63035: तसिलादिष्वाकृत्वसुचः =========================== **Padacheda:** तसिलादिषु | S | 7 | 3 | आ | S | 0 | 0 | कृत्वसुचः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A feminine word not ending in the affix ऊङ् and having an equivalent and uniform masculine is changed into such masculine form, before the affixes beginning with तसिल् etc. -- पञ्चम्यास्तसिल् (5.3.7), and ending with कृत्वसुच् -- संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् (5.4.17). Vasu English Translation ------------------------ A feminine word not ending in the affix ऊङ् and having an equivalent and uniform masculine is changed into such masculine form, before the affixes beginning with तसिल् etc. -- पञ्चम्यास्तसिल् (5.3.7), and ending with कृत्वसुच् -- संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् (5.4.17). Thus तस्याः शालायाः = ततः, तस्यां = तत्र, यस्यां = यत्र, यस्या = यतः ॥ The following are the affixes before which the feminine is changed to masculine: त्र and तस्, तरप् and तमप्, चरट्, जातीयर्, कल्पप्, देश्य, देशीयर् रूपप्, पाशप्, थम, थाल, दा and र्हिल तिल् तातिल् ॥ All other affixes do not affect the gender. Thus तरप् तमप् &c दर्शनीयतरा, दर्शनीयतमा, पटुचरी, पटुजातीया, दर्शनीयकल्पा, दर्शनीयदेशीया, दर्शनीयरूपा, दर्शनीयपाशा ॥ कया प्रकृत्या = कथम्, यया प्रकृत्या = यथा, तस्यां वेलाया = तदा, तर्हि &c. Vart:- The feminine of बहु and अल्प is changed to masculine before the *Taddhita* affix शस्ः- as बह्वीभ्यो देहि = बहुशो देहि; अल्पाभ्यो देहि = अल्पशो देहि ॥ Vart:- A feminine Adjective is changed into masculine before the affixes त्व and तल् ॥ As पट्व्या भावः = पटुत्वम् or पटुता ॥ Why do we say 'an adjective'? Observe कठ्या भावः = कण्ठीत्वं or कठीता ॥ Vart:- The feminine word is changed to masculine before all *Taddhita* affixes, except ड, when the word gets the designation of भ ॥ Thus हस्तिनीनां समूहः =हास्तिकम् ॥ Had the word not become masculine, then हस्तिनी having lost its ई (6.4.148), the word न् of हस्तिन् the would not be elided before the *Taddhita* affix, because the *lopa*-elision being *sthanivat*, would have prevented the application of the rule (6.4.144), ordaining the elision of the final syllable. So the form would have been something like हास्तिनिकम् instead of हास्तिकम् ॥ Why do we say 'with the exception of ड'? Observe श्यैनेयः, रौहिनेयः the masculine being श्येत and रोहित ॥ The word आग्नेयः (= अग्नायी देवता अस्य स्थालीपाकस्य) is an exception to this rule. Vart:- The masculine-change takes place before the affixes ठक् and छस् ॥ As भवत्या श्छात्रा = भावस्काः, भवदीयाः ॥ Bhashya ------- तसिलादिष्वाकृत्वसुचः (2894) (परिगणनबोधकभाष्यम्) इह केचित् तसिलादय आ कृत्वसुचः पठ्यन्ते येषु पुंवद्भावो नेष्यते । केचिच्चान्यत्र पठ्यन्ते येषु पुंवद्भाव इष्यते । तत्र किं न्याय्यम् ? परिगणनं कर्तव्यम् ॥ (6429 परिगणनवार्तिकम् ॥ 1 ॥) - तसिलादी त्रतसौ - त्रतसौ तसिलादी द्रष्टव्यौ । तस्यां शालायां वसति-तत्र वसति । तस्याः-ततः । यस्याः - यतः ॥ (6430 परिगणनवार्तिकम् ॥ 2 ॥) - तरप्तमपौ - तरप्तमपौ तसिलादी द्रष्टव्यौ । दर्शनीयतरा । दर्शनीयतमा ॥ (6431 परिगणनवार्तिकम् ॥ 3 ॥) - चरट्जातीयरौ - चरट्जातीयरौ तसिलादी द्रष्टव्यौ । पटुचरी । पटुजातीया ॥ (6432 परिगणनवार्तिकम् ॥ 4 ॥) - कल्पप्देशीयरौ - कल्पप्देशीयरौ तसिलादी द्रष्टव्यौ । दर्शनीयकल्पा । दर्शनीयदेशीया ॥ (6433 परिगणनवार्तिकम् ॥ 5 ॥) - रूपप्पाशपौ - रूपप्पाशपौ तसिलादी द्रष्टव्यौ । दर्शनीयरूपा । दर्शनीयपाशा ॥ (6434 परिगणनवार्तिकम् ॥ 6 ॥) - थम्थालौ - थम्थालौ तसिलादी द्रष्टव्यौ । कया आकृत्या - कथम् । यया आकृत्या - यथा ॥ (6435 परिगणनवार्तिकम् ॥ 7 ॥) - दार्हिलौ - दार्हिलौ तसिलादी द्रष्टव्यौ । तस्यां वेलायां - तदा । तस्यां वेलायां-तर्हि ॥ (6436 परिगणनवार्तिकम् ॥ 8 ॥) - तिल्थ्यनौ - तिल्थ्यनौ तसिलादी द्रष्टव्यौ । वृकीवृकतिः । अजथ्या यूथिः ॥ (6437 परिगणनवार्तिकम् ॥ 9 ॥) - शसि बह्वल्पार्थस्य - बह्वल्पार्थस्य शसि पुंवद्भावो वक्तव्यः । बह्नीभ्यो देहि - बहुशो देहि । अल्पशो देहि ॥ (6438 परिगणनवार्तिकम् ॥ 10 ॥) - त्वतलोर्गुणवचनस्य - त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः । पट्वीभावः - पटुत्वम् । मृद्वीभावः - मृदुत्वम् । पटुता । मृदुता । गुणवचनस्येति किमर्थम् ? कठीभावः - कठीत्वम्, कठीता ॥ (6439 परिगणनवार्तिकम् ॥ 11 ॥) - भस्याढे तद्धिते - भस्याढे तद्धिते पुंवद्भावो वक्तव्यः । हस्तिनीनां समूहो हास्तिकम् ॥ अढ इति किमर्थम् ? श्यैनेयः, रौहिणेयः ॥ (आक्षेपभाष्यम्) यद्यढ इत्युच्यते, अग्नायी देवता अस्य स्थालीपाकस्य - आग्नेयः स्थालीपाकः, अत्र न प्राप्नोति । इह च प्राप्नोति - कौण्डिन्यः, सापत्न इति ॥ (प्रत्याक्षेपभाष्यम्) यदि पुनरनपत्य इत्युच्यते । नैवं शक्यम् । इह हि न स्यात् - गार्ग्यायण्या अपत्यं माणवकः - गार्गो जाल्मः । (समाधानभाष्यम्) अस्तु तर्हि अढ इत्येव । कथं कौण्डिन्यः सापत्न इति ? कौण्डिन्ये निपातनात् सिद्धम् । किं निपातनम् ? आगस्त्यकौण्डिन्ययोः - इति । सापत्नः प्रकृत्यन्तरत्वात् । सपत्नशब्दः प्रकृत्यन्तरमस्ति । कथमग्नायी देवता अस्य स्थालीपाकस्य - आग्नेयः स्थालीपाक इति ? अस्तु तर्ह्यनपत्य इत्येव । कथं गार्गो जाल्मः ? गार्गाग्नेयौ न संवदेते । कर्तव्योऽत्र यत्नः ॥ (6440 उपसंख्यानवार्तिकम् ॥ 12 ॥) - ठक्छसौश्च - ठक्छसोश्च पुंवद्भावो वक्तव्यः । भवत्याः छात्राः - भावत्काः, भवदीयाः । ठक्ग्रहणं किमर्थम्, न इके कृते अजादौ इत्येव सिद्धम् ? नैवं शक्यम् । अजादिलक्षणे हि माथितिकादिवत्प्रसङ्गः अजादिलक्षणे हि माथितिकादिवत्प्रसज्येत । तद्यथा - मथितं पण्यमस्य माथितिक इत्यकारलोपे कृते तान्तादिति कादेशो न भवति, एवमिहापि न स्यात् । तसिलादि ॥ Kashika ------- **पञ्चम्यास्तसिल्** (५.३.७) इत्यतः प्रभृति **संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्** (५.४.१७) इति प्रागेतस्माद् ये प्रत्ययास्तेषु भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। तस्याः शालायाः ततः। तस्यां तत्र। यस्या यतः। यस्यां यत्र। तसिलादिषु परिगणनं कर्तव्यम्। त्रतसौ (५.३.१०,७)। तरप्तमपौ (५.३.५७,५५)। चरट्जातीयरौ (५.३.५३,६९)। कल्पब्देश्यदेशीयरः (५.३.६७)। रूपप्पाशपौ (५.३.६६,४७)। थम्थालौ (५.३.२४,२३)। दार्हिलौ (५.३.१५,१६)। तिल्तातिलौ (५.४.४१)॥ शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः॥ बह्वीभ्यो देहि। अल्पाभ्यो देहि। बहुशो देहि। अल्पशो देहि॥ त्वतलोगुर्णवचनस्य पुंवद्भावो वक्त व्यः॥ पट्व्या भावः पटुत्वम्, पटुता। गुणवचनस्येति किम्? कठ्या भावः कठीत्वम्, कठीता॥ भस्याढे तद्धिते पुंवद्भावो वक्त व्यः॥ हस्तिनीनां समूहो हास्तिकम्। अढ इति किम्? श्यैनेयः। रौहिणेयः। कथमग्नायी देवतास्य आग्नेयः स्थालीपाक इति? कर्तव्योऽत्र यत्नः॥ ठक्छसोश्च पुंवद्भावो वक्त व्यः॥ भवत्याश्छात्रा भावत्काः, भवदीयाः॥ Siddhanta Kaumudi ----------------- तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्यप्त्यतिव्याप्तिपरिहाराय । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) ॥ बह्वीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । घरूप - (SK985) इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पट्वितरा । पट्वितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । र्दानीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या । (वार्तिकम्) ॥ बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः । (वार्तिकम्) ॥ शुक्लाया भावः शुक्लत्वम् । शुक्लता । गुणवचनस्य किम् । कर्त्र्या भावः कर्त्रीत्वम् । शरदः कृतार्थता इत्यादौ तु सामान्ये नपुंसकम् । (वार्तिकम्) ॥ हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । स्त्रीभ्यो ढक् (SK1123) इति ढोऽत्र गृह्यते । अग्नेर्ढक् (SK1236) इति ढकि तु पुंवदेव । अग्नायी देवताऽस्य स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपत्नशब्दाच्छार्ङ्गरवादित्वात् ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः । स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययोः शिवाद्यण् । सपत्न्या अपत्यं सापत्नः । तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव न त्वण् । शिवादौ रूढयोरेव ग्रहणात् । सापत्यः । (वार्तिकम्) ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः । एतद्वार्तिकं एकतद्धिते च (SK1000) इति सूत्रं च न कर्तव्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इति भाष्यकारेषट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वप्रियः इत्यादि । पूर्वस्यैवेदम् । भस्त्रैषाजाज्ञाद्वा - (SK466) इति लिङ्गात् । तेनाकचि एकशेषवृत्तौ च न । सर्विका । सर्वाः । (वार्तिकम्) ॥ कुक्कुट्या अण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशावः ॥ Balamanorama ------------ **तसिलादिष्वाकृत्वसुचः** - तसिलादिष्वाकृत्वसुचः ।