63046: आन्महतः समानाधिकरणजातीययोः ================================= **Padacheda:** आत् | S | 1 | 1 | महतः | S | 6 | 1 | समानाधिकरण-जातीययोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- For the final महत् of is substituted आत् (आ) before a word which is in apposition with it and before जातीय। Vasu English Translation ------------------------ For the final महत् of is substituted आत् (आ) before a word which is in apposition with it and before जातीय। As महादेवः, महाब्राह्मणः, महाबाहुः, महाबलः, महाजातीयः ॥ But महतः पुत्रः = महत्पुत्रः "the son of the great man": the two words are not in apposition. The compounding with महत् takes place under (2.1.61). This rule applies to compounds under that rule, as well as to *Bahuvrihis*, when also the two words are in apposition, as in महाबाहुः ॥ In fact this is the object of using the word *samanadhikarana* in this *sutra*. Had it not been used, then by the maxim of *pratipadokta*, the rule would have applied only to the *Tatpurusha* compounds of *mahat* taught under (2.1.61) but not to *Bahuvrihis*. In महद्भूतश्चन्द्रमा = अमहान् महान् संपन्नः, the long आ is not substituted, as the sense of महत् is here secondary. Vart:- आ is substituted for the final of महत् before घास, कर and विशिष्ट, the feminine महती being changed to masculine, though the words may not be in apposition. As महत्या घासः = महाघासः, महत्याः करः = महाकरः, महत्याविशिष्टः = महाविशिष्टः ॥ Vart:- आ is substituted for the final of अष्टन् before कपाल, when a sacrificial offering is meant. As अष्टाकपालं चरुं निर्वपेत ॥ Why do we say when meaning a sacrificial offering? Observe अष्टकपालं ब्राह्मणस्य ॥ Vart:- आ is substituted for the final of अष्टन् before गौ, when the meaning is that of 'yoked'. As, अष्टागवेन शकटेन ॥ But अष्टगवं ब्राह्मणस्य, where 'yoking' is not meant. The त् in आत् is for the sake of distinctness. Bhashya ------- आन्महतः समानाधिकरणजातीययोः (2905) (आत्वाधिकरणम्) (महद्विषयाक्षेपभाष्यम्) इह कस्मान्न भवति - अमहान् महान् संपन्नो महद्भूतश्चन्द्रमा इति ॥ (महद्भूते आत्वाभावसाधकं श्लोकवार्तिकम्) अन्यप्रकृतिरमहान् भूतप्रकृतौ महान् महत्येव । अन्यः - महान् । अन्यः - अमहान् भूतप्रकृतौ वर्तते । महान् - महत्येव ॥ (आत्वाभावसाधकं श्लोकवार्तिकम्) तस्मादात्वं न स्यात् तस्मादात्वं न भविष्यति ॥ (पुंवद्भावाक्षेपभाष्यम्) पुंवत्तु कथं भवेदत्र ॥ 1 ॥ पुंवद्भावोऽपि तर्हि न प्राप्नोति । अमहती महती संपन्ना महद्भूता ब्राह्मणी ॥ एवं तर्हि - (आक्षेपबाधकं श्लोकवार्तिकम्) अमहति महान् हि वृत्तस्तद्वाची चात्र भूतशब्दोऽयम् । अमहति हि महच्छब्दो वर्तते, तद्वाची भूतशब्दोऽयं प्रयुज्यते । किं वाची ? महद्वाची ॥ जहद्धर्मान्तरं पूर्वमुपादत्ते यदा परम् । तत्वादप्रच्युतो धर्मी परिणामः स उच्यते ॥ इति । पूर्वावस्थामविजहत्संस्पृशन् धर्ममुत्तरम् । संमूर्छित इवार्थात्मा जायमानोऽभिधीयते ॥ इति । (पुंवद्भावसाधकं श्लोकवार्तिकम्) तस्मात् सिध्यति पुंवत् तस्मात् सिध्यति पुंवद्भावः ॥ (वार्तिकावतरणभाष्यम्) यद्येवमात्वमपि प्राप्नोति - महद्भूतश्चन्द्रमा इति ॥ (आक्षेपसाधकं श्लोकभाष्यम्) निर्वत्यमात्वन्तु मन्यन्ते ॥ 2 ॥ आत्वमपि प्राप्नोति ॥ नैष दोषः । कथम् ? (आत्वबाधकं श्लोकभाष्यम्) यस्तु महतः प्रतिपदं समास उक्तस्तदाश्रयं ह्यात्वम् । कर्तव्यं मन्यन्ते न लक्षणेन लक्षणोक्तश्चायम् ॥ 