63036: क्यङ्मानिनोश्च ===================== **Padacheda:** क्यङ्-मानिनोः | S | 7 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- A feminine word not ending in ऊङ् and having an equivalent and uniform masculine is changed into masculine before the Denominative कयङ् and the affix मानिन्। Vasu English Translation ------------------------ A feminine word not ending in ऊङ् and having an equivalent and uniform masculine is changed into masculine before the Denominative कयङ् and the affix मानिन्। Thus from एनी = एतायते, श्येनी = श्येतायते ॥ मानिन् :- दर्शनीयमानी अयमस्याः "He esteems her as handsome". दर्शनीयमानिनीयमस्याः (इयम् अस्याः "She esteems her as handsome". The word मानिन् is employed for the sake of non-feminine and non-appositional words. Thus non-feminine words :- दर्शनीयां मन्यते देवदत्तो यज्ञदत्तां = दर्शनीयमानी अयमस्याः ॥ For non-appositional words :- as, दर्शनीयां मन्यते देवदत्तां यज्ञदत्ता = दर्शनीयमानिनी इयमस्याः ॥ Bhashya ------- क्यङ्मानिनोश्च (2895) (पदकृत्यभाष्यम्) मानिन्ग्रहणं किमर्थम् ? (6441 पदप्रयोजनवार्तिकम् ॥ 1 ॥) - मानिन्ग्रहणमस्त्र्यर्थमसमानाधिकरणार्थं च - मानिन्ग्रहणं क्रियतेऽस्त्र्यर्थमसमानाधिकरणार्थं च । अस्त्र्यर्थं तवात् - दर्शनीयां मन्यते देवदत्तो यज्ञदत्तां - दर्शनीयमानी अयमस्याः । असमानाधिकरणार्थम् - दर्शनीयां मन्यते देवदत्तां यज्ञदत्ता - दर्शनीयमानिनी इयमस्याः ॥ Kashika ------- क्यङि परतो मानिनि च स्त्रियाः भाषितपुंस्कादनूङ् पुंवद् भवति। एनी — एतायते। श्येनी — श्येतायते। मानिनि — दर्शनीयमानी अयमस्याः। दर्शनीयमानिनीयमस्याः। मानिनो ग्रहणमस्त्र्यर्थमसमानाधिकरणार्थं च। इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति पूर्वेणैव सिद्धम्॥ Siddhanta Kaumudi ----------------- एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः ॥ Balamanorama ------------ **क्यङ्मानिनोश्च** - क्यङ्मानिनोश्च । एतयोरिति । क्यङि मानिनि च उत्तरपदे परत इत्यर्थः । एनोवेति । एता-चित्रवर्णा ।चित्रं किर्मीरकल्माषशबलैताश्च कर्बु॒रे॑ इत्यमरः । एतशब्दः ओतपर्याय इति याज्ञिकाः ।वर्णादनुदात्ते॑ति ङीब्नकारश्च । 'उपमानादाचारे' इत्यनुवर्तमानेकर्तुः क्यङ् सलोपश्चे॑ति एनीशब्दात्क्यङि पुंवत्त्वे ङीब्नत्वयोर्निवृत्तौ,अकृत्सार्वधातुकयो॑रिति दीर्घे 'एतायते' इति रूपमिति भावः । श्येनीवेति । श्येतशब्दः ओतपर्यायः ।शुक्लशुभ्रसुचिओतविशदश्येतपाण्डुराः॑ इत्यमरः । क्यङादि पूर्ववत् । ननुस्त्रियाः पुंव॑दित्येव मानिनीत्यनुत्तरपदे परतः पुंवत्त्वसिद्धेर्मानिन्ग्रहणं किमर्थमित्याशङ्क्य मानिन्ग्रहणमसमानाधिकरणार्थमस्त्रीलिङ्गार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति — स्वभिन्नामिति । दर्शनीयमानिनीति ।