62139: गतिकारकोपपदात् कृत् ========================== **Padacheda:** गतिकारक-उपपदात् | S | 5 | 1 | कृत् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a तत्-पुरुष समास a word ending in a कृत् affix preserves its original accent when preceded by an indeclinable called गति -- गतिश्च (1.4.60), or a noun standing in intimate relation to a verb (कारक) or any word which gives occasion for compounding (उपपद -- तत्रोपपदं सप्तमीस्थम् (3.1.92)) Vasu English Translation ------------------------ In a तत्-पुरुष समास a word ending in a कृत् affix preserves its original accent when preceded by an indeclinable called गति -- गतिश्च (1.4.60), or a noun standing in intimate relation to a verb (कारक) or any word which gives occasion for compounding (उपपद -- तत्रोपपदं सप्तमीस्थम् (3.1.92)) The above is according to Professor Bohtlingk. Thus प्रका꣡रकः, प्रक꣡रणम्, प्रहा꣡रकः, प्रह꣡रणम् ॥ The compounding is here by (2.2.18). With *karaka*-word we have :- इध्मव्र꣡श्चनः, पलाशशा꣡तनः, श्मश्रुक꣡ल्पनः (3.3.117). With *upapada* words, we have :- ईषत्क꣡रः, दुष्क꣡रः, सुक꣡रः ॥ All these are formed by लित् affixes and the accent is governed by (6.1.193). i. e. the word व्रश्चन is formed by ल्युट् (इध्मं प्रवृश्च्यते येन); so also with शातन (पलाशानि शात्यन्ते येन स दण्डः); so also with कल्पन (श्मश्रु कल्पते येन स क्षुरादिः) Why do we say "after a *Gati*, *Karaka*, or an *Upapada* word?" Observe देवदत्तस्यकारकः = देवदत्तकारकः ॥ Here the Genitive in देवदत्त does not express a *karaka* relation. The genitive is here a शेष लक्षणा षष्ठी denoting a possessor and not a कर्मलक्षणा one: for had it been latter, there would have been no compounding at all, by (2.2.16). see also (2.3.65). The word कृत् is employed in the *sutra* for the sake of distinctness; for a *gati*, *karaka* or *upapada* could not be followed by any other word than a *krit*-formed word, if there is to be a *samasa*. For two sorts of affixes come after a root (*dhatu*) namely तिङ् and कृत् ॥ A *samasa* can take place with *krit*-formed. words, but not with *tinanta* words. So that without employing कृत् in the *sutra*, we could have inferred that कृत् was meant. Therefore, it is said the '*Krit*' is employed in the *sutra* for the sake of distinctness. According to this view we explain the accent in प्रपचतितराम्, प्रपचतितमाम्, by saying that