63027: ईदग्नेः सोमवरुणयोः ========================= **Padacheda:** ईत् | S | 1 | 1 | अग्नेः | S | 6 | 1 | सोम-वरुणयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- For the final of अग्नि is substituted the long ई when 1. सोम or 2. वरुण follow. Vasu English Translation ------------------------ For the final of अग्नि is substituted the long ई when 1. सोम or 2. वरुण follow. Thus अग्नीषोमौ, अग्नीवरुणौ ॥ The स is changed to ष by (8.3.82). Kashika ------- सोम वरुण इत्येतयोर्देवताद्वन्द्वेऽग्नेरीकारादेशो भवति। अग्नी॑षोमौ (ऋ०१.९३.१)। अग्नीवरुणौ। **अग्नेःस्तुत्स्तोमसोमाः**(८.३.८२) इति षत्वम्॥ Siddhanta Kaumudi ----------------- देवताद्वन्द्वे इत्येव ॥ Balamanorama ------------ **ईदग्नेः सोमवरुणयोः** - ईदग्नेः । इत्येवेति । 'देवताद्वन्द्वे' इत्यनुवर्तत एवेत्यर्थः । सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्याद्देवताद्वन्द्वे इत्यर्थः । आनङोऽपवादः । Tattvabodhini ------------- **ईदग्नेः सोमवरुणयोः** - ईदग्नेः । आनङोऽपवादोऽयम् । देवताद्वन्द्व इत्येवेति । इदं च वृत्तिगन्थे स्थितम् । ज्यतिर्लतयोरदेवताद्वन्द्वेऽपिअग्नीषोमौप्रणेष्यामि॑इत्याआलायनप्रयोगस्त्वार्षत्वात्साधुः । यद्वा मास्तु तदनुवृत्तिः, अद्निसोमौ माणवकावित्यत्रअभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः॑इति न्यायेनाऽदोषत्वात् । Nyaas ----- आनङादेशापवादोऽयमीकारो विधीयते। तकार उच्चारणार्थः॥ Prakriyasarvasvam ----------------- अग्नीवरुणौ ।।