62093: सर्वं गुणकार्त्स्न्ये ============================ **Padacheda:** सर्वम् | S | 1 | 1 | गुणकार्त्स्न्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The acute accent (उदात्त) is on the final of the word सर्व standing as the first member before an attributive word in the sense 'whole, through and through'. Vasu English Translation ------------------------ The acute accent (उदात्त) is on the final of the word सर्व standing as the first member before an attributive word in the sense 'whole, through and through'. Thus सर्व꣡श्वेतः, सर्व꣡कृष्णः, सर्व꣡महान् ॥ Why do we say सर्व? Observe परमश्वेतः, here the attribute of श्वेत pervades through and through the object referred : but the accent is not on the final of परम ॥ Why do we say 'attributive word'? Observe सर्वसौवर्णः, 'golden', सर्वरजतः 'silvery', which do not denote any attribute in their original state but modification. In fact it is not गुणकार्त्स्न्य here at all, but a विकारकार्त्स्न्य ॥ Why do we use the word '*Kartsnya* or complete pervasion'. Observe सर्वेषां श्वेततरः = सर्वश्वेतः here the compounding takes place by the elision of the affix तरप् denoting comparison, and as it shows only comparitive, not absolute, whiteness, the rule does not apply. Moreover, in this example, the "*kartsnya*" is not that of "*guna*" but of "guni", not of the 'attribute', but of the 'substance'. Objection:- How do you form such a compound सर्वेषां श्वेततरः = सर्वश्वेतः, for it is prohibited by (2.2.11)? Ans. We do it on the strength of the following *Vartika* गुणात्तरेण समासो वक्तव्यः, सरलोपश्च ॥ Bhashya ------- सर्वं गुणकार्त्स्न्ये (2753) (सर्वपदप्रयोजनभाष्यम्) सर्वग्रहणं किमर्थम् ? गुणकात्स्न्ये इतीयत्युच्यमाने इहापि प्रसज्येत -परमशुक्लः, परमकृष्ण इति । सर्वग्रहणे पुनः क्रियमाणे न दोषो भवति ॥ (गुणपदप्रयोजनभाष्यम्) अथ गुणग्रहणं किमर्थम् ? सर्वं कार्त्स्न्ये इतीयत्युच्यमाने इहापि प्रसज्येत - सर्वसौवर्णः, सर्वराजत इति । गुणग्रहणे पुनः क्रियमाणे न दोषो भवति ॥ (कार्त्स्न्यग्रहणप्रयोजनभाष्यम्) अथ कार्त्स्न्यग्रहणं किमर्थम् ? सर्वं गुणे इतीयत्युच्यमाने इहापि प्रसज्येत सर्वेषां श्वेतः - सर्वश्वेत इति । कथं चात्र समासः ? षष्ठी सुबन्तेन समस्यते इति । गुणेन नेति प्रतिषेधः प्राप्नोति । एवं तर्हि - (6358 समासोपसंख्यानवार्तिकम् ॥ 1 ॥) - गुणात्तरेण समासस्तरलोपश्च - गुणात्तरेण समासो वक्तव्यः, तरलोपश्च । सर्वेषां श्वेततरः -सर्वश्वेतः ॥ Kashika ------- सर्वशब्दः पूर्वपदं गुणकार्त्स्न्ये वर्तमानमन्तोदात्तं भवति। स॒र्वश्वे॑तः। स॒र्वकृ॑ष्णः। स॒र्वम॑हान्। सर्वमिति किम्? प॒र॒म॒श्वे॒तः। आश्रयव्याप्त्या परमत्वं श्वेतत्वस्येति गुणकार्त्स्न्ये वर्तते। गुणग्रहणं किम्? स॒र्व॒सा॒ैव॒र्णः। स॒र्व॒रा॒ज॒तः। कार्त्स्न्य इति किम्? सर्वेषां श्वेततरः स॒र्व॒श्वे॒तः। **गुणात्तरेण समासस्तरलोपश्च वक्तव्यः** (२.