63012: अमूर्धमस्तकात् स्वाङ्गादकामे =================================== **Padacheda:** अमूर्धमस्तकात् | S | 5 | 1 | स्वाङ्गात् | S | 5 | 1 | अकामे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- is not elided after a word denoting a part of the body (with the exception of मूर्धन् and मस्तक) before every word other than काम। Vasu English Translation ------------------------ is not elided after a word denoting a part of the body (with the exception of मूर्धन् and मस्तक) before every word other than काम। Thus कण्ठे कालोऽस्य = कण्ठेकालः, उरसिलोमा, उदरेमणिः ॥ But मूर्धशिखः, मस्तकशिखः, मुखे कामोऽस्य = मुखकामः ॥ When the first member does not denote the name of a part of the body, the rule does not apply: as अक्षशौण्डः, nor does it apply when the first member does not end in a consonant or अ, as अंगुलित्राणः, जङ्घावलिः ॥ Kashika ------- मूर्धमस्तकवर्जितात् स्वाङ्गादुत्तरस्याः सप्तम्या अकाम उत्तरपदेऽलुग् भवति। कण्ठे कालोऽस्य कण्ठेकालः। उरसिलोमा। उदरेमणिः। अमूर्धमस्तकादिति किम्? मूर्धशिखः। मस्तकशिखः। अकाम इति किम्? मुखे कामोऽस्य मुखकामः। स्वाङ्गादिति किम्? अक्षशौण्डः। हलदन्तादित्येव — अङ्गुलित्राणः। जङ्घावलिः॥ Siddhanta Kaumudi ----------------- कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकात् किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥ Balamanorama ------------ **अमूर्धमस्तकात् स्वाङ्गादकामे** - अमूर्धमस्तकात् । मूर्धंमस्तकशब्दवर्जितात्स्वाङ्गवाचकात्सप्तम्या अलुक्स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः । अत्र संज्ञायामित्यनुवर्तते । अत एवह्मद्द्युभ्यां चे॑त्यत्र ह्मद्ग्रहणमर्थवत् । कण्ठेकाल इति । शिवस्य नाम । उरसिलोमेति । कस्यचिन्नाम । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । Padamanjari ----------- उदाहरणेषु प्रत्युदारहणेषु च व्यधिकरणपदो बहुव्रीहिः । अक्षशौण्ड इति । सप्तमी शौण्ड्èअः इति तत्पुरुषः ॥ Nyaas ----- स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं यत्? तदिह गृह्रते। `कण्ठेकालः` इति बहुव्रीहिः। `व्यधिकरणानामपि `बहुव्रीहिर्भवत्येव` इति बहुव्रीहिः। `समानाधिकरण` (वा।97) इत्येतत्? प्रायकम्। `अक्षशौण्डः` इति। **सप्तमी शौण्डैः** (2.1.40) इति समासः। `अङ्गुलित्राणजङ्घावलो` सप्तमीतत्पुरुषौ॥ Prakriyasarvasvam ----------------- मूर्धमस्तकवर्जिताद्धलदन्तात् स्वाङ्गात् परायाः सप्तम्याः कामवर्जिते परपदेऽलुक् स्यात् । सप्तम्युपमानेति समासः । कण्ठे स्थितः कालवर्णोऽस्येति कण्ठेकालः । वहेगडुः । उरसिलोमा । उदरेमणिः । मूर्द्धमकुटो मस्तकशिख इत्यत्र न । मुखे कामोऽस्येति मुखकाम इत्यत्रापि न । Sutra Prayogas -------------- * **शिरसिजसंयमनाकुलैकपाणिः** (किरातार्जुनीयम्): `अमूर्धमस्तकात्स्वाङ्गादकामे` इति सप्तम्या अलुक्। * **कणठेगुणत्वम्** (शिशुपालवधम्): `अमूर्धमस्तकात्स्वाङ्गादकामे` इत्यलुक्। * **दिवि-ष्ठामिव** (भट्टिकाव्यम्): `तत्पुरुषे कृति बहुलम्` इति सप्तम्या अलुक् ।