3 ॥ एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति प्रतिपदं यः समासो विहितस्तस्य ग्रहणम्, लक्षणोक्तश्चायम् । (प्रत्याक्षेपभाष्यम्) इहापि तर्हि न प्राप्नोति - महान् बाहुरस्य - महाबाहुरिति ॥ (प्रत्याक्षेपसमाधानभाष्यम्) शेषवचनात्तु योऽसौ प्रत्यारम्भात्कृतो बहुव्रीहिः । तस्मात्सिद्ध्यति तस्मिन् यस्मात् शेषो बहुव्रीहिः (2.2.3) इति सिद्धे अनेकमन्यपदार्थे (24) इत्याह, तेन प्रतिपदोक्तं तत्र भवति ॥ (प्रकारान्तरणे समाधानश्लोकभाष्यम्) प्रधानतो वा यतो वृत्तिः ॥ 4 ॥ अथवा गौणमुख्ययोर्मुख्ये संप्रत्ययः । तद्यथा - गौरनूबन्ध्योऽजोऽग्नीषोमीय इति न वाहीकोऽनुबध्यते ? कथं तर्हि वाहीके वृद्ध्यात्वे भवतः - गौस्तिष्ठति, गामानयेति । अर्थाश्रय एवदेवं भवति, यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ॥ (6449 उपसंख्यानवार्तिकम् ॥ 1 ॥) - महदात्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्वचनं चासमानाधिकरणार्थम् - महदात्वे घासकरविशिष्टेषूपसंख्यानं कर्तव्यम्, पुंवद्भावश्चासमानाधिकरणार्थो द्रष्टव्यः । महत्या घासः -महाघासः । महत्याः करः - महाकरः । महत्या विशिष्टः - महाविशिष्टः ॥ (6450 उपसंख्यानवार्तिकम् ॥ 2 ॥) - अष्टनः कपाले हविषि - अष्टनः कपाले हविषि उपसंख्यानं कर्तव्यम् । अष्टाकपालः । हविषीति किमर्थम् ? अष्टकपालं ब्राह्मणस्य ॥ (6451 उपसंख्यानवार्तिकम् ॥ 3 ॥) - गवि च युक्ते - गवि च युक्त उपसंख्यानं कर्तव्यम् । अष्टागवेन शकटेन । युक्त इति किमर्थम् ? अष्टगवं ब्राह्मणस्य ॥ (श्लोकसंग्रहः) अन्यप्रकृतिरमहान् भूतप्रकृतौ महान् महत्येव ॥ तस्मादात्वं न स्यात्पुंवत्तु कथं भवेत्तत्र ॥ 1 ॥ अमहति महान् हि वृत्तस्तद्वाची चात्र भूतशब्दोऽयम् ॥ तस्मात्सिद्ध्यति पुंवन्निर्वत्त्यमात्वं तु मन्यन्ते ॥ 2 ॥ यस्तु महतः प्रतिपदं समास उक्तस्तदाश्रयं ह्यात्वम् ॥ कर्तव्यं मन्यन्ते न लक्षणेन लक्षणोक्तश्चायम् ॥ 3 ॥ शेषवचनात्तु योऽसौ प्रत्यारम्भात्कृतो बहुव्रीहिः ॥ तस्मात् सिध्यति तस्मिन् प्रधानतो वा यतो वृत्तिः ॥ 4 ॥ Kashika ------- समानाधिकरण उत्तरपदे जातीये च प्रत्यये परतो महत आकारादेशो भवति। महादेवः। महाब्राह्मणः। महाबाहुः। महाबलः। जातीये — महाजातीयः। समानाधिकरणजातीययोरिति किम्? महतः पुत्रो महत्पुत्रः। लक्षणोक्तत्वात् एवात्र न भविष्यतीति चेद्, बहुव्रीहावपि न स्याद् महाबाहुरिति। तदर्थं समानाधिकरणग्रहणं वक्त व्यम्। अमहान् महान् संपन्नो महद्भूतश्चन्द्रमा इत्यत्र गौणत्वाद् महदर्थस्य न भवत्यात्वम्॥ महादात्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्ववचनं चासमानाधिकरणार्थम्॥ महत्या घासो महाघासः। महत्याः करो महाकरः। महत्या विशिष्टो महाविशिष्टः॥ अष्टनः कपाले हविष्युपसंख्यानम्॥ अष्टाकपालं पुरोडाशं निर्वपेत्॥ हविषीति किम्? अष्टकपालं ब्राह्मणस्य॥ गवि च युक्ते ऽष्टन उपसंख्यानं कर्तव्यम्॥ अष्टागवेन शकटेन। युक्त इति किम्? अष्टगवं ब्राह्मणस्य। तपरकरणं विस्पष्टार्थम्॥ Siddhanta Kaumudi ----------------- महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः । महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः सन्महत् (SK740) इति समासोऽत्र ग्रहीष्यते इति चेत्, महाबाहुर्न स्यात् । तस्मात् [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य] इति परिभाषा नेह प्रवर्तते । समानाधिकरणग्रहणसामर्थ्यात् । आदिति योगविभागादात्वम् । प्रागेकादशभ्यः (SK1995) इति निर्देशाद्वा । एकादश । महतीशब्दस्य पुंवत्कर्मधारय (SK746) इति पुंवद्भावे कृते आत्त्वम् । महाजातीया । (वार्तिकम्) ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः । (वार्तिकम्) ॥ अष्टाकपालः । (वार्तिकम्) ॥ गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्त्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । अच्प्रत्यन्वव (SK943) इत्यत्राजिति योगविभागाद्बहुव्रीहावप्यच् । अष्टानां गवां समाहारः अष्टगवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा ॥ Laghu Siddhanta Kaumudi ----------------------- महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे। महाराजः। प्रकारवचने जातीयर्। महाप्रकारो महाजातीयः॥ Balamanorama ------------ **आन्महतः समानाधिकरणजातीययोः** - अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन्विशेषमाह — आन्महतः । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थमिदं सूत्रम् । 'उत्तरपदे' इत्यनुवृत्तंसमानाधिकरणपदेऽन्वेति, न तु जातीये इति, तस्य प्रत्ययत्वात् । तदाह — महत आत्त्वमित्यादिना । महाब्राहृ इति । महांश्चासौ ब्राहृआ चेति विग्रहः ।सन्मह॑दित्यादिना समासः । आत्त्वम् । सवर्णदीर्घः ।कुमहद्भ्या॑मिति टच् । टिलोपःपरवल्लिङ्ग॑मिति पुंस्त्वम् । महाब्राहृएति । टजभावे आत्वे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन्समानाधिकरणे पुनरुदाहरति — महादेव इति । जातीये उदाहरति — महाजातीय इति । महत्सदृश इत्यर्थः ।प्रकारवचने जातीयर् । आत्त्वं सवर्णदीर्घः । समानाधिकरणे किमिति ।आन्महतो जातीये चे॑त्येवास्तु, चकारादुत्तरपदसमुच्चये सति महतद आत्त्वं स्यादुत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः, किं समानाधिकरणेनेति प्रश्नः । महत्सेवेति । अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थं समानाधिकरणग्रहणमिति भावः । ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्टानुच्चार्य सामान्यशास्त्रत एव निर्बर्तितत्वात् ।सन्मह॑दित्ययं समासस्तु सन्महदादिशब्दं समस्यमान#ं विशिष्योच्चार्या विहितत्वात्प्रतिपदोक्तः । ततश्च लक्षणप्रतिपदोक्तपरिभाषयाआन्महतो जातीये चे॑त्यत्रसन्मह॑दिति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससंभवाद्व्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते — लाक्षणिकमित्यादिना । परिहरति — महाबाहुर्न स्यादिति । महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात्प्रतिपदोक्त्वाऽभावात्तदुत्तरपदे परे आत्त्वं न स्यादतः समानाधिकरणग्रहणमित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेर्दुर्वारत्वान्महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह — तस्मादिति । तच्छब्दार्थमाह — समानाधिकरणग्रहणसामर्थ्यादिति । एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थं समानाधिकरणग्रहणमिति भावः । नच सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्त्वम् । आत्त्वविधेः पदाङ्गाधिकारस्थत्वाऽभावेन तदन्तविध्यभावादिति वाच्यम्, उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात् ।परममहत्वपिरमाणवा॑नित्यत्र तु महतः परिमाणं महत्परिमाणं, परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति द#इक् । ननु 'आन्महतः' इत्यत्र महत एव ग्रहणात् 'द्व्यष्टनः' इत्युत्तरसूत्रे द्व्यष्टनोरेव ग्रहणादेकादशेत्यत्र कथमात्त्वमित्यत आह — योगविभागादात्त्वमिति । योगविभागस्य भाष्याऽदृष्टत्वादाह — निर्देशाद्वेति । एकादशेति । एकश्चदश चेति द्वन्द्वः । एकाधिका दशेति वा । 'आन्महत' इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयप्र्रत्यये परे महताजातीयेति स्यादित्यत आह — महतीशब्दस्येति । नच परत्वात्पुंवत्त्वं बाधित्वा आत्वं स्यादिति वाच्यम्, 'आन्महतः' इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङ्याप्सूत्रे भाष्ये उक्तत्वादिति भावः । महदात्त्वे इति । 