first compounding takes place with प्र and the words पचतितर and पचतितम ending in तरप् and तमप् and then आम्, is added and the accent of the whole word is regulated by आम् by the rule of सतिशिष्ट (see (5.3.56) and (5.4.11). According to others, the कृत् is taken in this *sutra*, in order to prevent the *gati* accent applying to verbal compounds in words like प्र꣡पचति देश्यः, or प्र꣡पचति देशीयं (5.3.67), or प्र꣡पचतिरूपम् (5.3.66). The accent of these will be governed by the rule of the Indeclinable first term retaining its accent. Bhashya ------- गतिकारकोपपदात्कृत् (2799) (गतिकारकपदप्रयोजनभाष्यम्) गतिकारकोपपदादिति किमर्थम् ? इह मा भूत् - परमं कारकं - परमकारकम् । गतिकारकोपपदादित्युच्यमानेऽप्यत्र प्राप्नोति । एतदपि हि कारकम् । इदं तर्हि - देवदत्तस्य कारकं - देवदत्तकारकम् ॥ इदं चाप्युदाहरणम् - परमं कारकं - परमकारकमिति । ननु चोक्तं - गतिकारकोपपदादित्युच्यमानेऽप्यत्र प्राप्नोति, एतदपि हि कारकमिति । नैतत्कारकम् । कारकविशेषणमेतत् । यावद् ब्रूयात् - प्रकृष्टं कारकं शोभनं कारकमिति, तावदेतत्परमकारकमिति ॥ (कृद्ग्रहणप्रयोजनभाष्यम्) अथ कृद्ग्रहणं किमर्थम् ? इह मा भूत् - निष्कौशाम्बिः, निर्वाराणसिरिति । अत उत्तरं पठति - (6369 कृद्ग्रहणानर्थक्यबोधकवार्तिकम् ॥ 1 ॥) - गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणानर्थक्यमन्यस्योत्तरपदस्याभावात् - गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणमनर्थकम् । किं कारणम् ? अन्यस्योत्तरपदस्याभावात् । न ह्यन्यद्गत्यादिभ्य उत्तरपदमस्ति, अन्यदतः कृतः । किं कारणम् ? धातोर्हि द्वये प्रत्यया विधीयन्ते - तिङः, कृतश्च । तत्र कृता सह समासो भवति, तिङा च न भवति । तत्रान्तरेण कृद्ग्रहणं कृत एव भविष्यति ॥ ननु चेदानीमेवोदाहृतम् - निष्कौशाम्बिः, निर्वाराणसिरिति । यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतः, न च निसः कौशाम्बीशब्दं प्रति क्रियायोगः ॥ (6370 कृद्ग्रहणप्रयोजनवार्तिकम् ॥ 2 ॥) - कृत्प्रकृतौ वा गतित्वादधिकार्थं कृद्ग्रहणम् - कृत्प्रकृतौ तर्हि गतित्वादधिकार्थं कृद्ग्रहणं कर्तव्यम् । कृत्प्रकृतिर्धातुः । धातुं च प्रति क्रियायोगः । तत्र यत्क्रियायुक्तास्तं प्रति - इति इहैव स्यात् - प्रणीः, उन्नीः - इति । इह न स्यात् - प्रणायकः, उन्नायकः ॥ (वार्तिकप्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम् । यत्क्रियायुक्ता इति नैवं विज्ञायते - यस्य क्रिया - यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति । कथं तर्हि ? या क्रिया - यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति । न च कश्चित्केवलः शब्दोऽस्ति यस्तस्यार्थस्य वाचकः स्यात् । केवलस्तस्यार्थस्य वाचको नास्तीति कृत्वा कृदधिकस्य भविष्यति ॥ (कृद्ग्रहणप्रयोजनभाष्यम्) ननु चायं तस्यैवार्थस्य वाचकः - प्रणीः, उन्नीरिति । एषोऽपि हि कर्तृविशिष्टस्यैव ॥ अयं तर्हि तस्यैवार्थस्य वाचकः - प्रभवनमिति । तस्मात्कृद्ग्रहणं कर्तव्यम् ॥ (कृद्ग्रहणेऽतिव्याप्त्यव्याप्तिनिरासभाष्यम्) यदि कृद्ग्रहणं क्रियते, आमन्ते स्वरो न प्राप्नोति - प्रपचतितराम्, प्रजल्पतितराम्, प्रजल्पतितमाम् ॥ असति पुनः कृद्ग्रहणे क्रियाप्रधानमाख्यातम्, तस्यातिशये तरबुत्पद्यते । तरबन्तात् स्वार्थे आम्, तत्र यत्क्रियायुक्ता इति भवत्येव संघातं प्रति क्रियायोगः । न च कश्चित् केवलः शब्दोऽस्ति यस्तस्यार्थस्य वाचकः स्यात्, केवलस्तस्यार्थस्य वाचको नास्तीति कृत्वाऽधिकस्य भविष्यति । ननु चायं तस्यार्थस्य वाचकः - प्रभवनमिति । एषोऽपि हि द्रव्यविशिष्टस्य वाचकः । कथम् ? कृदभिहितो भावो द्रव्यवद्भवति क्रियावदपीति ॥ Kashika ------- तत्पुरुष इति वर्तते, न बहुव्रीहाविति। गतेः कारकादुपपदात् च कृदन्तमुत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति। प्र॒कार॑कः। प्॒रकर॑णम्। प्॒रहार॑कः। प्र॒हर॑णम्। कारकात् — इ॒ध्म॒प्॒रव्रश्च॑नः। प॒ला॒श॒शात॑नः। श्म॒श्रु॒कल्प॑नः। उपपदार्त् — इ॒ष॒त्करः॑। दु॒ष्करः॑। सु॒करः॑। सर्वत्रैवात्र लित्स्वरः। गतिकारकोपपदादिति किम्? देवदत्तस्य कारको दे॒व॒द॒त्त॒का॒र॒कः। देवदत्तस्येति शेषलक्षणा षष्ठी। कृद्ग्रहणं विस्पष्टार्थम्। प्र॒प॒च॒ति॒त॒राम्, प्॒रप॒च॒ति॒त॒माम् इत्यत्र तरबाद्यन्तेन समासे कृते पश्चादाम्। तत्र सतिशिष्टत्वादाम एव स्वरो भवतीत्येके। प्रपचतिदेश्याद्यर्थं तु कृद्ग्रहणं दृश्यत एव॥ Siddhanta Kaumudi ----------------- एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे । प्रकारकः । प्रहरणम् । शोणा धृष्णू नृवाहसा (शोणा॑ धृ॒ष्णू नृ॒वाह॑सा) । इध्मप्रव्रश्चनः । उपपदात् । उच्चैःकारम् । ईषत्करः । गतीति किम् । देवस्य कारकः । शेषलक्षणा षष्ठी । कृद्ग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादम्स्वरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये ॥ Padamanjari ----------- प्रकारक इत्यादौ कुगतिप्रादयः इति समासः । इध्मप्रव्रश्चानादौ कर्मणि षष्ठयाः समासः, करणे ल्युट्, इध्मं प्रवृश्च्यते येन सोऽत्र इध्मप्रवश्चनः, शद्लृ शातने, णिच्, शदेरगतौ तः । पलशानि शात्यन्ते येन स दण्डः पराशशतनः । श्मश्रु कल्प्यते येन स क्षुरादिः श्मश्रुकल्पनः । कृपू सामर्थ्ये ण्यन्तः , केवलो वा । ईषत्कर इति । एतदुपपदग्रहणस्य साक्षादुदाहरणम्। सुदुरोस्तु गतित्वादपि सिद्धम्, स्तम्बेरमादौ च कारकत्वात् । उच्चैः कृत्य उच्चैः कारमित्यादिकमप्युपदगरह्णस्यैवोदाहरणम्। देवदतस्येति