62131: वर्ग्यादयश्च =================== **Padacheda:** वर्ग्यादयः | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- At the end of a non-कर्मधारय तत्-पुरुष समास the words वर्ग्य etc. have acute accent (उदात्त) on the first syllable. Vasu English Translation ------------------------ At the end of a non-कर्मधारय तत्-पुरुष समास the words वर्ग्य etc. have acute accent (उदात्त) on the first syllable. Thus वासुदेवव꣡र्ग्यः, वासुदेवप꣡क्ष्यः, अर्जुनव꣡र्ग्यः, अर्जुनप꣡क्ष्यः ॥ In a *Karmadharaya* we have परमवर्ग्यः ॥ The words वर्ग्य &c are no where exhibited as such; the primitive words वर्ग, पूग, गण &c subdivision of दिगादि (4.3.54) are here referred to, as ending with यत् affix. Kashika ------- वर्ग्य इत्येवमादीन्युत्तरपदानि अकर्मधारये तत्पुरुषे समास आद्युदात्तानि भवन्ति। वा॒सु॒दे॒व॒वर्ग्यः॑। वा॒सु॒दे॒व॒पक्ष्यः॑। अ॒र्जु॒न॒वर्ग्यः॑। अ॒र्जु॒न॒पक्ष्यः॑। अकर्मधारय इत्येव — प॒र॒म॒व॒र्ग्यः। वर्ग्यादयः प्रातिपदिकेषु न पठ्यन्ते। दिगादिषु (४.३.५४) तु वर्ग पूग गण पक्ष इत्येवमादयो ये पठिताः, त एव यत्प्रत्ययान्ता वर्ग्यादय इह प्रतिपत्तव्याः॥ Siddhanta Kaumudi ----------------- अर्जुनवर्ग्यः वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्गादिर्दिगाद्यन्तर्गणः ॥ Nyaas ----- वग्र्यादयो दिगादियदन्ताः। तेषु ये द्व्यचस्ते **यतोऽनावः** (6.1.213) इत्याद्युदात्ताः। परिशिष्टास्तु **तित्स्वरितम्** (6.1.185) इत्यन्तस्वरिताः। वसुदेवस्यापत्यम्? `ऋष्यन्धक` (4.1.114) इत्यादिनाण्, तेन वासुदेवशब्दोऽन्तोदात्तः। `अरज अर्जने` (धातुपाठः-224) इत्यस्माच्चुरादिणिजन्तात्? `अजेर्णिलुक्? च` (द।उ।5।57) इत्युनण्प्रत्ययः। तेनार्जुनो मध्योदात्तः। `इत्येवमादयः` इति। आदिशब्देन पक्षशब्दात्? परे ये पठन्ते तेषां ग्रहणम्॥ Prakriyasarvasvam ----------------- दिगादौ वर्गपूगेत्यादिपठिता पदन्ता एव वर्गादयः । तानि पराण्युक्तसमासे आद्युदात्तानि स्युः । वासुदेववर्ग्यः । अर्जुनपूग्यः इत्यादि । चेलराज्यवर्गादिष्वव्यय- पूर्वत्वे तत्स्वर एवेष्टः । कुचेलः । कुराज्यम् । कुवर्ग्यः ।