'घास' 'कर'विशिष्ट॑-एषु परतो महत आत्त्वं पुंवत्त्वं च वक्तव्यमित्यर्थः । ननु 'आन्महतः' इत्यात्त्वेपुंवत्कर्मधारये॑ति पुंवत्त्वे च सिद्धे किमर्थमिदमित्यत आह — असामानाधिकरण्यार्थमिति । महाकर इति । महतो महत्या वा कर इत्यर्थः । महाविशिष्ट इति । महतो महत्या वा विशिष्टः । अधिक इत्यर्थः । अष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति । अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः । 'सस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । आत्त्वं । सवर्णदीर्घः ।गवि च युक्ते । वार्तिकमिदम् । तत्सूचयितुमाह — वक्तव्यमित्यर्थ इति । अष्टागवं शकटमिति । अष्टौ गावो यस्येति बहुव्रीहिः । आत्त्वं, सवर्णदीर्घः । अष्टभिर्गोभिर्युक्तमित्यर्थः । ननुगोरतद्धितलुकी॑ति टज्विधेस्तत्पुरुषमात्रविषयत्वादष्टागविमिति कथमित्यत आह — अच्प्रत्ययन्ववेत्यत्रेति । तत्पुरुषत्वेऽष्टगवशब्दष्टजन्त एवेत्याह — अष्टानामिति । तथा च समाहारद्विगोस्तत्पुरुषत्वागोरतद्धितलुकी॑ति टच्सुलभ इत्यर्थः । नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाऽभावात्, कतं वा आत्त्वमित्य आह — तद्युक्तत्वादिति । समाहाद्लिगुरूपतत्पुरुषाट्टचि व्युत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य आत्त्वमित्यर्थः । Tattvabodhini ------------- **आन्महतः समानाधिकरणजातीययोः** - आन्महतः । तकार उच्चारणार्थो, न तु सर्वादेशार्त इत्याह -आकारोऽन्तादेशः स्यादिति । इहोत्तरपदाऽधिकारे पूर्वपदमाक्षिप्यते । तच्च महता विशेषितमिति तदन्तविधिर्लभ्यते ।ग्रहणवता॑इति निषेधस्तु प्रत्ययविधिविषय इत्युक्तत्वात् । तेन महाबाहुवदतिमहाबाहुरिति प्रयोगो भवति ।परममहत्परिमाण॑मित्यत्र तु परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषोऽभ्यु पगम्यत इति न तत्राऽऽत्वप्रसक्तिरिति वृद्धाः । यत्तु वद्र्धमानेनोक्तम् -॒इष्टकेषीकामालानामित्यत्र तदन्तविध्युपसङ्ख्यानसमाथ्र्यादुत्तरपदाधिकारे तदन्तविधिर्नास्ति, तेन परममहत आत्वं ने॑ति, तद्भाष्यकैयटविरुद्धम् । तथाहि — ॒येन विधि॑रिति सूत्रे पदाधिकारे प्रयोजनमिष्टकचितं पक्वेष्टकचितमिति भाष्ये उदाहृतं, कैयटेन च पदशब्देन उत्तरपदं गृह्रत इति व्याख्यातम् । एतदेवाऽर्थतः काशिकायामुपनिबद्दं न तु इष्टकेषीके॑त्यत्र कात्यायनोक्तमुपसङ्ख्यानमस्ति । ननु प्रतिपदोक्तसमासे यदुत्तरपदं तस्मिन्नेव परे आत्वं स्यान्नन्यत्रेति किमनेन समानाधैकरणग्रहणेनेत्यत आह — महाबाहुरिति । बहुव्रीहिरयम्, स च सामान्यशास्त्रनिर्वृत्तत्वाल्लाक्षणिक इति भावः । अष्टनः कपाल इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्वं वक्तव्यमित्यर्थः ।अष्टाकपाल इति ।संस्कृतं भक्षाः॑ इत्यणःद्विगोर्लुगनपत्ये॑इति लुक् ।अध्यर्धपूर्वे॑त्यणो लुगिति केषांचिद्व्याख्यानं तु प्रामादिकं,संस्कृत॑मित्यणोऽनाहीयत्वात् । Padamanjari ----------- महतः पुत्रो महत्पुत्र इति । ननु चात्र आन्महतः इत्येतावानेव योगः कर्तव्यः, ततः जातीये चेति द्वितीयः, तत्र पूर्वस्मिन् योगे उतरपदेन समासः सन्निधाप्यते, स च लक्षणप्रतिपदोक्तपरिभाषाया सन्महत् इत्यादिना तयो विहितः स एव ग्रहीष्यते, स च समानापरिभाषया सन्महत् इत्यादिना यो विहितः स एव ग्रहीष्यते, स च समानाधिकरण एवेति अनर्थकं समानाधिकरणग्रहणग्रहणम्, तदेतदाशङ्कते तावत् - लक्षणोक्तत्वादिति । निराकरोति - बहुव्रीहावपीति । तदर्थमिति । बहुव्रीहावपि यथा स्यादित्यवमर्थमित्यर्थः । लक्षणप्रतिपदेक्तपरिभाषाया निवृत्यर्थमिति वा । इह आमहान् महान्सम्पन्नो