स्त्रियाः पुंव॑दित्यनुवर्तते । 'आ कृत्वसुच' इत्याङ् अभिविध्यर्थकः, तमभिव्याप्येत्यर्थः । तदाह — तसिलादिषु कृत्वसुजन्तेष्विति ।पञ्चम्यास्तसि॑लित्यारभ्यसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु॑जित्येतत्पर्यन्तसूत्रविहितेष्वित्यर्थः । उत्तरपदपरकत्वाऽभावात्स्त्रियाः पुंवदित्यप्राप्तौ वचनमिदम् । ननु तिल्थ्यन्शसां कृत्वसुचः परत्रैव पाठात्तसिलादिष्वनन्तर्भावात्तेषु परेषु 'वकृतिः' 'अजथ्या' 'बहुशः' इत्यत्र पुंवत्त्वं न स्यादित्याव्याप्तिः ।ईषदसमाप्तौ कल्पब्देश्यदेशीयरः॑ इति देश्यस्य,षष्ठआ रूप्य चे॑ति रूप्यस्य च तसिलादिष्वन्तर्भावात्तयोः परतःपट्वीदेश्ये॑त्यत्र चशुभ्रारूप्ये॑त्यत्र च पुवत्त्वं स्यादित्यतिव्याप्तिरित्यत आह — परिगणनमिति । अव्याप्त्यतिव्याप्तीति । इष्टस्थले अप्रवृत्तिः — अव्याप्तिः । अनिष्टस्थले प्रवृत्तिः — अतिव्याप्तिः । परिगणनप्रकारमाह — त्रतसावित्यादिना । बह्वीषु बहुत्रेति । बह्णीष्वित्यर्थे बह्णीशब्दात् 'सप्तम्यास्त्र' लिति त्रलि पुंवत्त्वे ङीषो निवृत्तौ बहुत्रेति रूपमित्यर्थः । बहुत इति ।पञ्चम्यास्तसि॑लिति बह्णीशब्दात्तसिल्, पुवत्त्वान्ङीष#ओ निवृत्तिरिति भावः । दर्शनीयतरेति । अनयोरियमतिशयेन दर्शनीयेत्यर्थे दर्शनीययाशब्दात्द्विवचनविभज्योपपदे तर॑विति तरप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । दर्शनीयतमिति । आसामियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दात्अतिळायने तमविष्ठनौ॑ इति तमप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । ननु पट्वीशब्दात्तरपि तमपि च पट्वीतरा पट्वीतमेत्यत्रापि पुंवत्त्वे ङीषो निवृत्तौ पटुतरा पटुतमेति स्यादित्यत आह — घरूपेति । तथा च ह्रस्वेन पुंवत्त्वे बाधिते सति ङीषो निवृत्त्यभावे तस्य ह्रस्वे सति पट्वितरा पट्वितमेति रूपमित्यर्थः । पटुचरीति । पट्वीशब्दात्भूतपूर्वे चर॑डिति पुंवत्त्वे ङीषो निवृत्तिरिति भावः । पूर्वं पट्वीत्यर्थः । पटुजातीयेति । पट्वीशब्दात्प्रकारवचने जातीय॑रिति पुंवत्त्वे ङीषो निवृत्तिरिति भावः । पटुसदृशीत्यर्थः । दर्शनीयकल्पेति । 'ईषदसमाप्तौ' इति दर्शनीयाशब्दात्कल्पप् । पुंवत्त्वे ङीषो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयदेशीयेति । 'ईषदसमाप्तौ' इति दर्शनीयशब्दाद्देशीयर् । पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रशस्तत्वेन द्रष्टुं योरयेत्यर्थः । दर्शनीयपासेति । दर्शनीयाशपब्दाद्याप्ये पाशप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । कुत्सितत्वेन द्रष्टुमयोग्येत्यर्थः । बहुथेति । बह्वीशब्दात्प्रकारवचने थाल् । पुंवत्त्वे ङीषो निवृत्तिरिति भावः । बहुप्रकारेत्यर्थः । वृकतिरिति ।प्रशंसाया॑मित्यनुवृत्तौबृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसी॑ति वृकीशब्दाज्जातिलक्षणङीषन्तात्तिल् । पुंवत्त्वे ङीषो निवृत्तिरिति भावः । अजथ्येति ।तस्मै हित॑मित्यधिकारेअजाविभ्यां थ्य॑न्नित्यजाशब्दात्थ्यन् । पुंवत्त्वे टापो निवृत्तिरिति भावः । 'वृकतिरजथ्या' इत्यत्रजातेश्चे॑ति पुंवत्त्वनिषेधो न, परिगणनसामर्थ्यात् । शसीति । शसि परे बह्वुर्थकस्य अल्पार्थकस्य पुंवत्त्वं वक्तव्यमित्यर्थः ।त्रतसा॑वित्यादिपरिगणितेष्वनन्तर्भावाद्वचनमिदम् । बह्वीभ्य इति ।बह्वीभ्यो देहीत्यर्थेबह्वल्पार्थाच्छस्कारकादन्यतरस्या॑मिति बह्वीशब्दाच्छस् । पुंवत्त्वे ङीषो निवृत्तिरित भावः । संप्रदानकारकत्वस्फोरणायदेही॑ति शब्दः । अल्पश इति । अल्पाभ्यो देहीत्यर्थः । पुंवत्त्वे टापो निवृत्तिरिति भावः । त्वतलोरिति । त्वप्रत्यये तल्प्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्त्वं वक्तव्यमित्यर्थः । कत्र्रीत्वमिति । कत्र्रीशब्दस्य क्रियानिमित्तत्वान्न गुणवचनत्वमिति भावः ।आ कडारा॑दिति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति स्थितम् । प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम् ।वोतो गुणवचना॑दिति सूत्रभाष्यस्थंसत्त्वे निविशतेऽपैती॑त्यादि गुणलक्षणं तु नात्र प्रवर्तते । अत एवएक तद्धिते चे॑ति सूत्रभाष्ये एकस्या भाव एकत्वमित्यत्र एकशब्दस्य गुणवचनत्वाऽभावात्त्वतलोर्गुणवचनस्ये॑त्यप्राप्तं पुंवत्त्वमत्र विधीयत इत्युक्तं सङ्गच्छते ।सखीत्व॑मित्यादि तु असाध्वेवेति शब्देन्दुशेखरे विस्तरः । ननु कृतोऽर्थः=कृत्यं यया सा कृतार्थ, तस्या भावः कृतार्थतेत्यत्र कथं पुंवत्त्वम् । कृतार्थशब्दस्य समासत्वेन उक्तगुणवचनत्वाऽभावादित्यत आह — शरद इति ।दृढभक्ति॑रित्यत्रानुपदोक्तरीत्या कृतोऽर्थो येन तत्कृतार्थमिति सामान्याभिप्रायं कृतार्थशब्दं प्रथमतो व्युत्पाद्य तस्मादविवक्षितलिङ्गात्तल्प्रत्ययो व्युत्पाद्य इति भावः । भस्याऽढे इति । ढभिन्ने तद्धिते परे स्त्रियाः पुंवत्त्वे वक्तव्यमित्यर्थः । परिगणितेष्वनन्तर्भावाद्वचनम् । हास्तिकमिति । 