62065: सप्तमीहारिणौ धर्म्येऽहरणे ================================ **Padacheda:** सप्तमी-हारिणौ | S | 1 | 2 | धर्म्ये | S | 7 | 1 | अहरणे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- If the first member of a compound is in the Locative -7th case or denoting the name of the Receiver of Tax, has acutely accented (उदात्त) first syllable, when the second member is a word denoting 'what is lawful', but not when it is हरण। Vasu English Translation ------------------------ If the first member of a compound is in the Locative -7th case or denoting the name of the Receiver of Tax, has acutely accented (उदात्त) first syllable, when the second member is a word denoting 'what is lawful', but not when it is हरण। The word हारिण् means 'appropriates the dues or taxes': and धर्म्यम् means 'the due or tax which has been determined by the custom or usage, of the country, town, sect or family, that which one is lawfully entitled to get'. The word धर्म्य is formed by यत् under (4.4.91) and (4.4.92) and has the sense of both. Of Locative words we have the following examples : - स्तु꣡पे-शाणः मु꣡कुटे- कार्षापणम्, ह꣡ले-द्विपदिका, ह꣡ले-त्रिपदिका, दृ꣡षदि-माषकः ॥ These compounds are formed under (2.1.44), and the sign of the Locative is not elided by (6.3.9) and (6.3.10). With the name of a due-receiver हारी we have the following :- या꣡ज्ञिकाश्वः 'the horse which is the customary due of the sacrificer'. So also वै꣡याकरणहस्ती, मा꣡तुलाश्वः, पि꣡तृव्यगवः ॥ In some places the established usage is to give a शाण coin in every sacred Tope &c, or to give a horse to a sacrificer &c. Why do we say 'what is lawful'? Observe स्तम्बेरमः꣡, कर्मकर वर्द्धितकः꣡ वर्द्धितको नाम मूले स्थूलोग्रे सूक्ष्म ओदन पिण्डः, स कर्मकराय दीयते, अन्यथा कर्म न कुर्यादिति, न त्वयं धर्मः ॥ Why do we say "but not before हरण"? Observe वाडवहरण꣡म् ' that which is given to a mare'. हरण is that customary food which is given to a mare after she has been covored, in order to strengthen her. The word हरण is a *Krit*-formed word, its exclusion here indicates that other *Krit*-formed words however are governed by this rule when preceded by a हारी denoting word; and thus this *sutra* supersedes the *Krit* accent enjoined by (6.2.139), so far. Thus वाडवहार्यः has acute on the first by this rule, the subsequent (6.2.139) not applying. Kashika ------- सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्यवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपद आद्युदात्तं भवति। हारीति देयं यः स्वीकारोति सोऽभिधीयते। धर्म्यमित्याचारनियतं देयमुच्यते, धर्मो ह्यनुवृत्त आचारस्तस्मादनपेतं तेन वा प्राप्यमिति। स्तूपे॑शाणः। मुकु॑टेकार्षापणम्। हले॑द्विपदिका। हले॑त्रिपदिका। दृष॑दिमाषकः। **संज्ञायाम्** (२.