महद्भूतश्चन्द्रमा इति महच्छब्दो भूतशब्दश्तैकस्मिन्नर्थे चन्दर्मसि वर्तेते इति सामानाधिकरण्यादात्वं प्राप्नोति । स्यादेतत् - अभूततद्भावे च्विर्विधीयते, अभूततद्भावश्च कः कारणस्य विकारत्मनाऽभूतस्य तदात्मना भावः, तत्र प्रकृतिः कर्त्री, न विकृतिः, तथा च - सङ्घीभवन्ति ब्राह्मणाः, पटीभवन्ति तन्तवः, अत्वं त्वं सम्पद्यते त्वद्भवतीति प्रकृत्याश्रयेण बहुवचनप्रथमपुरुषौ दृश्येते, न विकृत्वाश्रयेणैकवचनमध्यमपुरुषौ, ततश्च भूत इति क्तप्रत्ययो भवन् क्रियायाः कर्तर्यमहत्युत्पन्नः, न तु विकारे महति ततः किमामहतो भूतेन सामानाधिकरण्यम्, न तु महतः न ह्यवस्थावत एकत्वेऽप्यवस्थयोः सामानाधिकरण्यं सम्भवति, नहि भवति बालश्चासौ स्थविरश्चेति, भवति तु बालश्चासौ देवदतश्चेति, अतो वैयधिकरण्यादात्वाभाव इति । यद्येवम्, अमहती महती सम्पन्ना ब्राह्मणी महद्भूता ब्राह्मणीति पुंवद्भावोऽपि न स्याद्वैयधिकरण्यादेव यथा प्रकृतेः कर्तृत्वं दृष्ट्ंअ तथा विकृतेरपि दृश्यते । तथा च पस्पशायां भाष्यम् - सुवर्णपिण्डः खदिराङ्गारवर्णे कुण्डले भवतीति । तथा कॢपि सम्पद्यमाने चतुर्थी वक्तव्या इति सम्पद्यकर्तर इविधीयमाना चतुर्थी विकाराद्भवति - मूत्राय कल्पते यवागूरिति, न प्रकृतेः । तथा असङ्घो ब्राह्मणसङ्घो भवति, अपटस्तन्तवः पटो भवतीति विकाराश्रयं वचनं दृश्यते तत्र यदि विकृतेः कर्तृत्वमाश्रित्य सामानाधिकरण्याश्रयः पुंवद्भावो विधीयेत, आत्वमपि स्यात् । अथ प्रकृतेः कर्तृत्वाद्वैयधिकरण्यादात्वं न स्यात्, पुंवद्भावोऽपि न स्यात् उच्यते, दर्शितं तावदिदं यथा च्विविषये द्वयोरपि प्रकृतिविकृत्योः कर्तृत्वमिति । युक्तं चैतत्, यदि विकृतेः कर्तृत्वमाश्रित्य प्रत्ययः । यदा चैकोऽर्थः प्रकृतिविकारात्मक आश्रीयते, तदा परिणामव्यवहारः । उक्तं च - जहद्धर्मान्तरं पूर्वमुपाद्ते यदा परम् । तत्वादप्रच्युतो धमी परिणाम सः उच्यते ॥ इति । यदा त्वन्यतरव्यवस्था न विवक्ष्यते, तदा च्वरभावः - तन्तवो भवन्ति, पटो भवतीति, तज्ञ योऽयं पूर्वकं धर्मं जहदुतरं चोपाददत्सम्मृच्छितोऽर्थः सञ्जायमानः सम्पद्यकर्तेति चोच्यते, तदभेदाच्च पूर्वोतरावस्थयोरपि कर्तृत्वम्, अत एतदपि निरस्तम्। असत्या उतरावस्थाया उत्पतौ शशविषाणमप्युत्पद्येत, सत्याश्च पूर्ववस्थाया उत्पतौ सर्व एव पटादयः सर्वदोत्पद्यमाना एव भवेयुरिति । कथं निरस्तम् किं सदुत्पद्यतं, किञ्चासत् पूर्वोतरयोरवस्थयोरनुवर्तमानं वस्तु तस्मान्न भिन्नेन नाप्यभिन्नेन केनचिद्रूपेणोत्पद्यते, यथा - मृद्वस्तु धटरुपेण । यद्येवम्, पूर्ववस्थया किमपराद्धम्, यत्सैव नोत्पद्यते न किञ्चिदपराद्धम्, असती तु सा कथं कर्त्रो स्यात् । विनष्टायां हि तस्यामुतरवस्थोत्पद्यते, यथा घटः पिण्डावस्थायाम् । अतो दृद्वग्त्वेव तेव तेव पिण्डादिरुपेण परिणमत इति युक्तम् । एवमामूलप्रकृतितः । सा तु प्रकृत्यन्तरनिरपेक्षैव तेन तेन पृथिव्यादिरुपेण परिणमत इति । तदेवं स्थितमेतत् सम्मूर्च्छितोऽर्थात्मा सम्पद्यकर्ता, तदभेदाच्च पूर्वोतरावस्थयोरपि कर्तृत्वमिति । उक्तं च - पूर्वावस्थामभिजहत्संस्पृशन् धर्ममुतरम् । सम्मूर्च्छित इवार्थात्मा एजायमानोऽभिधीयते ॥ इति । तदेवं सति च्व्यर्थे वाक्ये क्वचित्प्रकृतेरेव कर्तृत्वम्, च्व्यन्तस्य गतित्वाद्, गतीनां च क्रियाविशेषणत्वादन्यद्धि भनम्, अन्यद्धि सङ्घीभवनम् तत्र केवले भवने सङ्घः कर्ता, सङ्घीभवने तु ब्राह्मणः । यथा - व्याकरणस्य सूत्रं करोतीति सत्रं तद्विशेषणम्, व्याकरणं सत्रयतीत्यत्र विशिष्टकरोतेर्व्याकरणं कर्म तद्वदत्रापि । तत्र मद्दद्भतश्चन्द्रमा इति च्व्यन्तोऽयं महच्छब्दौ भूतशब्दस्य प्रवृत्तिनिमिते भवने पर्यवस्यति । भूतशब्दस्तु महत्वेनासंस्पृष्टश्चन्द्रमाः स्वरुपे वर्तत इति वैयधिकरण्यादात्वाभावः । महद्भूता ब्राह्मणीत्यत्र तु मृगक्षीरादिवत्स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम् । यत्र तु स्त्रीत्वं विवक्षितम्, न भवत्येव तत्र पुंवद्भावः - अगौमती गोमती सम्पन्न गोमतीभूता ब्राह्मणीति । वृत्तिकाग्स्तु विकृतेः कर्तृत्वाश्रयेण सामानाधिकरण्य सत्यपि परिहारमाह गीणत्वान्महपर्थस्येति । गोणमुख्ययोहि मुख्ये सम्प्रत्ययो भवति, तद्यथा - गौरनुबन्ध्याऽजोऽग्नीपोमीय इति न वाहीकोऽनुबध्यते, स्वशास्त्रेऽपि स्वरुपम् इत्यत्र रुपग्रहणेन ज्ञापितरुपवदर्थोऽपि तन्त्रमिति मुख्यार्थस्य महच्छभ्दस्चात्र ग्रहणाद् गौणर्थस्यात्वाभावः । च्व्यन्तेषु हि एकस्य वस्तुनः प्रकृतिविकारात्मकतया द्व्यात्मकत्वं गम्यते । पटीभवन्तीति ह्युक्ते प्रागपटः सम्प्रति पटात्मना परिणमत इति प्रतीयते । पटो भवतीत्युक्ते नैवं प्रतीयते, किन्तु पटो रक्तादिरुपेण भवतीत्यपि गम्यते । तत्र केवलविकारावस्थावाचकस्य पठशब्दस्य प्रागवस्थायामनुगतावस्थायां च वृत्तिर्न लक्षणामन्तरेणोपपद्यते । अपर आह महत्वेन परिणामोन्मुखेऽमहति महच्छब्दस्य वृत्तिः । अत्र च प्रमाणम् - पटो भवतीति वाक्ये रक्तादिरुपेण भवतीत्यपि गम्यते, पटीभवतीत्यत्रापटः पटो भवतीत्येव गम्यते । एवमर्थे प्रवृत्तिरुपचारमन्तरेण नोपपद्यते इति गौणार्थत्वादात्वाभाव थैति मन्तव्यम् । यदि तर्हि पुंवद्भावस्तु विशेषमनुपादाय विधीयमानो गौणार्थस्यापि भवति, शब्दविशेषोपादाने हि गौणमुख्यन्यायः एवं तु गोमतीभूतत्यत्र तु पुंवद्भावनिवृतये यतितव्यम् । यदि तहि शास्तत्रेषु मुख्यार्थस्य ग्रहथण्, कथं तर्हि वाहीक् वृद्ध्यात्वे भवतः - गौर्वाहीकः, गां वाहीकमिति उच्यते पदस्य पदान्तरसम्बन्धे सति गौणार्थत्वाभिव्यक्तिः विभक्त्यन्तं च पदान्तरेण सम्बध्यते, ततश्च पदस्य पदान्तरसम्बन्धे सति यत्कार्थं प्राप्तं सत्रैवसौ न्यायः , न प्रतिपदिककार्येष्वति मुख्य एव स्वार्थे सास्नादिमति वृद्ध्यात्वे अनुभूय गोशब्दो वाहीके वर्तिष्यते । इह तु महच्छब्दस्योतरपदे परतो विधीयमानमात्वं तस्यामवस्थायां मुख्यार्थस्यैव भवितुमर्हति । अनेनैव न्यायेन च तस्य गौशब्दस्य गौऽभवदित्यत्र ओत् इति प्रगृह्यसंज्ञा न भवति, अग्निसोमौ माणवकारवित्यत्र अग्नेः स्तुत्स्तोमसोमाः इति षत्वं न भवति, ईदग्नेः थैतीत्वं च । महदात्व इत्यादि । समुच्चये चशब्दः, नान्वाचये । तेव यत्रैव पुंवद्भावस्तत्रैवात्वम् । अष्टाकपालमिति । अष्टसु कपालेषु संस्कृतमिति तद्धितार्थे समासः, संस्कृतं भक्षाः इत्यण्, तस्य द्विगोः इति लुक् । अष्टकपालमिति । समाहारे द्विगुः । पात्रादित्वात् स्त्रीत्वाभावः । अष्टागवेनेति । अष्टौ गावो युक्ता अस्मिन्निति त्रिपदो बहुव्रीहिः, पूर्वयोर्द्वयोरुतरपदे द्विगौ गोरतद्धितलुकि इति टच्समासान्तः । तत्र दीर्घत्वेन युक्तार्थसम्प्रत्ययाद्यौक्तशब्दस्य निवृत्तिः । समाहारद्विगोर्वा साहचर्यादभेदौपचाराद्यौक्तार्थे वृत्तिः । कषकरणं विस्पष्टार्थमिति । न भिन्नकालानां निवृत्यर्थम्, अनण्त्वात्, नापि गुणभिन्नानां तत्कालानां ग्रहणमभदकत्वाद् गुणानाम् । आनङ्प्रकरण एवास्मिन्वक्तव्येऽत्र आत् इति वचनं योगविभागार्थम् । तेनाष्टाकपालदावात्त्वसिद्धिः । एवं चैकादशेऽन्यत्राप्यात्वं भवति, तथा च प्रागेकादशभ्योऽच्छन्दसि इति प्रयोगः ॥ Nyaas ----- `महादेवः, महाब्राआहृणः` इति। **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) इत्यादिना कर्मधारयः। `महाबाहुः` इति। बहुव्रीहिः। `लक्षणोक्तत्वात्` इत्यादिना परमतमाविष्कृत्य निराकरोति। स्यादेतत् -उत्तरपदेन समासः सन्निधापितः, समासे हि सत्युत्तरपदं भवति, स च समासो लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) महतो यः प्रतिपदोक्तः **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) इत्यादिना साक्षाद्विशेषविहित स एव गृह्रते, न तु यो लाक्षणिकः सामान्यलक्षणोक्तश्च समासः -महत्पुत्र इति? अत्र `षष्ठी` (2.2.8) इति सामान्यलक्षणेन विहितत्वात्, तस्मादत्र न भविष्यतीति। यद्येवम्, बहुव्रीहावपि न स्यात्; तस्यापि लाक्षणिकत्वात्। `तदर्थम्` इत्यादि। बहुव्रीहावप्यात्त्वं यता स्यादित्येवमर्थं समानाधिकरणग्रहँ कर्तव्यम्। तत्र सतद्येषा परिभाषा नोपतिष्ठते। यद्युपतिष्ठते समानाधिकरणमनर्थकं स्यात्; महतो यः प्रतिपदोक्तः समासस्तस्य समानाधिकरणपदत्वात्। तस्याश्चानुपस्थाने सति बहुव्रीहावप्यात्त्वं भवति। असति तु समानाधिकरणग्रहणे तया परिभाषयेहोपस्थातव्यम्। ततश्च यता महत्पुत्र इत्यत्र न भवति, तथा बहुव्रीहावपि महाबाहुरित्यत्र न स्यात्। `अमाहन्? महान्? सम्पन्नो महद्भूतश्चन्द्रमा इति यत्रार्थे च्व्यन्तो महच्छब्दो वर्तते तत्रैव भूतशब्दोऽपि, तस्मात्? सामानाधिकरण्ये सतद्यात्त्वेन भवितव्यम्` -इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकत्तुमाह -`अमहान्? महन्` इत्यादि। `महद्भूतः` इति। महच्छब्दात् `अभूततद्भावे` (5.4.50) इत्यादिना च्विः, तस्य **ऊर्यादिच्विडाचश्च** (1.4.61) इति गतिसंज्ञकत्वाद्भूतशब्देन **कुगतिप्रादयः** (2.2.18) इति समासः। `गौणत्वात्` इत्यादि। लोके हि शब्दादुच्चरिताद्गौणमुख्यार्थसम्भवे सति मुख्यार्थंएवं सम्प्रत्ययो भवति, न तु गौणेऽप्रदाने। तथा हि -`गौरानीयताम्` इत्युक्ते सास्नादिमानेवानीयते, न तु बाहीक इति। तस्मादिहापि महच्छब्दादुच्चारितान्मुख्य एव महदर्थे सम्प्रत्ययो भवति, न गौणे। गौणश्चात्र महदर्थः। तदभिधानाच्च महच्छब्दोऽपि गौण इति न भवत्यात्त्वम्। ननु च महत्त्वेन युक्तश्चन्द्रमा महानेव, तदयुक्तं महदर्थस्य गौणत्वम्? नैतदस्ति; सर्वत्रैव हि च्व्यन्तेनार्थ आश्रितपूर्वावस्थ उपचरितोत्तरावस्थ उच्यते, तस्मादिहापि चन्द्रमा अमहत्त्वपूर्वावस्थो महच्छब्देनोच्यमान उपचरितमहत्त्वानुगतोत्तरावस्थ एव उच्यत इति युक्तास्य गौणता। यदि गौणत्वान्महच्छब्दस्यात्त्वमिह न भवति, तदा पुंवद्भावोऽपि न स्यात्, अमहती ब्राआहृणी महती सम्पन्ना महद्भूतेति; वृद्ध्यात्त्वे च गौणस्य गोशब्दख्य न स्याताम्, गौर्वाहीकस्तिष्ठतीति वृद्धिर्न स्यात्? **गोतो णित्** (7.1.90) इति गौणाद्? गौशब्दात्? परस्य सर्वनामस्थानस्य णित्त्वेऽसति गां वाहीकमानयेत्यत्र **औतोऽम्शसोः** (6.1.93) इत्यात्त्वं न स्यात्? नैष दोषः; पुंवद्भावस्तावत्? `स्त्रियाः पुंवत्` (6.3.33) इति योगविभागाद्भविष्यति। योगविबागश्चावश्यं कर्तव्यो गर्भिभार्य इत्याद्यर्थः, महत्या घासो महाघास इत्याद्यर्थश्च; सोऽन्यार्थः क्रियमाण एतदर्थोऽपि भविष्यति। ननु च क्रियमाणेऽपि योगविभागे नैवात्र पुंवद्भावः प्राप्नोति, महदर्थस्य गौणत्वात्, योगविभागस्य चान्यत्र चरितार्थत्वात्? एवं तर्हि **पुंवत् कर्मधारयजातीयदेशीयेषु** (6.3.42) इति सूत्रे द्वितीयः पुंवदिति योगविभागः किष्यते, स गौणार्थो भविष्यति। वृद्ध्यात्त्वाभावदोषोऽपि न प्रसजति; यस्माद्वाक्यात्? तत्र गौणत्वं प्रतीयते। पद्सय तु मुख्य एवार्थः, न च पदसंस्कारवेलायां वाक्यार्थोऽपेक्ष्यते। `महादात्त्वे` इत्यादि। समानाधिकरण आत्त्वपुंवद्भावौ विधीयमानौ व्यधिकरणे न प्राप्नुतः। तस्माद्वयधिकरणेऽप्युत्तरपदे घासादौ महदात्तवस्योपसंख्यानं कर्तव्यम्। उपसंख्यानमित्यस्य प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम् -**आन्महतः समानाधिकरणजातीययोः** (6.3.46) इत्यत्रापि `आत्` इति योगविभागं करिष्यति, तेन महत्या घासो महाघास इत्यादावात्त्वं भविष्यतीति। स चावश्यं योगविभागः