But not in त्रैमातुरः (the second word not being a Numeral), nor in त्रिदशाः which is a *Bahuvrihi*, (2.2.25) त्र्यशीति ॥ This substitution takes place upto hundred : not here, त्रिशतम्, त्रिसहस्रम् ॥ Kashika ------- त्रि इत्येतस्य त्रयसित्ययमादेशो भवति संख्यायामबहुव्रीह्यशीत्योः। त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्। संख्यायामित्येव — त्रैमातुरः। अबहुव्रीह्यशीत्योरित्येव — त्रिदशाः। त्र्यशीतिः। प्राक् शतादित्येव — त्रिशतम्। त्रिसहस्रम्॥ Siddhanta Kaumudi ----------------- त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्त्रम् ॥ Laghu Siddhanta Kaumudi ----------------------- त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्॥ Tattvabodhini ------------- त्रेस्त्रयः। सन्धिवेलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेशः इति ध्वनयन्नाह - त्रयस्स्यादिति। सुजर्थे बहुव्रीहिरिति। `संङ्ख्यायाव्यये`त्यादिने ति शेषः। Padamanjari ----------- सन्धिवेलादिषु त्रयोदशशब्दस्य पाठात्सकारन्तोऽयमादेशः ॥