63044: नद्याः शेषस्यान्यतरस्याम् ================================ **Padacheda:** नद्याः | S | 6 | 1 | शेषस्य | S | 6 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In all the remaining feminine words called नदी -- यू स्त्र्याख्यौ नदी (1.4.3) and नेयङुवङ्स्थानावस्त्री (1.4.4), the substitution of short vowel under the preceding circumstances is optional. Vasu English Translation ------------------------ In all the remaining feminine words called नदी -- यू स्त्र्याख्यौ नदी (1.4.3) and नेयङुवङ्स्थानावस्त्री (1.4.4), the substitution of short vowel under the preceding circumstances is optional. What are the शेष or the remnants? Those feminines which are not formed by long ई (ङी), and are called *Nadi*; and those feminines which end in long ई but consist of one syllable. Thus ब्रह्मबन्धूतरा or ब्रह्मबन्धुतरा वीरबन्धूतरा or वीरबन्धुतरा, स्त्रितरा or स्त्रीतरा, स्त्रितमा or स्त्रीतमा ॥ Vart:- *Nadi* words formed by कृत् affixes are excepted: as लक्ष्मीतरा, तन्त्रीतरा formed by the *Unadi* affix ई (*Unadi* III.I58.160) Kashika ------- नद्याः शेषस्य घादिषु परतो ह्रस्वो भवत्यन्यतरस्याम्। कश्च शेषः? अङी च या नदी,ङ्यन्तं च यदेकाच्। ब्रह्मबन्धूतरा, ब्रह्मबन्धुतरा। वीरबन्धूतरा, वीरबन्धुतरा। स्त्रितरा, स्त्रीतरा। स्त्रितमा, स्त्रीतमा॥ कृन्नद्याः प्रतिषेधो वक्त व्यः॥ लक्ष्मीतरा। तन्त्रीतरा॥ Siddhanta Kaumudi ----------------- अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा । (वार्तिकम्) ॥ लक्ष्मीतरा ॥ Balamanorama ------------ **नद्याः शेषस्यान्यतरस्याम्** - नद्याः शेषस्या । उक्तादन्यः शेषः । 'ङ्यन्तस्यानेकाच' इति पूर्वसूत्रे स्थितं, तदन्यत्वं च अनेकाचो ङ्यन्तत्वाऽभावे ङ्यन्तस्यानेकाच्त्वाभावेऽपि संभवति । तदाह — अङ्यन्तनद्या ङ्यन्तस्यैकाचश्चेति । 'ऊङुतः' इति ब्राहृबन्धुशब्द ऊङन्तः । भाषितपुंस्कस्येति तु नैहानुवर्तत इत्यबिप्रेत्योदाहरति — स्त्रितरेति । कृन्नाद्या नेति । कृदन्ता या नदी तस्या ह्रस्वो नेतिवाच्यमित्यर्थः । लक्ष्मीतरेति । 'लक्षेर्मुट् च' इति औणादिके ईप्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः । Tattvabodhini ------------- **नद्याः शेषस्यान्यतरस्याम्** - उक्ताद्नयशेषः, स च द्विदेत्याह — अङ्यन्तेति । उपलक्षणमेतत् । भाषित्पुंस्केत्यपि नेह संबध्यत इत्याशयेनाह — स्त्रीतरेति । Padamanjari ----------- भाषितपुंस्कादनूङ् इति निवृतम् । कश्च शेष इति । यदि च यत्र पूर्वसूत्रेण ह्रस्वो न विवत्रितः स शेषः, ततो यदभाषितपुंस्कम्, यच्च भिन्नायामाकृतौ भाषितपुस्कमनेकाज ङ्यन्तं तस्यापि ह्रस्वत्वं प्रसज्यते - आमलकीतरा, द्रीणीतरेति । अत्रापि