62075: अणि नियुक्ते =================== **Padacheda:** अणि | S | 7 | 1 | नियुक्ते | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A compound, the second member of which is a word ending in the कृत् -affix अण् and which denotes a functionary, gets the acute accent (उदात्त) on the first syllable. Vasu English Translation ------------------------ A compound, the second member of which is a word ending in the कृत् -affix अण् and which denotes a functionary, gets the acute accent (उदात्त) on the first syllable. Thus छ꣡त्रधारः, तू꣡णीधारः, क꣡मण्डलुग्राहः, भृ꣡ङ्गारधारः ॥ Why do we say when meaning 'a functionary'? Observe काण्डलावः, शरलावः ॥ Kashika ------- अणन्त उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। छत्र॑धारः। तूणी॑रधारः। कम॑ण्डलुग्राहः। भृङ्गा॑रधारः। नियुक्त ोऽधिकृतः, स च कस्मिंश्चित् कर्तव्ये तत्परो न भवतीति नियुक्ते (६.२.६६) इत्यनेन न सिध्यति। नियुक्त इति किम् ? का॒ण्ड॒ला॒वः। श॒र॒ला॒वः॥ Siddhanta Kaumudi ----------------- अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्रधारः । नियुक्ते किम् । काण्डलावः ॥ Padamanjari ----------- एनियुक्त इति युजिर्योगे इत्यस्यैतद्रूपमित्याह - नियुक्तीऽधिकृत इति । स च कस्मिश्चत्कर्तव्ये तत्परो न भवतीति । कार्यान्तरेऽपि नियोगसम्भावात् ॥ Nyaas ----- `छत्त्रधारः` इति। **कर्मण्यण्** (3.2.1) ।॥किमर्थं पुनरिदम्, यावता युक्तोऽभिमतः, तद्वाची न भवति? `नियुक्तोऽधिकृतः` इत्यादि। **युक्ते च** (6.2.66) इत्यनेन हि यः कर्तव्ये युक्तः समाहितः तस्य पूर्वपदस्याद्युदात्तत्वम्, तेनाधिकृतवाचिनि न सिध्यति। तस्मादधिकृतच्छत्त्रादिषु यः सहिनियुक्तोऽभिप्रेतः, स च कस्मश्चिच्छत्त्रधारणे तत्परो न भवति तेन च्छत्रधार इत्यादिसमासो यादृशः **युक्ते च** (6.2.66) इत्यत्र युक्तोऽभिमतस्तद्वाची न भवति। `नियुक्तोऽधिकृतः` इत्यनेन `युजिर्? योगे` (धातुपाठः-1444) इत्यस्य निष्ठायां नियुक्त इत्येतद्रूपमिति दर्शयति। `काण्डलावः` इति। अत्र काण्डलवनक्रियां प्रति कर्तृत्वमात्रं गम्यते, नादिकृतत्वम्। तेनेष स्वरो न भवति॥ Prakriyasarvasvam ----------------- अणन्ते परेऽधिकृतार्थे समासे प्राक्पदमाद्युदात्तं स्यात् । 'कर्मण्यण्' (३-२-१) छत्रधारः । अधिकृतस्य तत्परत्वानियमाद् 'युक्ते—' (६-२-६६) इत्यनेनासिद्धिः ।