62143: अन्तः ============ **Padacheda:** अन्तः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the following sūtras up to the end of this chapter should always be supplied the phrase 'the last syllable of the second member has the acute accent (उदात्त)'. Vasu English Translation ------------------------ In the following sūtras up to the end of this chapter should always be supplied the phrase 'the last syllable of the second member has the acute accent (उदात्त)'. The application is given in the next *sutra*. Bhashya ------- अन्तः (2803) (अन्तशब्दस्य विशेषणद्वयाक्षेपकभाष्यम्) किं समासस्यान्त उदात्तो भवति, आहोस्विदुत्तरपदस्य ? कुतः संदेहः ? उभयं प्रकृतम्, तत्रान्यतरच्छक्यं विशेषयितुम् । कश्चात्र विशेषः ? (6371 समासस्यान्तस्वीकारे दोषवार्तिकम् ॥ 1 ॥) - अन्तोदात्तत्वं समासस्येति चेत्कप्युपसंख्यानम् - अन्तोदात्तत्वं समासस्येति चेत् कप्युपसंख्यानं कर्तव्यम् । इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने कपि चेति वक्तव्यम् । इहापि यथा स्यात् - ःइदंप्रथमकाः । अस्तु तर्ह्युत्तरपदस्य ॥ (6372 उत्तरपदस्यान्तस्वीकारे दोषवार्तिकम् ॥ 2 ॥) - उत्तरपदान्तोदात्तत्वे नञ्ञ्सुभ्यां समासान्तोदात्तत्वम् - उत्तरपदस्यान्तोदात्तत्वे नञ्ञ्सुभ्यां समासान्तोदात्तत्वं वक्तव्यम् । अनृचः बह्वृचः ॥ (उत्तरपदस्यान्तस्वीकारे दोषभाष्यम्) अपर आह - उत्तरपदान्तोदात्तत्वे नञ्ञ्सुभ्यां समासान्तोदात्तत्वं वक्तव्यम् । अज्ञकः, अस्वकः । कपि पूर्वम् (6.2.173) इत्यस्यापवादः - ह्रस्वान्तेऽन्त्यात्पूर्वम् (174) इति । तत्र ह्रस्वान्तेऽन्त्यात्पूर्व उदात्तभावी नास्तीति कृत्वोत्सर्गेणान्तोदात्तत्वं प्राप्नोति ॥ (6373 अपरमतप्राप्तदोषवारकवार्तिकम् ॥ 3 ॥) - न वा कपि पूर्ववचनं ज्ञापकमुत्तरपदानन्तोदात्तत्वस्य - न वा एष दोषः । किं कारणम् ? यदयं कपि पूर्वमित्याह, तत् ज्ञापयत्याचार्यः - उत्तरपदस्यान्तोदात्तत्वं न भवतीति ॥ एवमवपि कुत एतत् - समासस्यान्त उदात्तो भवतीति ? (6374 दोषवारणसमर्थकवार्तिकम् ॥ 4 ॥) - प्रकरणाच्च समासान्तोदात्तत्वम् - प्रकृतं समासग्रहणमनुवर्तते । क्व प्रकृतम् ? चौ समासस्य (6-1-222;223) इति ॥ (प्रथमदोषनिवारकभाष्यम्) ननु चोक्तम् - अन्तोदात्तत्वं समासस्येति चेत् कपि उपसंख्यानमिति । नैष दोषः । उत्तरपदग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? उत्तरपदादिः (6.2.111) इति । तत्रैवमभिसंबन्धः करिष्यते - नञ्ञ्सुभ्यां समासस्यान्त उदात्तो भवतीति । इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने, उत्तरपदस्येति ॥ Kashika ------- अन्त इत्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र समासस्योत्तरपदस्यान्त उदात्तो भवतीत्येवं तद् वेदितव्यम्। वक्ष्यति — **थाथघञ्क्त ाजबित्रकाणाम्**(६.२.१४४) इति। सु॒नी॒थः। अ॒व॒भृ॒थः॥ Siddhanta Kaumudi ----------------- अधिकारोऽयम् ॥ Padamanjari ----------- तत्र समासस्योतरपदस्वेति । क्वचित् समासस्यान्त उदातो भवति, क्वचिदुतरपदस्येत्यर्थः । विषयविभागमुतरत्र दर्शयिष्यति ॥