शेषलक्षणा षष्ठीति । न कर्मलक्षणा, तथा हि सति कारकमेव देवदेतः स्यात्, तृजकाभ्यां कर्तेरि चेति समासप्रतिषेधप्रसङ्श्च । अथ कृद्ग्रहणं किमर्थंम् निर्गतः कौशाम्ब्याः निष्कौशाम्बिरित्यत्र मा भूत् । नैतदस्ति प्रयोजनम्, एयत्क्रियायुक्ताः पारदयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, न च कैशाम्बीशब्दं प्रति क्रियायोगः, कारकमपि क्रियाया एव सम्भवति, उपपदमपि धात्वधिकारे सप्तमीनिर्दिष्ट्ंअ प्रत्ययनिमितमुच्चते तदेवं गत्यादिभिस्त्रिभिरपि क्रियावाच्युतरपदमाक्षिप्यते, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतः तिङ्श्च, तत्र तिङ्न्ते समासाभावात्कृदन्तमेव सम्भवतीति अनुव्यचलदित्यत्र तु न गतित्वनिबन्धनः समासः किं तर्हि सुबिति योगविभागनिबन्धनः धातुप्रत्ययसमुदायपरिग्रहार्थं तु, अन्यथा यत्क्रियायुक्तास्तं प्रतीति वचनाद्धातुमेव प्रति गतित्वाद्धातावेवोतरपदे स्वरः स्यात् - प्रणीः, उन्नीरिति इह न स्यात् - प्रणयकः ,उन्नायक इति । एतदपि नास्ति प्रयोजनम् यत्क्रियायुक्ताः इति नैवं विज्ञायते - यस्य क्रिया यत्क्रिया यत्क्रियायुक्तास्तं प्रतीति, एवं विज्ञायमाने त्वन्वयव्यतिरेकाभ्यां धातोरेव क्रिया वाच्येति तमेव प्रति गत्युपसर्गसंज्ञाप्रसङ्गः, कथं तर्हि विज्ञायते । या क्रिया यत्क्रिया तं क्रियालक्षणमर्थं प्रतिगत्युपसर्गसंज्ञे भवतः, केवलायाश्च क्रियाया वाचकमुतरपदं नास्तीति क्रियाविशिष्टसाधनवाचिनि प्रणीः, प्रकारक इत्यादौ क्रियायां सिद्धताभिधायिनि, प्रभवनमित्यादौ च सर्वत्र भविष्यतीति नार्थ एतेन कृद्ग्रहणेन अत आह - कृद्ग्रहणं विस्पष्टार्थमिति । य एवं प्रतिपतुमसमर्थस्तं प्रति विस्पष्टार्थं क्रियत इत्यर्थः । यदि तर्हि विस्पष्टार्थमपि तावत्कृद्ग्रहणं क्रियते, आमन्ते तर्हि न प्राप्नोति - प्रपचतितराम्, प्रपचतितमामिति, ततश्च समासस्वरं बाधित्वाऽव्ययस्वर एव स्यात् इत्यत आह - प्रपचतितरामित्यादि । अत्र हि प्रशब्दस्य तरबन्तेन समासः, नामन्तेन । कथमन्तरङ्गत्वाद्धातुः पूर्वमुपसर्गेण युज्यते, प्रपचित्यस्यामवस्थायां सुबभावात् समासो न कृत इत्येतावत्, ततस्तिङ्, तस्यामप्यवस्थायां सुबभावः, ततस्तरप्, तद्धितान्तत्वात्सुप् , तेन समासः, ततश्चाम्प्रत्ययः, तत आम्श्वरः सतिशिष्टः । कथं पुनस्तरवन्तेन समासः कथं च न स्यात् गतिकारकोपपदानां कृद्भिः सह समासवचनम् इति वचनात् नात्र कृद्भरेव समास इति नियम्यते, कि तर्हि यदि गत्यादीनां समासो भवति तेनतेन लक्षणेन, तदा कृद्भिः प्रक् सुबुत्पत्त्एरिति ननु चेवमपि तरबन्तेन समासो न लभ्यते, कि कारणमसुबन्तत्वात् प्रतिपदिकाधिकाराद्धि तत एव किमेतिङ्व्ययधात् इत्याम् भवति, न सुबन्तात् , न च गतिकारकोपपदानामित्येतदस्ति, अकृदन्तत्वात् अत्राहुः - घकालतनेषु इति ज्ञापकात्सुबन्तादेव सर्वे