'तस्य समूहः' इत्यधिकारेअचित्तहस्तिधेन॑रिति ठक् ।ठस्येकः॑ । पुंवत्त्वे सति नान्तलक्षणङीपो निवृत्तिः । 'नस्तद्धिते' इति टिलोप इति भावः । नच पुंवत्त्वाऽभावेऽपियस्येति चे॑ति ईकारलोपे टिलोपे चहास्तिक॑मिति सिद्धमिति वाच्यं,यस्ये॑ति लोपस्याभीयत्वेनासिद्धतया स्थानिवत्त्वेन च तद्धितपरकत्वाऽभावेन टिलोपाऽनापत्तेः ।ठक्छसोश्चे॑ति पुंवत्त्वादेव सिद्धिस्त्वनाशङ्क्या ,-छसः साहचर्येण 'भवतष्ठक्छसौ' इति ठक एव तत्र ग्रहणात् । रौहिणेय इति ।वर्णादनुदात्ता॑दिति रोहितशब्दान्ङीप्, तकारस्य नकारश्च । रोहिण्या अपत्यमित्यर्थेस्त्रीभ्यो ढक् । एयादेशः ।भस्ये॑ति पुंवत्त्वे ङीब्नकारयोः निवृत्तिः स्यादिति भावः । गृह्रत इति । व्याख्यानादिति भावः । अग्नायीति । अग्नेः स्त्री अग्नायी ।वृषाकप्यग्नी॑ति ङीष् । अग्नेरिकारस्यैकारादेशः, अग्नायी देवताऽस्येत्यर्थेऽग्नेर्ढगिति ढक्, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । ततो ढस्य एयादेशः । पुंवत्त्वे सति ङीबैत्वनिवृत्तौ अग्नि-एय इति स्थिते 'यस्येति च' इति इकारलोपे आदिवृद्धौ आग्नेय इति रूपम् । पुंवत्त्वनिषेधे तु 'आग्नायेय' इति स्यादिति भावः । वस्तुतस्तु अग्नित्वं पुंसि प्रवृत्तिनिमित्तं, स्त्रियां तु अग्निसंबन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्त्वमिति बोध्यम् । सपत्नीशब्दस्त्रिधेतिव्युत्पादनभेदा॑दिति शेषः । शत्रुपर्यायादिति ।रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुह्र्मदः॑ इति कोशादिति भावः । अयं भाषितपुंस्कः । विवाहनिबन्धनमिति । विवाहजनितसंस्कारविशेषणिमित्तकमित्यर्थः ।पतित्वं सप्तमे पदे॑ इत्यादिस्मरणादिति भावः ।आश्रित्ये॑त्यनन्तरं 'प्रवृत्त' इति शेषः । समानः पतिर्यस्या इति बहुव्रीहिः ।नित्यं सप्त्न्यादिषु॑ इति निपातनात्सभावः, ङीप् नत्वं च । नित्यस्त्रीलिङ्ग इति । अन्यपदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावादिविधानादिति भावः । 'पतिर्नाम घवः' इति कोशादिति भावः । आद्ययोरिति । शत्रुपर्यायं सपत्नशब्दं विवाहनिबन्धनं पतिशब्दं चाश्रित्य प्रवृत्तयोः सपत्नीशब्दयोरित्यर्थः । सापत्न इति । सपत्न्या अपत्यमित्यर्थेतस्यापत्य॑मित्यणं बाधित्वास्त्रीभ्यो ढ॑गिति ढकि प्राप्तेशिवादिभ्योऽ॑णित्यपि आद्यस्य सप्तनीशब्दस्य भाषितपुंस्कतया पुंवत्त्वे ङीनो निवृत्तौ 'सापत्न' इति रूपम् । न तु नकारस्यापि निवृत्तिः, शत्रुपर्यायसपत्नशब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्त्रीत्वनिमित्तकत्वाऽभावात्, द्वितीयस्य तु सपत्नशब्दस्य ङीब्नत्वाभ्यामुत्पन्नस्य शिवाद्यणि कृते भाषितपुंस्कत्वाऽभावान्न पुंवत्त्वं, किंतु ङीपोयस्येति चे॑ति लोपे 'सापत्न' इति रूपम् । सति तु पुंवत्त्वे ङीब्नकारयोर्निवृत्तौ 'सापत' इति स्यात् । तृतीयात्त्विति । स्वामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात्सपत्नीशब्दात्पत्युत्तरपदलक्षणे ण्य एवेत्यन्वयः । सपत्न्या अपत्यमित्यर्थेतस्यापत्य॑मित्यणं बाधित्वादित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इति ण्य एवेत्यन्वयः । ननु सप्तनीशब्दो न पत्युत्तरपद इत्यत आह — लिङ्गविशिष्टपरिभाषयेति । एवशब्दस्य व्यावर्त्त्यमाह — न त्वणिति । ननु ण्यप्रत्ययस्यापि शिवाद्यण् अपवाद इत्यत आह — शिवादौ रूढयोरेवेति । सपत्नशब्दः शत्रौ केवलरूढः । विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु योगरूढः, विवाहकर्तरि पाति रक्षतीति योगस्यापि सत्त्वात् । स्वामिपर्यायं तु पतिशब्दमाश्रित्य प्रवृत्तः केवलयोगिकः । शिवादौ रूढयोरेव ग्रहणं, न तु केवलयौगिकस्य , योगाद्रूढेर्बलवत्त्वादिति भावः । ततः किमित्यत आह — सापत्य इति । स्वामिपर्यायपतिशब्दघटितसप्तनीशब्दस्य भाषितपुंस्कत्वात्पुंवत्त्वे सति ङीब्नत्वयोर्निवृत्तौयस्येति चे॑तीरकारलोपः । सापत्य इति रूपमित्यर्थः । ठक्छसोश्चेति । वार्तिकमेतत् । एतयोः परतः पुंवत्त्वं वक्तव्य॑मिति शेषः । अभत्वादप्राप्तौ वचनम् । भावत्काः भवदीया इति ।तस्येद॑मित्यधिकारे 'भवतष्ठक्छसौ' इति भवतीशब्दाट्ठक्छसौ, लिङ्गविशिष्टस्यापि ग्रहणात् । तत्र ठकि इकादेशात्प्राक् ठावस्थायामेव पुंवत्त्वे इकादेशं बाधित्वाइसुसुक्तान्ता॑दिति कादेशे 'भावत्क' इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम्, इकादेशे कृते हि मथधितं पण्यमस्य माथितिक इत्यत्रेव अल्विधितया स्थानिवत्त्वाऽभावेन संनिपातपरिभाषया वा कादेशाऽनापत्तेः । अतष्ठग्ग्रहणम् । भवतीशब्दाच्छसि तुसिति चे॑ति पदत्वेन भत्वस्य बाधात् 'भस्याऽढे तद्धिते' इति पुंवत्त्वे कृते इकस्य स्थानित्त्वेन ठक्त्वात्इसुसुक्तान्ता॑दिति कादेशे 'भावत्क' इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम्, इकादेशे कृते हि मथितं पण्यमस्य माथितिक इत्यत्रेव अल्विधितया स्थानिवत्त्वाऽभावेन संनिपातपरिभाषया वा कादेशाऽनापत्तेः । अतष्ठग्ग्रहणम् । भवतीशब्दाच्छसि तुसिति चे॑ति पदत्वेन भत्वस्य बाधात् 'भस्याऽढे' इत्यप्राप्ते पुंवत्त्वेऽनेन पुंवत्त्वम् । एतदिति ।