१.४४) इति सप्तमी समासः,**कारनाम्नि च०** (६.३.१०) इति विभक्ते रलुक्। हारिणी — याज्ञि॑काश्वः। वैया॑करणहस्ती। मातु॑लाश्वः। पितृ॑व्यगवः। क्वचिदयमाचारो व्यवस्थितः — स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनामश्वादीति। धर्म्य इति किम्? स्त॒म्बे॒र॒मः। क॒र्म॒क॒र॒व॒र्धि॒त॒कः। अहरण इति किम्? वा॒ड॒व॒ह॒र॒णम्। वडवाया अयं वाडवः। तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद् दीयते हरणमिति तदुच्यते। परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेनेत्येतदहरण इत्यनेन ज्ञाप्यते, तेन वाड॑वहार्यम् इति हारिस्वरः सिद्धो भवति॥ Siddhanta Kaumudi ----------------- सम्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे । देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायाम् (SK721) इत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्म्ये इति किम् । स्तम्बेरमः । कर्मकरवर्द्धितकः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेम बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ॥ Nyaas ----- हारीत्यावश्यके णिनिः। सप्तमीत्यनेन साहचर्याधारीति स्वरूपग्रहणं न भवति। अत एवाह -`हारिवाचि पर्वपदम्` इति। `धम्र्ये` इत्यत्रापि स्वरूपग्रहणं न भवति; अहरण इति प्रतिषेधात्। अत एवाह -`धम्र्यवाचिनि` इति। `आचारनियतम्` इति। आचारे नियतमिति; ततोऽन्यत्राभावत्। आचारे नियतम्, आचारेण वा नियतमाचारनियतम्। यदाचारवशादवश्यकर्तव्यं तदाचारनियतं भवति। कथं पुनराचारनियतं धर्मयमुच्यते? इत्याह -`धर्मो ह्रनुवृत्तः` इत्यादि। अनुवृत्त इति व्यवस्थित इत्यर्थः। `तस्मात्` इति। धर्मादनपेतमिति। अनुगतमित्यर्थः। `तेन` इति। धर्मेण। `प्राप्तम्` इति। लभ्यमित्यर्थः। उभयथाप्यर्थे `नौवयोधर्म` (4.4.91) इत्यादिना यत्। इतिकरणो हिशब्दश्च हेतौ। यस्मादाचारविशेषो धर्म उच्यते, यच्च तस्माद्धर्मादनपेतम्। यद्वा तेन प्राप्यं तद्धम्र्यम्। तेनाचारनियतं धम्र्यमित्युच्यते। **संज्ञायाम्** (8.2.11) इति सप्तमीसगासः` इति। यद्येवम्, विभक्तेर्लुक्? प्राप्नोति? इत्यत आह -`कारनाम्नि च` इत्यादि। `याज्ञिकाआः` इत्यादौ तु षष्ठीसमासः। `क्वचित्` इत्यादिना स्तूपेशाण इत्याद्युदाहरणेषु शाणादेर्यस्याचारनियततां दर्शयत्? उत्तरपदस्य धम्र्यवाचित्वं दर्शयति -`याज्ञिकादीनामआआदि` इति। क्वचिदयमाचारे व्यवस्थित इत्यनेन दातव्यमित्यनेन च सम्बन्धः। याज्ञिकादयो हि हारिणः, ते देयमआआदिकं स्वीकुर्वन्ति। `स्तम्बेरमः` इति। म्तम्बकर्णयो रमिजपोः` (3.2.13) इत्यच्, उपपदसमासः, **तत्पुरुषे कृति बहुलम्** (6.3.14) इति विभक्तेरलुग्भवति। अत्र स्तम्बेरम इत्यत्र स्तम्ब इत्येत्? सप्तम्यन्तम्, न तु