दर्शनीया॑मिति द्वितीयान्ते उपपदेषुप्यजातौ णिनि॑रित्यनुवृत्तौ 'मन' इति ण्निप्रत्ययः । उपपदसमासः, सुब्लुक् । असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ 'ऋन्नेभ्यः' इति ङीपि दर्शनीयमानिनीति रूपम् । या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाःस्त्रियाः पुंव॑दित्येव पुंवत्त्वं सिद्धमिति ध्वनयितुं — ॒स्वभिन्ना॑मित्युक्तम् । एकस्या एवं दर्शनीयाया मनधात्वर्थं प्रति कर्मत्वकर्तृत्वसंभवेऽपबि वास्तवाऽभेदेन मानिनीशब्दसमानाधिकरण्यसत्त्वादिति भावः । अथाऽस्त्रीलिङ्गे उत्तरपदे उदाहरति — दर्शनीयामिति । स्त्रियामित्यनन्तरमात्मानमिति शेषः आत्मानं यो दर्शनीयां स्त्रियं मन्यते स दर्शनीयमानी चैत्र इत्यन्वयः । अत्र उत्तरपदवाच्यस्य मानिनो वस्तुतो दर्शनीयस्त्रीभेदेऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुंलिङ्गत्वात्तस्मिन् परे पुंवत्त्वं न प्राप्तमित्यनेन तद्विधिरिति भावः । Tattvabodhini ------------- **क्यङ्मानिनोश्च** - क्यङ्भा । एतयते इत्यादि ।कर्तुः क्यङ् सलोपश्च॑ ।क्यङि पुंवद्भावे कृते एतश्येतयोःअकृत्सार्वे॑ति दीर्घः । मानिन्ग्रहणमसमानाधिकरणार्थमस्त्र्यर्थं चेत्याशयेन यथाक्रममुदाहरति — स्वाभिन्नामित्यादिना । दर्शनीयमानिनीति ।मनः॑इति णिनिः । नान्तत्वान्ङीप् । या त्वात्मानमेव दर्शनीयां मन्यते तत्रस्त्रियाः पुंव॑दित्येव सिद्धम् । एकस्या अपि ईप्सिततमत्वव्यापाराश्रयत्वविवक्षाभेदेन कर्मकर्तृत्वयोः सत्त्वेऽपि वास्तवाऽभेदेन सामानाधिकरण्याऽविधातादिति भावः । Padamanjari ----------- अयमस्याः, इयमस्या इति वैयधिकरण्यप्रदर्शनार्थमिदमुक्तम् । पूर्वणेव सिद्धमिति । एकस्या एव कर्मत्वात्कर्तृत्वाच्च सामानाधिकरण्यस्याभावात् ॥ Nyaas ----- `एतायते, श्येतायते` इति। एतश्येतशब्दाभ्यां `वर्णादनुदात्तात्? तोपधात्? तो नः` (4.1.39) [`एतओतशब्दाभ्याम्` -मुद्रितः पाठः] इत्यनेन ङीप्, तकारस्य नकारः। एनीवाचरति, श्येनीवाचरति -`कर्त्तुः क्यङ्? सलोपश्च` (3.1.11) इति क्यङ्, `अकृत्सार्वधातुकयोः (7.4.25) इति दीर्घत्वम्। `अयमस्यां दर्शनीयमानी` [`दर्शनीयमानी अयमस्याः` -काशिका] इति। दर्शनीयामिमां मन्यतेऽयमिति। `मनः` (3.2.82) इति णिनिः। `दर्शनीयमाननीयमस्याः` इति। दर्शनीयामिमां मन्यत इति पूर्ववण्णिनिः `ऋन्नेभ्यो ङीप्। (4.1.5) इति ङीप्। किं पुनः कारणं स्त्रियां समानाधिकरण इत्यनुवर्तमानेऽस्त्रियामसमानाधिकरणे च मानिन्युत्तरपदे पुंवद्भाव उदाह्यियत इत्याह -`मानिनो ग्रहणम्` इत्यादि। कथमेतज्ज्ञायते? इत्याह -`इह तु` इत्यादि। यद्युत्तरपदं स्त्रियां वर्तते समानाधिकरणं च भवति -दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीत्येवमादौ। तत्र यस्मात्? `स्त्रियां पुंवत्` (6.3.33) इत्यनेनैव सिद्धम्, अतो मानिनो गरहणमस्त्र्यर्थम्। असमानाधिकरणाच्चेत्येतदवसीयते; अन्यथा हि तदनर्थकं स्यात्॥ Prakriyasarvasvam ----------------- अनयोः परयोः उक्तविधस्त्रीलिङ्गस्य पुंवद्रूपं स्यात् । सुन्दरमानिनी सा । तस्याः सुन्दरमानी त्वम् । तां सुन्दरीं मन्यमान इत्यर्थः । क्यङ् वक्ष्यते । Sutra Prayogas -------------- * **रजनिंमन्यं** (भट्टिकाव्यम्): `खित्यनव्ययस्य` इति ह्रस्वत्वम्।