ठक्छसोश्चे॑ति वार्तिकमित्यर्थः । एक तद्धिते चेति । एकशब्दस्य तद्धिते उत्तरपदे च परे ह्रस्वः स्यादिति तदर्थः । एकस्या भावः एकत्वम्, एकता । एकस्याः शाटी एकशाटी । वृत्तिमात्र इति । कृत्तद्धितादयो वृत्तयः । मात्रशब्दः कार्त्स्न्ये ।स्त्रियाः पुंव॑दित्यादिसूत्रगतनिमित्ताऽभावेऽपि भवति । बाष्यकारेष्ठएति । भाष्यकारवचनेनेति यावत् । इदंचदक्षिणात्तराभ्या॑मिति सूत्रे भाष्ये स्पष्टम् । गतार्थत्वादिति । निवृत्तप्रयोजनकत्वादिति भावः । एतत्प्रयोजनस्य 'सर्वनाम्नः' इति वचनेनैव सिद्धत्वादिति यावत् ।सर्वनाम्नो वृत्तिमात्रे॑ इत्यस्य तद्दितवृत्तौ उदाहरति — सर्वमय इति । सर्वस्या आगत इत्यर्थः । 'तत आगतः' इत्यधिकारेमयट् चे॑ति मयट् । 'सर्वनाम्नः' इति पुंवत्त्वम् । चिन्मयमित्यादिवदत्यन्तस्वार्थिको वा मयट् । अथ सनाद्यन्तधातुवृत्तावुदाहरति — सर्वकाम्यतीति । सर्वामात्मन इच्छतीत्यर्थेकाम्यच्चे॑ति सर्वाशब्दात्काम्यच् । 'सर्वनाम्नः' इति पुंवत्त्वम् । 'सनाद्यन्ताः' इति धातुत्वाल्लडादि । मयट्काम्यचोस्त्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तसिलादिष्विति पुंवत्त्वमत्र न स्यादिति भावः । तद्धितवृत्तौ उदाहरणान्तरमाह — सर्वकभार्य इति । समासवृत्तिरेवैषा । सर्वप्रिय इति । सर्वा प्रिया यस्येति विग्रहः । समासवृत्तिरियम् । प्रियादिपर्युदासो 'रूपवतीप्रिय' इत्यादौ उपयुज्यत इति भावः । वस्तुतस्तु एकशब्दे अकच्प्रत्ययेप्रत्ययस्था॑दितीत्त्वे एकिका, तस्या भावः — एकिकत्वम् । अत्र पुंवत्त्वे टाप इत्वस्य च निवृत्तौ एककत्वमिति स्यात् । इकारो न श्रूयेत । इत्वनिमित्तस्य टापो निवृत्तत्वात्, पाचिकाशब्दाज्जातीयरि पाचकजातीयेतिवत् । ह्रस्वे सति स्थानिवत्त्वेन टापः सत्त्वात्प्राप्तजीविकवदित्वश्रवममिति फलभेदसत्त्वात्एक तद्धिते चे॑ति गतार्थमित्याहुः । ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात्पुंवत्त्वं स्यादित्यत आह — पूर्वस्यैवेदमिति । वृत्तिप्रविष्टाऽनेकभागानां मध्ये किञ्चिदपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति ।भस्त्रैषे॑ति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कात्पूर्वस्य इत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति ।भस्त्रैषे॑ति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कात्पूर्वस्य इत्त्वविधानम्, अन्यथा निर्विषयं स्यात् । तद्धितवृत्तौ तयोः सर्वनामतया पुंवत्त्वनियमादिति भावः । अकचि तद्धितवृत्तावुद#आहरति — सर्विकेति । सर्वाशब्दात्साकच्काट्टापिप्रत्ययस्थादि॑तीत्त्वे पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यादिति भावः । एकशेषवृत्तावुदाहरति-सर्वा इति । टाबन्तस्य प्रथमाबहुवचनमिदम् । पुंवत्त्वे टापो निवृत्तिः स्यादिति भावः । कुक्कुटआदीनामण्डादिष्विति ।पुंवत्त्वं वक्तव्य॑मिति शेषः । असमानाधिकरणार्थमिदमिति सूचयन् षष्ठीसमासमुदाहरति — कुक्कुटाण्डमिति । पुंवत्त्वेन जातिलक्षणङीषो निवृत्तिरिति भावः । एवमग्रेऽपि । मृगक्षीरमिति । मृग्याः क्षीरमिति विग्रहः । काकशाव इति । काक्याः शाव इति विग्रहः ।पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः॑ इत्यमरः । Tattvabodhini ------------- **तसिलादिष्वाकृत्वसुचः** - तसिलादिषु कृत्वसुजन्तेष्विति ।पञ्चम्यास्तसिलि॑त्यारभ्यसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुजि॑त्येतत्पर्यन्तेष्वित्यर्थः । अव्याप्त्यतिव्याप्तिवारणायेति । वृकतिरजथ्या बहुश इत्यत्राऽव्याप्तिः, तसिलादिकृत्वसुच्पर्यन्तेषु तिल्थ्यनूशसां पाठाऽभावात् । पट्वीदेश्या शुभ्रारूप्य इत्यत्राऽतिव्याप्तिः,ईषदसमाप्तौ॑इति देश्यस्य, षष्ठआ रूप्य चे॑ति रूप्यस्य च तत्र पाठात्, अतस्तन्निवारणाय परिगणनमित्यर्थः । परिगणितान् त्रतसादीन् क्रमेणोदाहरति — बह्वीष्विति । यद्यपि बह्वादिषु ङीषो वैकल्पिकत्वात्तदभावे बहुत्रेत्यादि सिध्यति, तथापि पक्षे बह्वीत्रेत्याद्यनिष्टवारणायेदम् । ततस्तत्रेति प्राचोक्तमुदाहरणमत्रोपेक्षितम् ।सर्वनान्मो वृत्तिमात्रे॑इत्यनेन गतार्थत्वादिति मनोरमायां स्थितम् । पठ्वितरेति । प्राचा तु पटुतरत्युदाहृतं तत्प्रामादिकमिति भावः । पटुचरीति ।भूतपूर्वे चरट॑ । पटुजातीयेति ।प्रकारवचने जातीयर् । दर्शनीयरूपेत्यादि । प्रशंसायां रूपप् ।याप्ये पाशप् । बहुथेति ।