63028: इद्वृद्धौ ================ **Padacheda:** इत् | S | 1 | 1 | वृद्धौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The short इ is the substitute of the final of the अग्नि in such a द्वन्द समास in which both the members take the वृद्धि। Vasu English Translation ------------------------ The short इ is the substitute of the final of the अग्नि in such a द्वन्द समास in which both the members take the वृद्धि। Thus आग्निवारुणी, which would have required long ई by the last rule: आग्निमारुतम्, which would have required आनङ् by (6.3.26). Thus आग्निवारुणीमनड्वाहीमालभेत, आग्निमारुतं कर्म क्रियेत ॥ आग्नीमरुतौ देवताऽस्य (4.2.24), takes the *Taddhita* affix, and by (7.3.21), both members of the compound take *Vriddhi*. When both members do not take *Vriddhi*, the rule does not apply: as आग्नेन्द्रः (आग्न इन्द्र) because इन्द्र does not take *Vriddhi*, by (7.3.22). Vart:- Prohibition must be stated when the word विष्णु follows : as आग्नावैष्णवं चरुं निर्वपेत् ॥ Bhashya ------- इद्वृद्धौ (2887) (6420 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - इद्वृद्धौ विष्णोः प्रतिषेधः - इद्वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः । आग्नावैष्णवं चरुं निर्वपेत् ॥ Kashika ------- कृतवृद्धावुत्तरपदे देवताद्वन्द्वेऽग्नेरिकारादेशो भवति। आग्निवारुणीमनड्वाहीमालभेत (काठ० सं० १३.६)। आग्निमारुतं कर्म क्रियते। अग्नीवरुणौ देवते अस्य, अग्नामरुतौ देवते अस्येति तद्धितः। तत्र **देवताद्वन्द्वे च** (७.३.२१) इत्युभयपदवृद्धौ कृतायामानङम् ईत्वं च बाधितुमिकारः क्रियते। वृद्धाविति किम्? आग्नेन्द्रः। **नेन्द्रस्य परस्य**(७.३.२२) इत्युत्तरपदवृद्धिः प्रतिषिध्यते॥ इद् वृद्धौ विष्णोः प्रतिषेधो वक्त व्यः॥ आ॒ग्ना॒व॒ैष्ण॒व॑म् ए॑का॒दशकपालं॒ नि॑र्व॒पेत् (मै० सं० १.४.१४)॥ Siddhanta Kaumudi ----------------- वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्निवरुणौ देवते अस्य आग्निवारुणम् । देवताद्वन्द्वे च (SK1239) इत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङमीत्त्वं च बाधित्वा इत् । वृद्धौ किम् । आग्नेन्द्रः । नेन्द्रस्य परस्य (SK1240) इत्युत्तरपदवृद्धिप्रतिषेधः । (वार्तिकम्) ॥ आग्नावैष्णवम् ॥ Balamanorama ------------ **इद्वृद्धौ** - आगेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ ।देवताद्वन्द्वे चे॑त्यानङ् । आद्गुणः । अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः ।साऽस्य देवते॑त्यण् । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाऽभावात् । 'इद्वृद्धौ' इति नेति भावः ।देवताद्वन्द्वे चे॑त्युभयपदवृद्धिमाशङ्क्याह — नेन्द्रस्येति । विष्णौ नेति । विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । आग्नावैष्णवमिति । अग्नि ष्च विष्णुश्च -अग्नाविष्णू ।देवताद्वन्द्वे चे॑त्यानङ् । अगनाविष्णू देवते अस्येत्यर्थेसाऽस्य देवते॑त्यण् । आग्नावैष्णवं हविः ।देवताद्वन्द्वे चे॑त्युभयपदवृद्धिः । इत्त्वाऽभावादान व । Tattvabodhini ------------- **इद्वृद्धौ** - इद्वृद्धौ । तकार उच्चारणार्थः । इकारस्येकारविधानं तु बाधकबाधनार्थम् । वृद्धिशब्देनाऽत्र वृद्धिमद्गृह्रते, वृद्धिमात्रस्योत्तरपदस्याऽसंभवात् । अतो व्याचष्टे -वृद्धिमत्युत्तरपद इति । आनङमीत्वं च बाधित्वेति । यद्यपि वृद्धेः प्रागेव आनङीत्वयोरन्तरङ्गत्वात्प्रवृत्तिरस्ति, तथापिपरिह्मत्यापवादविषयमत्सुर्गोऽभिनिविशते, इति न्यायादानङीत्वे न भवत इति भावः । आग्नावेष्णवमिति । इत्वाऽभावादानङेव भवति । Padamanjari ----------- अत्र वृद्धिमदुतरपदं वृद्धिशब्देनोच्यते, वृद्ध्यात्मकस्योतरपदत्यासम्भवात् । अग्नीवरुणौ देवते अस्य, अग्नामरुतौ देवते अस्योति विग्रहः, पूर्वत्रेत्वम्, उतरत्रानङ् । द्व्यधिष्ठानं देवतात्वमिति । देवतेत्येकवचनम् । आनङ्मीत्वं च बाधितुमिति । वरुणे हीत्वस्य प्रसङ्गः, अन्यत्रानङ्ः । यद्यपि प्राग् वृद्धेविग्रहवाक्य एवानङीत्वयोः प्रसङ्गः, तथाप्यपवादविषयत्वात्प्रक्रियावाक्ये न क्रियेते, लौकिके तु वाक्ये भवत एव । इद्वृद्धौ विष्णोः प्रितिषेधः - आग्नावैष्णवमेकादशकपालं निर्वपेत् ॥ Nyaas ----- `अग्नेः` (6.3.26) इत्यनुवर्तते, `देवताद्वन्द्वे` (6.3.25) इति च। **ईदग्नेः सोमवरुणयोः** (6.3.27) इति निवृत्तम्। वृद्धिशब्देन साहचर्यात्? कृतवृद्ध्युत्तरपदं गृह्रते। अत एवाह -`कृतवृद्धावुत्तरपदे` इति। `आग्निवारुणीम्` इति। औत्सर्गिकेऽणि कृते `टिङ्ढाणञ्` (4.1.5) इति ङीप्। अत्रापि तकार उच्चारणार्थः॥ Prakriyasarvasvam ----------------- कृतवृद्धौ परपदेऽग्नेरित् स्यात् । अग्नामरुतौ देवतास्येत्याग्निमारुतं कर्म । विष्णौ परेऽग्नेरित्त्वं न । आग्नावैष्णवश्चरुरित्यानङेव ।। Vartika ------- विष्णौ न ।