तद्धिताः, ङ्याप्प्रातिपदिकग्रहणं तु वृद्धाद्यर्थमेवाधिक्रियते, ततश्चामुत्पतये यः सुप् तदन्तेन समअस इति । अपर आह - कुगतिप्रादयः इत्यत्रातिङिति वक्ष्यमाणस्य प्रतिकर्षादुतरपदमसुबन्तमेव समस्तयते, ततश्च तरबन्तेन समासो लभ्यत इति । इत्येक इति । अस्य कृद्ग्रहणं विस्पष्टार्थम्, न चामन्ते दोषप्रसङ्ग इत्येवं केचिद्व्याचक्षते । प्रपचिदेश्याद्यर्थं त्वित्यादि । तुशब्दः पक्षं व्यावर्तयति । आदिशब्देन प्रपचतिकल्पम् , प्रपचतिदेशीयम्, प्रपचतिरुपमित्येतेषां ग्रहणम्। प्रपचतिदेश्यादावर्थः प्रयोजनं यस्य ततथोक्तम् । एतदुक्तं भवति - न विस्पष्टार्थं कृद्गरह्थणम्, अपि तु प्रपचिति देश्यादौ यत्र सतिशिष्टस्वरान्तरं नास्ति, तत्रायं स्वरो मा भूद्, अव्ययपूर्वपदप्रकृतिस्वर एव यथा स्यादित्येवं सप्रयोजनं दृश्यते इति । इदं तु वक्तव्यम् - प्रपचतितरामित्यादौ तरबन्तेन समासे पश्चादाम् भवन् प्रत्ययग्रहणपरिभाषया पचितितरशब्दस्यैव घान्तत्वात् तत एव स्यात् । तत्र को दोषः सोपसर्गस्य सङ्घातस्यैकपद्याभावाद् आम्प्रपचतितरां देवदेतेत्यादौ आम एकान्तरमामन्त्रितमनन्तिके इत्येष विधिर्न स्यात्, शेषनिघातश्च प्रशब्दस्य न स्यात् भिन्नपदत्वात् । तस्मात् प्रशब्दस्यामन्तेन समासोऽङ्गी एकर्तव्यः, न तरबन्तेन । तत्र समासत्वात् समुदायस्य प्रातिपदिकत्वे विभक्तावैकपद्यं भवति । स्वरे तु देषप्रसङ्गात् कृद्ग्रहणमपि त्यक्तव्यमिति भाष्ये स्थितम्, प्रपचतिदेशीयादौ का गतिरिति न विद्मः ॥ Nyaas ----- `प्रकारकः, प्रहारकः` इति। ण्वुल्। `प्रकरम्` इत्यादिषु ल्युट्। `ईषत्करः` इत्यादिषु `ईषद्दुःसुषु` इति खल्। यदत्राव्ययपूर्वपदं तत्र `तत्पुरुषे तुल्यार्थ` (2.2.17) इति समासः। `कारकात्` इति। षष्ठी तु `कर्त्तुकर्मणोः कृति` (2.3.65) इति कर्मणि कारके वेदितव्या। इध्मादयो हि व्रश्चनक्रियाया व्याप्तुमिष्टतमत्वात्? कर्मबावमनुभवन्ति। `ईषत्करः` इत्यादौ तु **उपपदमतिङ्** (2.2.19) इति समासः। तत्र प्रशब्दः `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तः। इध्मशब्दो हि `इषियुधीन्धि` (द।उ।7।31) इत्यादिना मक्प्रत्ययान्तत्वादन्तोदात्तः। `शो तनूकरणे` (दा।पा।1145), पलं श्यतोति [श्यतोति -मुद्रीतः पाठः] **आतोऽनुपसर्गे कः** (3.2.3) । पलाशः कृत्स्वरेणथाथादिस्वरेण (6.2.143) वान्तोदात्तः। शदेर्णिजन्तस्य `शदेरगतौ तः (7.3.42) इति तकारे कृते ल्युटि `शातनः` इति भवति। `श्मनि श्रयतेर्डन्` (द।उ।1।161) इति लत्वे कृते `कल्पनः` इति भवति। ईषच्छब्दोऽन्तोदात्तः; स्वरादिषु तथाभूतेषु तथांभूतस्यैव पाठात्। सुदुरावाद्युदात्तौ; प्रादिषु तथाभूतयोः पाठात्। `सर्वत्रैवात्र लित्स्वरः` इति। स पुनः प्रत्ययात्? पूर्वस्योदात्तत्वम्। `देवदत्तस्येति सेषलक्षणा षष्ठी` इति। कर्मणि षष्ठीत्वं निराकरोति। कर्मषष्ठआं ह्रस्यां कारकमेव देवदत्तः स्यात्, तथा च प्रत्युदाहरणं नोपपद्यते। अथ कारकग्रहणं किमर्थम्, निर्गतः कौशाम्ब्या निष्कौशाम्बिरित्यत्र मा भूदिति चेत्? नैतदस्ति; तथा हि -यात्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति (जै।