प्राकारवचने थाल् । तत्र हिकिसर्वनामबहुभ्यः॑इत्यधिकृतम् । वृकतिरिति ।वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसी॑ति तिल् । अजथ्येति ।अजाविभ्या#ं थ्यन् ।शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । शसीति ।बह्वल्पार्थादि॑ति यः शस् स तसिलादिषु ज्ञातव्य इत्यर्थः । त्रतसादिषु परिगणनं कर्तव्यमिति यावत् ।त्वतलोर्गुणवचनस्य । त्वतलोर्गुणवचनस्येति ।गुणस्ये॑ति वक्तव्ये वचनग्रहणं प्रसिद्धगुणपरिग्रहार्थम् । अतस्तथैवोदाहरति -शुक्लत्वं शूक्लतेति । नन्विह जातिसंज्ञाव्यतिरिक्तं धर्ममात्रं गुण इति यत्प्राचीनैरुक्तं, तत्स्वीकर्तव्यम् । अन्यथानिरीक्ष्य मेने शरदः कृतार्थता॑,सा मुमोच रतिदुःखशीलता॑मित्यादिषु पुंवद्भावाऽप्रवृत्त्या दीर्घश्रवणं स्यादित्यताअह — सामान्ये नपुंसकमिति । एवं चनेष्टं पुरो द्वारवतीत्वमासीत्इत्यादिप्रयोगो निर्बाध इति भावः ।भस्याऽढे तद्धिते । हास्तिकमिति ।अचितथस्तिधेनो॑रिति ठक् । न चात्र यस्येति लोपेन निर्वाहः, तस्यअसिद्धवदत्रे॑त्यसिद्धत्वात्,अचः परस्मि॑न्निति स्थानिवद्भावाच्चनस्तद्धिते॑इति टिलोपाऽनापत्तेः । न चठक्छसोश्चे॑त्यनेनैववात्र पंवद्भावसिद्धिः शङ्क्या, छसा साहचर्यात्भवतष्ठक्छसौ॑इत्यस्यैव ठकस्तत्र ग्रहणात् । नापिजातेश्चे॑ति पुंवद्भावनिषेधः शङ्क्यः, अस्मादेव भाष्योदाहरणात्सौत्रस्यैव निषेधो, न त्वौपसङ्ख्यानिकस्ये॑ति ज्ञापनात् । रौहिणेय इति । रोहितशब्दात्वर्णांदनुदात्तादि॑ति ङीन्बकारौ । सति तु पुंवद्भावे तयोर्निवृत्तौरौहितेय॑इति स्यादिति भावः । गृह्रत इति । व्याख्यानादितिशेषः । अग्नायीति । अग्नीशब्दात्वृषाकप्यग्नी॑ति स्त्रियां ङीबैकारादेशौ । आग्नेय इति । पुंवद्भावाऽभावे तुआग्नायेय॑इति स्यादिति भावः । शत्रुपर्यायादिति । अत्र चव्यन् सपत्ने॑इति निर्देशो लिङ्गम् ।रिपौ वैरिसपत्नाऽरिद्विषव्द्देषणदुह्र्मदः॑इत्यमरः । विवाहनिबन्धनमिति । तज्जन्यसंस्कारविशेषविशिष्टे रूढमित्यर्थः । सापत्न इति । अभाषितपुंस्कत्वाव्द्दितीयस्य पुंवद्भावौ न भवति । सति च पुंवद्भावे नकारादेशाऽभावात्सापत इति स्यात् । आद्यस्य तु पुंवद्भावेऽपिसारत्न॑इत्येव भवतीति भावः । रूढयोरेवेति । आद्यः शब्दो रूढः, द्वितीयस्तु योगरूढः, तेनसमानः पतिर्यस्याः॑इति विग्रहो न विरुध्यत इति दिक् । ठक्छसोश्च । अभत्वार्थ आरम्भः ।भावत्का इति ।भवतष्ठक्छसौ॑ । ठावस्थायामेव पुंवद्भावे कृतेठस्येकः॑ इति इकादेशं बाधित्वा तान्त लक्षणः कादेशः । नन्विकादेशे भत्वात्भस्याऽढे॑इति पुंवद्भावे सति कादेशप्रवृत्त्या रूपसिद्धौकिमत्र ठग्ग्रहणेन । मैवम् । मथितं पण्यमस्य माथितिक इत्यत्रेवाऽल्विधित्वेन स्थानिवद्भाववाऽयोदात्सन्निपातपरिभाषया वा कादेशप्रवृत्तेर्दुर्लभत्वात् । अतःठक्छसो॑रिति ठग्ग्रहणं कर्तव्यमेव । भवदीया इति । छसः सित्करणात्सिति चे॑ति पदसंज्ञा । तेनाऽत्र जश्त्वं भवति । एवं च पदसंज्ञया भसंज्ञाया बाधात्भत्याऽढे॑ इत्यस्याऽप्रवृत्त्या वार्तिके छस्ग्रहणं कृतम् । भाष्यकारेष्टएति । अनेन सूत्रवार्तिकयोरुक्तिसंभवो ध्वनितः । उत्तरं दृष्ट्वा पूर्वस्याऽप्रवृत्तत्वात् । निष्कर्षे तु व्यर्थमेवेत्याह -गतार्थत्वादिति । इष्टेरुदाहरणान्यह -सर्वमय इत्यादिना ।तत आगतः॑इत्यर्थेमयट्चे॑इति मयट् । तसिलादिषु मयडादेरपरिगणितत्वात्तेनेदं न सिध्यतीति भावः । सर्वकभार्य इति । न चस्त्रियाः पुंव॑दिति सूत्रेण गतार्थता,न कोपधायाः॑इति निषेधात् । न चाऽस्यापि तेन निषेधः शङ्क्यः,स्त्रियाः पुंवदि॑त्यादिप्रकरणोक्तस्यैव तेन निषेधात् । अस्या इष्टेस्तु तस्मिन्प्रकरणेऽसमाविष्टत्वात् । न च वृत्त्यन्तर्गतस्य सर्वनामत्वाऽभावात्पुंवद्भावो न भवेदिति वाच्यं, वचनारम्भसामर्थ्यान्मात्रग्रहणाद्वा क्वचित्सर्वनामत्वेन दृष्टानां संप्रति संज्ञाऽभावेऽपि पुंवद्भावाभ्युपगमात् । अतएवोत्तरपूर्वायै इत्यत्र संज्ञाऽभावेऽपि पुंवद्भावः । सर्वां नाम काचित्तस्याः पुत्रः सर्वापुत्र इत्यत्र तु नाऽतिप्रसङ्गः,संज्ञोपसर्जनयोः सर्वादिगणबहुर्भूतत्वेन वृत्तेः पूर्वमप्यसर्वनामत्वात् । सर्वप्रिय इति ।स्त्रियाः पुंव॑दित्यत्र प्रियादिपर्युदासोरूपवतीप्रिय॑ इत्यादाबुपयुज्यत इति भावः । तदितरा तदन्येत्यादावुत्तरपदेऽतिप्रसङ्गमाशङ्क्याह -पूर्वस्यैवेति । वृत्तिघटकाऽनेकभागमध्ये किंचिदपेक्षया पूर्वस्येत्यर्थः । लिङ्गादिति । अन्यथा एषा द्वा एतयोः कात्पूर्वस्य आपि विधीयतमानमित्वं निर्विषयं स्यादिति भावः ।दक्षिणपूर्वा दि॑गिति भाष्योदाहरणमपीह लिङ्गमिति बोध्यम् । यत्तु प्राचासर्वनाम्नः समासे पूर्वं पुंव॑दित्युक्तम्, यच्च व्याचख्युः — ॒वार्तिकार्थमनुवदति -सर्वनाम्न इत्यादिना॑इति । तत्प्रामादिकम् ।वृत्तामात्रे॑इति पाठस्यैव भाष्यारूढत्वात् ।सर्वमयः॑सर्वकाम्यती॑त्युक्तोदाहरणाऽसिद्धिप्रसङ्गाच्च ।