पूर्वेण विहितत्वादिति प्रश्नः । पूर्वसूत्रे यत्साक्षात् श्रुतं तदपेक्षः शेष इत्युतरम् । शेषग्रहणं शक्यमकर्तुम्। कथम् नद्या अन्यतरस्यां ह्रस्व इत्युत्सर्गः, तस्यानेकाच ईतो नित्यह्रस्वत्वमपवादः, तस्मिन्नित्ये प्राप्ते उगितश्चेति विभाषाऽऽरभ्यते । यद्येवम्, नद्या अन्यतरस्याम् इत्यत्र भाषितपुंस्कादित्यनुवर्त्यते, द्रोणीतरा - तात्रापि प्राप्नोती, तस्मात्कर्तव्यं शेषग्रहणम् । तस्मिश्च क्रियमाणे एश्रुतापेक्षं शेषत्वं यथा विज्ञायेतेति पूर्वसूत्रे ङीग्रहणमपि कर्तव्यम् । लक्ष्मीत्रेति । अवितृस्ततन्विभ्य ईः लक्षेर्मुट् च इतीकारप्रत्ययान्तो लक्ष्मीशब्द इति कृन्नद्यन्तो भवति । स तर्हि प्रतिषेधो वक्तव्यः न वक्तव्यः कथम् स्त्रिया इत्युनुवर्तते, तेन नदआआ विशेषयिष्यामः स्त्रिया नद्या इति न च कुन्नदी स्त्रीवाचिनी । नदीसंज्ञाऽपि तर्हि न प्राप्नोति उक्तोऽत्र परिहारो नदीसंज्ञाप्रकरणे ॥ Nyaas ----- `भाषितपुंस्कादनूङ्` (6.3.33) इति निवृत्तम्। `कश्च शेषः` इति। यदि पूर्वसूत्रेण यस्य ह्रस्वो न विहितः स शेषः, ततो यद्भाषितपुंस्कं यच्च भिन्नायामाकृतौ भाषितपुंस्कं नैचाच्? तस्यापि शेषत्वं स्यात्, ततश्चामलकीतरा, द्रोणीतरेत्यत्रापि विकल्पेन ह्रस्वत्वपं स्यात्। न ह्यत्र ह्रस्वत्वं पूर्वसूत्रेण विहितमित्यभिप्रायेणाऽऽह -`अङी च या नदी ङ्यन्तश्च यदेकाच्` इति। एतेन श्रुतापेश्रयाऽत्र शेषत्वामाश्रीयते, न तु यस्य ह्रस्वो न विहितः, तदपेक्षयेति दर्शयति। कथं पुनरेतल्लभ्यते? शेषग्रहणात्। अन्तरेणापि शेषग्रहणं शेषस्यैव विकल्पेन ह्रस्वत्वं भविष्यति। तथा हि यदि ङ्योऽनेकाचो भाषितपुंस्कस्यापि विभाषा ह्रस्वः स्यात्, तदा पूर्वयोग एवेदमन्यतरस्यांग्रहणं कुर्यात्। इह कारणाद्यस्य पूर्वेण ह्रस्वो न विहितस्तस्यैव पाक्षिकं ह्रस्वत्वमन्तरेणापि शेषग्रहणं शेषस्यैव भविष्यतीत्यवसीयत इति किं शेषग्रहणेन? तत्? क्रियते `ङ्योऽनेकाचः` (6.3.43) इति पूर्वसूत्रे योऽच्? श्रूयते तदपेक्षया शेषो विज्ञायत इत्येवमर्थम्। न चमलकीतरा, द्रीणीतरेत्यत्र श्रुतापेक्षया शेषत्वमुपपद्यते; ङ्योऽनेकाच्त्वात्। तस्मान्न भवत्यत्र ह्रस्वत्वप्रसङ्गः। `स्त्रीतरा` इति। स्त्यायतेर्डट्? डित्वाट्टिलोपः, वलिलोपश्च (6.1.64) , टित्वान्? ङीप्। वक्तवयः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -अन्यतरस्यांग्रहणस्य व्यवस्थितविभाषाविज्ञानात्? कृन्नद्या न भविष्यतीति। `लक्ष्मीतरा` इति। `अवितृस्तृतन्त्रिभ्य ईः` (द।उ।1।82) `र्लक्षेर्मुट्? च`, (द।उ।1।84) इतीकारप्रत्ययान्तो लक्ष्मीशब्दो व्युत्पादितः। कृन्नद्ययं भवति॥ Prakriyasarvasvam ----------------- ङ्यन्तवर्जितस्य नदीसंज्ञस्य ङ्यन्तेष्वेकाचश्च घादौ ह्रस्वौ वा स्यात् । वामोरुतरा, वामोरूतरा । स्त्रितरा, स्त्रीतरा । 'कृन्नद्या नेति वाच्यम् (वा०) । लक्ष्मीतरा । उणादिकृदन्तः ॥ Vartika ------- कृन्नद्या न ।