प।वृ।99), न हि कौशाम्बीशब्दः क्रियावाची, तत्? कुतस्तं प्रति निसोऽत्र गतिसंज्ञा? इत्यत आह -`कृद्ग्रहणं विस्पष्टार्थम्` इति। यदि तर्हि कृद्ग्रहणं क्रियते, प्रपचतितरामित्यत्र परकृतिसवरो न प्राप्नोति। ततश्च समासस्वरं बाधित्वाव्ययस्वर एव स्यात्? इत्यत आह -`प्रपचतितराम्` इत्यादि। अत्र हि पचतिशब्दादतिशयविवक्षायां तरप्तपमौ। ततसतरबाद्यन्ते **कुगतिप्रादयः** (2.2.18) इति प्रशबदस्य समासः। समासे तु कृते पूर्वपदस्य `तत्पुरुषं तुल्यार्थ` (6.2.2) इत्यादिना प्रकृतिस्वरः। पश्चात्? `किमेत्तिङ्व्यय` (5.4.11) इत्यादिनामुः। आमन्तसय च **आद्युदात्तश्च** (3.1.3) इति प्रत्ययसवरः प्राप्रः, सोऽव्ययसवरे सति सतिशिष्टः, सतशिष्टस्य च बलीयस्त्वमुक्तम्। तेन यद्यप्यनेनामन्तस्य कृद्ग्रहणे क्रियमाणे सति प्रकृतिस्वरो भवति, तथाप्याम्स्वरो भवत्येव; तस्य सतिशिष्टत्वात्। अथ कथं तरवाद्यन्तेन समासः? कथं च न स्यात्? `गतिकारकोपपदादीनां कृद्धिः सह समासवचनं प्राक्सुब#उत्पत्तेः` (है।प।पा।88) इति वचनात्? नैष दोषः; अत्र हि द्वे दर्शने गतिकारकोपपदात्? कृद्भिरेव समासो भवति, स च प्राक्? सुबुत्पत्तेरित्येकं दर्शनम्; गतिकारकोपपदानामविशेषेण समासो भवति, कृद्भिस्तु प्राक्? सुबुत्पत्तेरिति द्वितीयम्। तत्र द्वितये दर्शने युज्यत एव तरबाद्यन्तेन समासः। तत्र कृद्ग्रहणं विस्पष्टार्थमित्यनेन सम्बद्धम्। एक आचार्याः कृद्ग्रहणं विस्पष्टार्थमित्येव व्याचक्षत इत्यर्थः। `प्रपचति देश्याद्यर्थ तु` इत्यादि। तुशब्दः पूर्वस्माद्? व्याख्यानाद्विशेषद्योतनाय। प्रपचतिदेश्य आदिर्यस्य स प्रपचतिदेश्यादिः। आदिशब्देन प्रपचतिदेशीय इत्यस्य ग्रहणम्। प्रपचतिदेश्यादावर्थः प्रयोजनं यस्य तत्? प्रपचतिदेश्याद्यर्थम्। `कृद्ग्रहणं दृश्यते` इति। एवं **ईषदसमाप्तौ कल्पब्देश्यदेशीयरः** (5.3.67) इत्यत्र `तिङ्श्च` (5.3.56) इत्यनुवृत्तेः प्रपचतिशब्दाद्? देश्यदेशीयरौ। तदन्तेन च प्रशब्दस्य गतिसमासे कृद्ग्रहणं न क्रियेत। तथा प्रपचतिदेश्यः, प्रपचति वेशीय इत्यत्राप्युत्तरपदस्य प्रकृतिस्वरः स्यात्, न चेष्यते। तस्मादिह मा भूदित्येवमर्थं कृद्ग्रहणं दृश्यत एव। तस्मादेतन्न विस्पष्टार्थम्। तदपि तु प्रपचतिदेश्य इत्यादौ विषये मा भूदित्येवमर्थ मित्यभिप्रायः॥ Prakriyasarvasvam ----------------- एभ्यः परं कृदन्तं तत्पुरुषे समासे प्रकृतिस्वरं स्यात् । ल्युट् - आवर्तनम् । निवर्तनं३ । प्रतरणम् । लित्स्वरः । पलाशशतनः । खल् ईषत्करः एवं कृतः प्रकृतिस्वरे प्राप्ते विधिः ।