२.९ वा०) इत्येवमत्र समासस्तरब्लोपश्च॥ Siddhanta Kaumudi ----------------- सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्वंकिम् । परमश्वेतः आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकार्त्स्न्ये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्त्स्न्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ॥ Padamanjari ----------- यत्र गुणान्तरस्याभावस्तत्र गुणकार्त्स्न्यं भवति । सर्वश्वेत इति । पूर्वकालैक इत्यादिना कर्मधारयः । अत्र शुक्लेन गुणेन सर्वावयवानां वायप्तिर्गम्यते । आश्रयव्याप्त्या परमत्वमिति । यद्यप्यौज्ज्वल्यादिनापि परमत्वं सम्भवति, अत्र त्वेवंविधं परमत्वं विवक्षितमित्यर्थः । सर्वसौवर्ण इति । विकारविषयमत्र कार्त्स्न्यम् । कार्त्स्न्ये इति किमिति । गुणवाचिन्युतरपदे न स्रवशब्दस्य कार्त्सस्न्यं व्यभिचरतीति प्रश्नः । सर्वेषां श्वेततरः सर्वश्वेत इति । गुणिकार्त्स्न्ये सर्वशब्दः, न गुणकार्त्स्न्ये । सर्वषामिति च गुणसम्बन्धे षष्ठी, पटस्य शौक्ल्यमितिवद् । गुणवाचिन एव च प्रत्ययः, सर्वेषां पटानां द्रव्यान्तराधारो यः श्वेतगुणस्तदपेक्षया सातिशयः श्वेतो गुण इत्यर्थः । गुणातरेणेति । गुणाद्यौस्तरप्प्रत्ययस्तदन्तेनेत्यर्थः । वचनमेवेदम्, तेन पूरणगुण कैति प्रतिषेधं बाधित्वा समासश्च भवति, तरब्लोपश्च ॥ Nyaas ----- `गुणकार्त्स्न्ये` इति। गुणकार्त्स्न्य गुणस्य सर्वत्राभावः। `सर्वओतः` इति। `पूर्वकालैक` (2.1.48) इत्यादिना समानाधिकरणसमासः। अत्र समुदायगुणस्य सर्वत्र भावः। न तु तदवयवे तत्र सर्वशब्दो वर्तत इति गुणकार्त्स्न्यस्य वृत्तिर्भवति। `परमओतः` इति। कथं पुनरत्र गुणकार्त्स्न्ये परमशब्दो वर्तते, यावतासौ प्रकर्षवाची, अन्यश्च प्रकर्षः, अन्यच्च गुणकार्त्स्न्यम्? इत्यत आह -`आश्रयव्याप्त्या` इत्यादि। इतिकरणो हेतौ। यस्मादाश्रयव्याप्त्या परमत्वमुत्कर्षे भवति, नान्यथा। एवं हि तस्योत्कर्ष उपपद्यते यदि सर्वमाश्रयं व्याप्नोति। तस्माद्गुणकार्त्स्न्यं इह परमशब्दो वर्तते। `सर्वसौवर्णः, सर्वराजतः` इति। सुवर्णस्य विकारः सौवर्णः, रजतस्य विकारो राजतः -नात्र गुणकार्त्स्न्यम्, किं तर्हि? जातियुक्तस्य विकारवषयं कार्त्स्न्यम्। सर्व हि विकारद्रव्यं प्रकृतिभावेन व्याप्नोतीति द्रव्यकार्त्स्न्यमिह, तत्र च सर्वशब्दो वर्तते। `सर्वेषां ओततरः सर्वओतः` इति। अत्र गुणकार्त्स्न्ये। कथं पुनरत्र समासः, यावता `पूरणगणसुहित` (2.2.11) इत्यादिना गुणवचनेन षष्ठीसमासः प्रतिषिद्धः? अथापि कथञ्चित्? समासः स्यात्, एवमपि ओततरशब्देन समासे कृते सर्वओततरमिति वक्तव्यम्? इत्यत आह -`गुणात्? तरेण समासः` इत्यादि। औपसंख्यानिकाविह समासतरलोपाविति दर्शयति। समासस्वरापवादो योगः। एवमुत्तरेऽपि योगाः। **न हास्तिनफलकमार्देयाः** (6.2.101) इत्यतः प्राक्? समासस्वरापवादो वेदितव्यः॥ Prakriyasarvasvam ----------------- गुणकात्स्न्यार्थस्य सर्वशब्दस्य प्राक्पदस्यान्त उदात्तः स्यात् । सर्वकृष्णः । Vartika ------- गुणात्तरेण तरपो लोपश्चेति वक्तव्यम् ।