62172: नञ्सुभ्याम् ================== **Padacheda:** नञ्सुभ्याम् | S | 5 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- In a बहुव्रीहि समास formed by the negative particle नञ् or by सु has the acute accent (उदात्त) on the last syllable of the compound. Vasu English Translation ------------------------ In a बहुव्रीहि समास formed by the negative particle नञ् or by सु has the acute accent (उदात्त) on the last syllable of the compound. Thus अयवो꣡ देशः, अव्रीहिः꣡, अमाषः꣡, सुयवः꣡, सुव्रीहिः꣡, सुमाषः꣡ ॥ The acute here rests on the last syllable of the completed compound; so that the rule applies to the compounds which have fully developed themselves by taking the *samasanta* affixes. Thus अनृचः꣡ (formed by the *samasanta* affix अ (5.4.74)). Though the word समास and उत्तरपद are both present here by context, yet the operation is performed on *samasa*. This is to be inferred, because of the next *sutra*. For had the present *sutra* meant that the final of the second member (उत्तरपद) preceded by नञ् and सु gets the acute, then there would have been no necessity of the next *sutra*, for the present would have covered the case of सुकुमारीक &c because कप् is not a part of the second term (*uttarapada*) कुमारी but of the compound (*Samasa*) सुकुमारी; and therefore, if we translated the present *sutra*, by saying that the end of second term gets acute, the accent would have fallen on ई in सुकुमारीकः even by this *sutra*. But this is not intended, because of the accent of the *samasanta* words अनृचः and बह्वृचः ॥ There is necessity of the next *sutra*, because a *samasa* includes not only the simple *samasa*, but one ending with a *samasanta* affix. Therefore, had not the next *sutra* been made, the accent would have fallen on क and not on ई, for the affix कप् is considered part of the *samasa* and not of the *uttarapada* समासान्तः समासस्यैवावयवः नोत्तरपदस्य ॥ Kashika ------- नञ्सुभ्यां परमुत्तरपदं बहुव्रीहौ समासेऽन्तोदात्तं भवति। अ॒य॒वो देशः। अ॒व्री॒हिः। अ॒मा॒षः। सु॒य॒वः। सु॒व्री॒हिः। सु॒मा॒षः। समासस्यैतदन्तोदात्तत्वमिष्यते। समासान्ताश्चावयवा भवन्तीति अ॒नृ॒चो ब॒ह्वृ॒च इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति॥ Siddhanta Kaumudi ----------------- बहुव्रीहावुत्तरपदमन्तोदात्तम् । अव्रीहिः । सुमाषः ॥ Padamanjari ----------- समासस्यैतदित्यादि । यद्यपि समास उतरपदं चेति प्रकृतम्, तथाप्यत्र समासस्येव कार्यिर्त्वामष्यते । एतच्च कपि पूर्वम् इति वचनादवसीयते । यदि ह्यनेनोतरपदस्यान्तोदातत्वं स्यात्, ततोऽकृमारीक इत्यादावनेनैव समद्धत्वात् अपि पूर्वम् इति न वाच्यं स्यात् । समासान्ताश्च समासवयवा भवन्तीति । समासान्ता इत्यत्रान्तग्रहणमेतदर्थम् - समासान्ताः समासग्रहणेन यथा गृह्यएरन्निति, तेनानृच इत्यादौ कृते समासान्ते तस्यैव समासान्तस्योदातत्वं भवति । वहवृचेति । बहोर्नञ्वद् इत्यतिदेशादिदमत्रोदाहृतम् । एतच्च समासान्ताः समासस्यैवावयवाः, नोतरपदस्य इत्याश्रित्योक्तम् । न कपि इत्यत्र तु पूर्वं समासान्तेषु पश्चातदन्तेन समासः इति वक्ष्यति ॥ Nyaas ----- `अयवो देशः` इत्यादि। यवव्रीहिमाषाः `तृणधान्यानाञ्च द्व्यषाम्` (फि।सू।2।27) इत्याद्युदात्तः। `समासस्य` इत्यादि। इह समासः प्रकृत उत्तरपदं च। तत्र यद्युत्तरपदस्यैतदन्तोदात्तत्वं स्यात्? अनृचो बह्वृच इत्यत्र `ऋक्पूरब्धूः` (5.4.74) इत्यादिनाकारे समासान्ते कृते ततः पूर्वस्य ऋक्शब्दस्योत्तरपदस्यान्तोदात्तत्वं प्रसज्येत। समासस्य त्वन्तोदात्तत्वं विधीयमानमकारस्यैव भवति; तस्य समासावयवत्वात्। समासावयवत्वं तु **समासान्ताः** (5.4.68) इत्याधिकृत्य विधानात्। तस्मात्? समासावयवस्यैतदन्तोदात्तत्वमिष्यते। कथं पुनरिष्यमाणमुपि लभ्यते? **कपि पूर्वम्** (6.2.173) इत्यत्र पूर्वग्रहणात्। तद्धि पूर्वग्रहणमनेन समास्सयान्तोदात्तत्वं विधीयमानं समासावयवस्य कप एव मा भूदित्येवमर्थं क्रियते। यदि तूभयपदस्यैतदन्तोदात्तत्वं स्यात्, तदान्तरेणापि कपिपूर्वग्रहणं कपिपूर्वस्योत्तरपदस्य सात्, न कपः; न हि कबुत्तरपदस्यावयवः, ततश्च पूर्वग्रहणनर्थकम्। इदं तावत् -`समासान्ताःप्रत्ययाः समासस्यैवावयवाः, नोत्तरपदस्य` इत्येतद्दर्शनमङ्गीकृत्योक्तम्। इदानीं `उत्तरपदस्यापि तेऽवयवाः, इत्येतद्दर्शनमाश्रित्याह -`समासान्ताश्च` इत्यादि। उत्तरपदं चेति शेषः। एतदन्तोदात्तत्वमिष्यत इति प्रकृतेन सम्बन्धः। इतिकरणो हेतौ। अथ वा -उत्तरपदस्यैवैतदन्तोदात्तत्वमिष्यते। कुतः? समासान्ता उत्तरपदावयवा भवन्तीत्यतो हेतोः। तेनानुचः बह्वृच इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति, तच्चोत्तरपदस्य भवेत्। तस्यैव समासान्तस्य भवति, तस्योत्तरपदावयवत्वादिति भावः। सान्तेऽन्तोदात्तत्वं भवति, तच्चोततरपदसय भवेत्। तस्यैव समासान्तस्य भवति, तस्योत्तरपदावयवत्वादिति भावः। यदि हि समासान्ता उत्तरपदावयवा न स्युः, तत उत्तरपदावयवस्यन्तोदात्तत्वं विधीयमानं समासान्तस्य न स्यात्। उत्तरपदावयवत्वे हि समासान्तानां तस्यैव समासान्तस्य भवति। कथं पुनः समासान्तानामुत्तरपदावयवत्वम्? समासार्थादुत्तरपदात्? पूर्वं समासान्तं विधाय पश्चात्? तदन्तेन समासविधानात्। तथा हि `न कपि` (7.4.14) इत्यत्र वक्ष्यति `**गोस्त्रियोरुपसर्जनस्य** (1.2.48) इतययमपि ह्यसवः कपि न भवति। समासार्थे ह्रुत्तरपदे कपि कृते पश्चात्? कबन्तेन सह समासेन भवितव्यममिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति` इति। समासान्तप्रत्ययान्तेन च पदेन यदि समासः क्रियते, तदा `तन्मध्ये पतितास्तद्ग्रहणेन गृह्यन्ते` (व्या।प।21) इति समासान्तः प्रत्ययः उत्तरपदावयवा भवन्ति। यद्यवम्, समासावयवत्वं तेषां नोपपद्यते? नैतदस्ति; अवयवावयवोऽपि हि समुदायावयवो भवति, तथा हि -`देवदत्तायाः सर्वेऽवयवा अलङ्क्रियन्ताम्` इत्युक्ते देवदत्तावयकस्य येऽवयवा अङ्गुल्यादयस्येऽप्यलङ्क्तियन्ते॥ Prakriyasarvasvam ----------------- आभ्यां परमन्तोदात्तं स्यात् । अयवो देशः । सुयवः । समासस्यायं विधिरिष्टः इत्यनृचे समासान्ते कृतेऽपि स्यात् ।