63005: आज्ञायिनि च ================== **Padacheda:** आज्ञायिनि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- Also before आज्ञायिन् the Instrumental -3rd case endings of मनस् are not elided. Vasu English Translation ------------------------ Also before आज्ञायिन् the Instrumental -3rd case endings of मनस् are not elided. Thus मनसाज्ञायिन् = मनसाऽऽज्ञातुं शीलमस्य ॥ Bhashya ------- आज्ञायिनि च (2864) (6395 उपसंख्यानवार्तिकम् ॥ 1 ॥) - आत्मनश्च पूरणे - आत्मनश्च पूरण उपसंख्यानं कर्तव्यम् । आत्मनापञ्चमः, आत्मनादशमः ॥ (6396 उपसंख्यानवार्तिकम् ॥ 2 ॥) - अन्यार्थे च - अन्यार्थे चैषा तृतीया द्रष्टव्या । आत्मा पञ्चमोऽस्य आत्मनापञ्चमः, आत्मनादशमः ॥ अथवा युक्त एवात्र तृतीयार्थः । आत्मना कृतं तस्य तत् येनासौ पञ्चमः । कथं - जनार्दनस्त्वात्मचतुर्थ एव - इति ? । बहुव्रीहिरयम् । आत्मा चतुर्थोऽस्येति ॥ Kashika ------- आज्ञायिन्युत्तरपदे मनस उत्तरस्यास्तृतीयाया अलुग् भवति। मनसा आज्ञातुं शीलमस्य मनसाज्ञायी। Siddhanta Kaumudi ----------------- मनस इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥ Balamanorama ------------ **आज्ञायिनि च** - आज्ञायिनि च । मनस इत्येवेति । अनुवर्तत एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्यादाज्ञायिनि परे इत्यर्थः । असंज्ञार्थमिदम् । ज्ञातुमिति । प्रेरयितुमित्यर्थः । मनसाज्ञायीति । 'सुप्यजातौ' इति णिनिः ।आतो युक्चिण्कृतो॑रिति युक् । अत्र सूत्रभाष्येआत्मनश्च पूरणे उपसङ्ख्यान॑मिति वार्तिकं पठितम् । Nyaas ----- `मनसाज्ञायी` इति। तच्छिलिको णिनिः, `आतो युक्? चिण्कृतोः` (7.3.33) इति युगागमः, उपपदसमासः॥ Prakriyasarvasvam ----------------- अस्मिन् परपदे मनसस्तृतीयाया अलुक् स्यात् । मनसा समन्ताज्ज्ञानशीलो मनसाज्ञायी ॥