63020: स्थे च भाषायाम् ====================== **Padacheda:** स्थे | S | 7 | 1 | च | S | 0 | 0 | भाषायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Locative -7th case ending is not preserved before स्थ in the spoken language. Vasu English Translation ------------------------ The Locative -7th case ending is not preserved before स्थ in the spoken language. Thus विषमस्थः, कूटस्थः, पर्वतस्थः ॥ But आखरेष्ठः, in the *Veda*, as in कुष्णोस्याखरेष्ठः ॥ स is changed to ष by (8.3.106). Kashika ------- स्थे चोत्तरपदे भाषायां सप्तम्या अलुग् न भवति। समस्थः। विषमस्थः। कूटस्थः। पर्वतस्थः। भाषायामिति किम्? कृष्णो॑ऽस्याखरे॒ष्ठः(मा० सं० २.१)। **पूर्वपदात्** (८.३.१०४) इति षत्वम्॥ Siddhanta Kaumudi ----------------- सप्तम्या अलुङ्न । समस्थः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥ Balamanorama ------------ **स्थे च भाषायाम्** - स्थे च भाषायाम् ।अनन्तरस्ये॑ति न्यायात्तत्पुरुषे कृती॑त्यस्यैवायं निषेधः । अत एव 'अनेकमन्यपदार्थे' इति सूत्रभाष्येसप्तम्युपमानपूर्वपदस्ये॑ति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते । यदा तुअमूर्धंमस्तका॑दित्यस्याप्ययं निषेधः स्यात्तर्हि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात् । Padamanjari ----------- आखरेष्ठ इति । स्थः क चेति कः ॥ Nyaas ----- अयमपि `तत्पुरुषे` (6.3.13) इत्यादिना प्राप्तस्यालुकः प्रतिषेधः। `समस्थः` इति। समे तिष्ठतीति कः **आतो लोप इटि च** (6.4.64) इत्यकारलोपः।`कृष्णोऽस्याखरेष्ठः` [`कृष्णोऽस्याखरेष्ठा` इति मुद्रितः पाठः `कृष्णोऽस्याखरेष्ठः` काशिका मुद्रितः पाठः - वाराणसी। `कृष्णोभ्यारेष्ठः` - काशिका - सं।प।पाठः] इति। `स्थः कः च` (3.2.77) इति क्विप्प्रत्ययः॥ Prakriyasarvasvam ----------------- स्थे परे भाषायामलुङ् न । शैलस्थः । च्छन्दसि तु आखरेष्ठ इत्याद्य- लुगस्त्येव ॥