वार्तिकार्थ॑मित्याद्यपि प्रामादिकमेव । वार्तिकग्रन्थे एतदभावात् । न चसर्वनाम्नो वृत्तिमात्रे॑इत्येतद्धार्तिकमेव, न तु भाष्यकारेष्टिरिति शङ्क्यं -॒ठक्छसो ॑रिति वार्तिकस्य निरालम्बनत्वापत्तेः । भाष्यकारेष्टित्वे तु वार्तिकस्योक्तिसंभव उक्त एव प्राक् । Padamanjari ----------- अनुतरपदार्थमासम्भः । ततस्तत्रेति । प्राग्दिशो विभक्तिः इति विभक्तित्वात्यदाद्यत्वम्, टाप्, अनेन पुंवद्भावः । इह केचितसिलादिषु पठ।ल्न्ते, येषु पुंवद्भावो नेष्यते, केचिच्चान्यत्र पठ।ल्न्ते, येषु पुंवद्भाव इष्यते, तस्मादाह - परिगणनमिति । त्रतसोरुदाहृतम् । तरप्तमपो दर्शनीयतरा, दर्शनीयतमा । चरट्जातीयरोः पटुअचरी, पटुअजीतीया । कल्पदेशीयरोः - दर्शनीयकल्पा, दर्शनीयदेशीया । देश्यप्रत्ययस्य नास्ति पाठः । रुपप्पाशपोः दर्शनीयरुपा, पटुअपाशा । थम्थालोः - इदमस्थमुः, किमश्चेति विहितस्थमुः, प्रकारवचने थाल् अनया प्रकृत्या इत्थम्, कया प्रकृत्या कथम्, तया तथा । दार्हिलोः - तस्यां वेलायां तदा, तर्हि । तिल्थ्यनोः - वृकज्येष्टाभ्यां तिल्तातिलौ चच्छन्दसि, वृकी प्रशस्ता वृकतिः । तातिलो नासिति पाठः । अजाविभ्यां थ्यन् अजायै हिता अजथ्या । अत्र घरुपकल्पेषु ङ्यन्तस्य परत्वात् ह्रस्वः - पटिवतमा, पटिवकल्पा, पटिवरुपा । शसि बहूल्पार्थस्येति । बह्वल्पार्थात् इत्ययमपि शस् तसिलादिषु द्रष्टव्य इत्यर्थः । ङस्तिकमिति । यद्यत्र पुंवद्भावो न स्यत्, तदा हस्तिनीशब्दस्य यस्तेतिलोपे कृते तस्य स्थानिवत्वाद् असिद्धवदत्राभात् इत्यसिद्धत्वाच्च नस्तद्धिते इति टिलोपो न स्यादिति पुंबद्भावो विधीयते । ठक्च्छसोश्च इत्येनन पुंपद्भावो न लभ्यते च्छसा सहचरितस्य ठको ग्रहणात् । श्यैनेयः, रोहिणेय इति । श्येतरोहिताभ्याम् वर्णादनुदातात् इति । ङीब्नकारौ । अत्र पुंवद्भावे सति - श्यैतेयः, रौहितेय इति स्यात् । कथमित्यादि । यदि ढेअ पुंवद्भावः प्रतिषिध्यते, ततोऽग्नेः स्री वृषाकप्यग्निकुसितकुसिदानामुदातः इति अग्निशब्दान् ङीपि कृते ऐकारे आयादेशे च अग्नायी, स देवतास्य अग्नेर्ढक् इति, सर्वत्राग्निकलिभ्यां ढक् इति ढकि पुंवद्भावनिपेधादाग्नायेय इति प्राप्नोति, तत्कथमाग्नेय इति कर्तव्योऽत्र यत्न इति । केचिदाहुः - अढेअ इत्यपनीयानपत्य इति वक्तव्यम् । इदमपि सिद्धं भवति - कुण्डिन्या अपत्यमिति गर्गादिभ्यो यञ्, तत्र पुंवद्भावाभावाद्यस्येति लोपे तस्य स्थानिवद्भावात् नस्तद्धिते इत्यसति टिलोपे कौण्डिन्य इति भवति, एपुंवद्भावे तु सति कौण्ड।ल् इति प्राप्नोति । तथा सपत्न्या अपत्यं शिवादित्वादण्, तत्र पुंवद्भावाभावात् सापत्न इति भवति, पुंवद्भावे तु सति नित्यं सपत्न्यादिषु इति विहितयोर्ङीब्नकारयोनिवृतयोः सापत इति स्यात् । तदेवम्, अनपत्ये इति वचनाद् ढेअऽप्यनपत्ये पुंवद्भवति स आग्नेय इति । अपत्ये तु न भवति - श्यैनेयः, रौहिणेय इति । यद्यनपत्य इत्युच्यते, गर्गस्यापत्यं स्त्री गार्ग्यायणी, तस्या अपत्यम् गोत्रस्रियाः कुत्सने ण चेति णप्रत्यये कृते पुंवद्भावो न प्राप्नोति, ततश्च गार्ग्ययणो जाल्म इति स्यात्, गार्ग्यो जाल्म इति चेष्यते, तस्मादनपत्य इति न शक्यं वक्तुम्। कथं कौण्डिन्यः आगस्त्यकौण्डिन्ययोः इति निपातनात् सिद्धम् । कथं सापत्नः शत्रुपर्यायः सपत्नशब्दोऽस्तिः व्यन्सपत्ने इति लिङ्गात् । स शार्ङ्गरवादिषु पठितव्यः, ततः शिवाद्यण्, तस्मात् स्त्रीभ्योढक् इत्यत्रैव पुंवद्भावप्रतिषेध इति व्याख्यानमेवात्र शरणम् । ठक्च्छसोरिति । च्छसः सित्वात् सिति चेति पदसंज्ञाविधानाद्भत्वाभावाद् वचनम्, ठग्रहणं किमर्थम्, इकादेशे कृते भस्याढेअ इत्येव सिद्धे ठावस्थायामेव यथा स्यात् किमेवं सति भवति इसुसुक्तान्तात्कः इति कादेशाः सिद्धो भवति अन्यथा यदीकादेशे कृते पुंवद्भावः स्यात्, ततो यथा माथितिक इत्यत्रेकादेशे कृते कादेशो न भवति, एवं भावत्क इत्यत्रापि न स्यात् ॥ Nyaas ----- अनुत्तरपदार्थोऽयमारम्भः। `ततः` इति। **पञ्चम्यास्तसिल्** (5.3.7) । तस्य **प्राग्दिशो विभक्तिः** (5.3.1) इति विभक्तिसंज्ञकत्वात्? त्यदाद्यत्वम्? टाप्, अनेन पुंवद्भावः। `तत्र` इति। **सप्तम्यास्त्रल्** (5.3.10) । शेषं पूर्ववत्। `तसिलादिषु` इत्यादि। `तसिलादिष्वाकृत्वसुचः` इत्युच्यमाने तसिलादिष्वनन्तर्भूतेष्वपि क्वचित्? पुंवद्भाव इष्यते, स न प्राप्नोति। तत्रान्तर्भूतेऽपि क्वचिन्नेष्यते, एवं सत्यनिष्टमपि प्राप्नोति। तस्मात्? परिगणनं कर्तव्यम्। तत्र ततसोरुदाहरणमुक्तम्। शेषाणां तूच्यते - इयं षट्वी, इयं पट्वी इयमनयोरतिशयेन पट्वी - `द्विवचन` (5.3.57) इत्यादिना तरप् - पटुतरा। इयमासमतिशयेन पट्वी - `अतिशायने` (5.3.55) इत्याना तमप् - पटुतमा। पट्वी भूतपूर्वा - **भूतपूर्वे चरट्** (5.3.53) ङीप्, पटुचरी। पट्वीप्रकारा - प्रकारवचने