कर्तव्यः -अष्टाकपालमित्याद्यर्थम्, सोऽन्यार्थं क्रियमाण एतदर्थोऽपि भवति। `पुंवद्वचनं च` इत्यादि। घासकरविशिष्टेष्वित्यपेक्ष्यते। पुंवद्भावस्य वचनं व्याख्यानं कर्तव्यम्, तच्च पूर्वमेव कृतम्। `अष्टनः कपाले` इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्च प्रतिपादनं पूर्वमेव कृतम्। `अष्टाकापालम्` इति। अष्टसु कपालेषु संस्कृतमिति `तद्धितार्थ` (2.1.50) इत्यादिना समासः, **संस्कृतं भक्षाः** (4.2.16) इत्यण्, तस्य **द्विगोर्लुगनपत्ये** (4.1.88) इति लुक। `अष्टकपालं ब्राआहृणस्य` इति। अष्टानां कपालानां समाहारोष्टकपालम्, समाहारे द्विगुः। अत्र पात्रादित्वात् (वा।159) स्त्रियां न भाष्यते। तेन **द्विगोः** (4.1.21) इति ङीब्? न भवति। `गवि च युक्ते` इत्यादि। गोशब्दे चोत्तरपेद युक्तार्थे गम्यमानेऽष्टन्शब्दस्यात्त्वस्य प्रतिपादनं कर्तव्यम्। तच्च प्रतिपादनं पूर्वमेव कृतम्। `अष्टागवेन शकटेन` इति। अष्ठौ गावो युक्ता अस्मिन्निति त्रिपदोऽयं बहुव्रीहिः। युक्तशब्दस्तु गम्यमानत्वाद्वतौ न प्रयुज्यते, यथा दध्योदन इत्यत्रोपसिक्तशब्दः। यदि च बहुव्रीहिरयम्, तदा **गोरतद्धितलुकि** (5.4.92) इति टच्? समासान्तो न प्राप्नोति; तत्पुरुषाधिकारात्? मा भूत्? टच्? `अच्? प्रत्यन्ववपूर्वात्` (5.4.75) इत्यत्र अजिति योगविभागात्? भविष्यति, यथा -कृष्णभूमः, पद्यनाम इत्यादौ। अथ वा -अष्टानां गवां समाहारोऽष्टगवम्, अष्टगवेन युक्तमष्टागवम्। न चैवं युक्तशब्दस्य प्रयोगः प्रसजति; पदैकदेशस्य प्रयोगात्, यथा -सत्यभामा भामा, भीमसेनो भीमः, बलभद्रो बल इति। `एकादश` इत्यत्रापि तत एव योगविभागादात्त्वं वेदितव्यम्। योगविभागस्य च लिङ्गम् -`प्रागेकादशभ्यः` (5.3.49) इति निर्देशः। `तपकरँ विस्पष्टार्थम्` इति। अथ भिन्नकालानां निवृत्त्यर्थ कस्मान्न भवति? भाव्यमानेनाणा सवर्णानामग्रहणात्। गुणान्तरभिन्नानां तर्हि ग्रहणं कस्मान्न भवति? गुणानामभेदकत्वात्॥ Praudhamanorama --------------- आन्महतः ॥ पदाऽधिकारे तदन्तस्याऽपि ग्रहणान्महच्छब्दाऽन्तस्याऽपि । कथन्तर्हि ‘परममहत्परिमाणमि’ति ? ‘परममहतो द्रव्यस्य परिमाणम्’ इति षष्ठीतत्पुरुष इति वृद्धाः । यत्तु वर्द्धमानेनोक्तम्- ‘इष्टकेषीकामालानाम्’ इत्यत्र तदन्तविध्युपसङ्ख्यानसामर्थ्यादुत्तरपदाऽधिकारे तदन्तविधिर्नास्ती’ति । तद्भाष्यकैयटविरुद्धम् । तथा हि- ‘पदाऽधिकारे प्रयोजनम् ‘इष्टकचितं’, ‘पक्केष्टकचितमि’त्यादि भाष्ये उदाहृतम् । कैयटेन च पदशब्देनोत्तरपदं गृह्यते इति व्याख्यातम् । एतदेवाऽर्थतः काशिकायामुपनिबद्धं, न तु ‘इष्टकेषीका-’ इत्यत्र स्वतन्त्रमुपसङ्ख्यानमस्ति । **महतीशब्दस्येति ।** यतु प्राचोक्तं - ‘जातीयघासादौ महतीशब्दस्याऽप्यात्वं वक्तव्यम्’ इति । तत्र ‘जातीय’ इति तावद्व्यर्थम् । ‘पुंवत्कर्मधारय’ इति ‘आन्महतः’ इति च सूत्राभ्यामेव रूपसिद्धेः । ‘महतीशब्दस्ये’त्यपि अपाणिनीयत्वादुपेक्ष्यम् । **अष्टन इति ।** ‘कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः । **अष्टाकपाल इति ।** ‘संस्कृतं भक्षा’ इत्त्यणः ‘अद्ध्यर्धपूर्व-’ इति लुगिति व्याचख्युः । तदतिरभसात् । ‘द्विगोर्लुगनपत्ये’ इति तु बोद्ध्यम् । **द्व्यधिका इति ।** एतच्च भाष्यवार्त्तिकाऽऽरूढमित्युक्तम् । यत्त्विह पूर्वपदप्रकृतिस्वरसिद्धये विस्पष्टादेराकृतिगणत्वं शरणीचक्रुस्तच्चिन्त्यम् । उपलभ्यमानस्य तादृशस्वरस्य द्वन्द्वेन निर्वाहात् । स्वरान्तरेऽपीष्टापत्तौ बाधकाऽभावादिति दिक् । Prakriyasarvasvam ----------------- समानाधिकरणे उत्तरपदे जातीये च परे महतोऽन्त्यस्यात्वं स्यात् । महाजातीयः ॥ Vartika ------- महत आत्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च ।