जातीपर्? (5.3.69) - पटुजातीया। ईषदसमाप्ता पट्वी - **ईषदसमाप्तौ कल्पब्देश्यदेशीयरः** (5.3.67) पटुकल्पा पटुदेश्या, पटुदेशीया। प्रशस्ता पट्वी - `पशंसायां रूपप्` (5.3.66) - पटुरूपा। याप्या पट्वी - `याप्ये पाशप्` (5.3.47) - पटुपाशा। अजायै हिता - `अजाविम्यां थ्यन्` (5.1.8) अजथ्या। थ्यंस्तसिलादिभ्यः पूर्वं पठते। सर्वप्रकरैः सर्वथा, **प्रकारवचने थाल्** (5.3.23) । तस्यां रात्रौ तदा - **सर्वैकान्यकिंयत्तदः काले दा** (5.3.15) । अस्यां रात्रौ एतहिं - `इदमोर्हिल्` (5.3.16) । तत्रेदमः **एतेतौ रथोः** (5.3.4) इत्येतादेशः, प्रशस्ता वृकी वृकतिः। प्रशस्ता ज्येष्ठा ज्येष्ठतातिः - `वृकज्येष्ठाभ्यांतिल्तातिलौ च च्छन्दसि` (5.4.41) इति तिल्लातिलौ। एतौ च कृत्वासुचः परो पठएति। तसिलादिषु परिगणनं कर्तव्यमिति भाव्यकारस्य मतमेतत्, न तु सूत्रकारस्य। न चासति परिगणने किञ्चिदनिष्टमापद्यते। येषु हि तसिलादिष्वनन्तर्भूतेषु पुंवद्भाव इष्यते, तेषूततरसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्भविष्यति। येषु तसिलादिष्वन्तर्भूतेषु नेष्यते, तत्र **न कोपधायाः** (6.3.37) इति नेति योगविभागन्न भविष्यतीति।दोषः खल्वपि परिगणने - दरच्छब्दात्? कप्रत्यये दारदिकेत्यत्र पुंवद्भावो न प्राप्नोति; कप्रत्ययस्यापरिगणितत्वात्। `शसि बह्वल्पार्थस्य` इति। शसि प्रत्यये परतः बह्वर्थस्याल्पार्थस्य च पुंवद्भावो वक्तव्यः, व्यख्येय इत्यर्थः। व्याख्यानं तु तस्यैव चकारस्यानुक्तसमुच्चयार्थत्वामाश्रित्य कर्तव्यम्। `भस्याढे तद्धिते` इत्यादि। `हास्तिकम्` इति। **अचित्तहस्तिधेनोष्ठक्** (4.2.47) इति ठक्। यद्यत्र पुंवद्भावो न स्यात्? तद यस्ये (6.4.148) तीकारलोपे कृते तस्य **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति स्थानिवद्भावात **नस्तद्धिते** (6.4.144) इति टिलोपो न स्यात्? पुंवद्भावे तु सति हस्तिशब्द एवायं भवति। ननु च ठक्छसो (वा।732) रित्यनेनैवात्र सिध्यति पुंवद्भावः? न सिध्यति; न सिध्यति; छसा साहचर्यात्? **भवतष्ठक्छसौ** (4.2.115) [`भवतष्ठक्छसौ` - इति सूत्रम्] इत्यनैव विहितस्य तत्र ठको ग्रहणात्, न सर्वस्य। `कथम्` इत्यादि। यदि च ढे परतः पुंवद्भावस्य प्रतिषेधः क्रियते, तदाग्नायी देवतास्येति **अग्नेर्ढक्** (4.2.33) इति ढकि कृत आग्नायेय इति भवितव्यम्, तत्कथमाग्नेय इति भवतीत्यभिप्रायः। अग्नेः स्त्रीत्यस्यां विवक्षायां **वृषाकप्यग्निकुसितकुसीदानामुदात्तः** (4.1.37) इत्यनेनाग्निशब्दान्ङीपि कृत ऐकारे चान्तादेशेऽग्नायीति भवति। `कर्तव्योऽत्र यत्नः` इति। यत्नः केन पुनः कर्तव्यः? यः `भस्याढे तद्धिते` (वा।731) इत्युपसंख्यानमिच्छति। न तु यश्चकारमनुक्तसमुच्चयार्थमुत्तरसूत्रे करोति। स ह्रेवमाह - यत्रैवेष्यते तत्रैव चकारः पुवद्भावं समुचचिनोति, नान्यत्रेति। कः पुनरसौ यत्न इति? कश्चिदाह - `अपत्यग्रहणं ढस्य विशेषणं कर्तव्यम् - योऽपत्येऽढे` इति। तेनायमर्थो भवति - ढस्य तद्धेते पुंवद्भावो भवत्यपत्यार्थप्रत्ययं वर्जयित्वा। न चाग्नेयः, स्थालोपाक इत्यपत्यार्थे ढप्रत्ययः, किन्तु सास्य देवतेत्यर्थे, अतोऽत्र भवत्येव पुंवद्भाव इति। अन्यस्त्वाह - `भस्याढे तद्धिते` (वा।731) इति व्यधिकरणे सप्तम्यौ। यश्चात्र नञ्? सोऽल्पार्थे वर्तते, यथा अल्पलवणा यवागूरलवणेत्युच्यते। तत्रायमर्थो भवति - भस्य तद्धिते पुंवद्भावो वक्तव्योऽल्ये ढप्रात्यय इति। तेनाग्नेयः, स्थालीपाक इत्यत्र पुंवद्भावो भवति। श्यैनेय, रोहिणेय इत्यत्र तु न भवतीति। `ठक्छसोश्च` इत्यादि। अथ ठग्ग्रहणं किमर्थम्, यावता ठस्येकादेशे कृते `भस्याढे तद्धिते` (वा।731) इत्यनेनैव सिद्धः। ठावस्थायामेव यथा स्यादित्येवमर्थम्। किमेवं सति भवति? `इसुसुक्तान्तात्? कः (7.3.51) इति कः सिद्धो भवति; अन्यथा हि यदीकादेशे कृते पुंवद्भावः स्यात्? ततो यथा माथितिक इत्यत्रेकादेशो न भवति, तथा भावत्का इत्यत्रापि न स्यात्। `भावत्काः, भवदीयाः` इति। **भवतष्ठक्छसौ** (4.2.115) इति ठक्छसौ॥ Prakriyasarvasvam ----------------- तसिलादिषु कृत्वसुच्पर्यन्तेषु परेषु पुल्लिङ्गसाधारणस्यानूङ्स्त्रीलिङ्गस्य पुंवद्भावः स्यात् । तेन सर्वाशब्दस्यापि सर्वत इत्येव ॥ प्राग्दिशीयास्ततः पाशप्चरट्घा इष्ठरूपपौ । कल्पजातीयदेशीया इत्येव तसिलादयः ॥ ३४१ ॥ Vartika ------- शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । Sutra Prayogas -------------- * **प्रभातकल्पा** (रघुवंशम्): `तसिलादिष्वा कृत्वसुचः` इति `प्रभात`शब्दस्य पुंवद्भावः। * **कृतार्थता** (किरातार्जुनीयम्): `त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः` इति वार्त्तिकेन पुंवद्भावः। * **द्वारवतीत्वमासीत्** (शिशुपालवधम्): `स्वतलोर्गुणवचनस्य` (वा०) इति न पुंवद्भावः।