रमशब्दो धम्र्यवाची। `कर्मकरवर्द्धितकः` इति। अत्र कर्मकरो हारी भवति, स हि वर्द्धितकं स्वीकरोति। न तु वर्द्धितकशब्दो धम्र्यवाची। न हि क्वचिदयमाचारो व्यवस्थितः कर्मकराय वर्द्धितको दातव्य इति। `वडवाया अयं वाडवः` इति। **तस्येदम्** (4.3.120) इत्यण्। `बीजनिषेकात्` इति। गर्भाधानम्=बीजनिषेकः। अत्र वाडवोऽआओ हारी स हि हरणं देयं स्वीकरोति। हरणम्=देयं धम्र्यम्। क्वचिदयमाचारो व्यवस्थितः -येनाओन वडवायां गर्भ आधीयते तस्य बीजनिषेकादुत्तरकलं शरीरपुष्टर्थं योग्याशनादिकं दातव्यमिति। तेन हरणशब्दो धम्र्यवाची भवति। तथाप्यहरण इति प्रतिषेधान्न भवति। ततश्च कृत्स्वरे प्राप्ते **अनो भावकर्मवचनः** (6.2.150) इत्युत्तरपदं ल्युडन्तमन्तोदात्तं भवति। ननु च परत्वादेवायं स्वरो भविष्यति, तत्? किमहरण इति प्रतिषेधेन? इत्यत आह -`परोऽपि` इत्यादि। तेनेत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। `वाडवहार्यम्` इति। `ऋहलोण्र्यत्` (3.1.124) इति हरतेण्र्यत् -हार्यम्, तत्? पुनस्तदेव ग्रहणम्। वाडवस्य हार्यं वाडवहार्यम्। तत्र यदि ज्ञापनार्थमनन्तरोक्तस्यार्थस्य हरणप्रतिषेधो न क्रियेत, तदा परत्वात्? `गतिकारकोपपदात्? कृत्? (6.2.138) इति कृत्स्वरेणोत्तरपदस्यान्तस्वरितत्वं स्यात्। अस्मस्तु सत्ययमेव हारिस्वरो भवति। स्तूपेशाण इत्यादौ यत्र सम्पम्यन्तं पूर्वपदं तत्र **समासस्य** (6.1.223) इत्यस्यापवादे `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना पूर्वपदप्रकृतित्वरे प्राप्ते पूर्ववदाद्युदात्तमिदमुच्यते। पूर्वपदानि च प्रायेणान्तोदात्तानि, तथा हि -`स्टूप समुच्छ्राये` (धातुपाठः-1672) इत्यस्य चौरादिकस्य पचाद्यचि स्तूपशब्दो व्युत्पाद्यते, तेनाऽसावन्तोदात्तः। सप्तम्या सहैकदेशे विकृतेऽन्तोदात्त एव भवति। **एकादेश उदात्तेनोदात्तः** (8.2.5) इति। `मकि मण्डने` (धातुपाठः-89) इत्येतस्मात्? `उणादयो बहुलम्`, (3.3.1) इत्युणादित्वम्, नलोपश्च, तेन मकुटशब्द आद्युदात्तः। `हल विलेखने` (धातुपाठः-837) इत्येतस्मात्? **खनो घ च** (3.3.125) इति घित्करणेनान्यतोऽदि घो भवतीति ज्ञापितत्वाद्घप्रत्ययः। तेन हलशब्दोऽन्तोदात्तः। `दृ? विदारणे` (धातुपाठः-1493) इत्यस्मात्? `शृदृभसोऽदिः` (द।उ।6।42) इति, `दृणातेः षुग्? ह्यसवश्च` (द।उ।6।45) इति दृषच्छब्दो व्युत्पाद्यते, तेन सोऽप्यन्तोदात्तः। `याज्ञिकाआः` इत्यादयः षष्ठीसमासाः। तत्र समासस्वरे प्राप्ते हारिवाचिनः पूर्वपवस्याद्युदात्तत्वं यथा स्यादित्येवमर्थमिदम्। अत्र च पूर्वपदानामुत्तरपदानां चासमासावस्थायां यः स्वरः स नाऽऽख्यायते; समासे कृते तस्य प्रयोगसमवायित्वात्। नापि समासे कृते तस्य प्राप्तिरसति। स `प्रकृतिभावेन तस्मिन्? प्राप्ते सतीदमारभ्यते` इत्यस्यार्थस्य प्रदर्शनार्थमाख्यायते। अत एव च पूर्वत्रापि नाख्यातः॥ Prakriyasarvasvam ----------------- देयस्यावश्यं स्वीकर्ता हारी । सप्तम्यन्तं हार्यर्थं च प्राक्पदं हरणादन्यस्मिन् धर्म्यार्थे परे आद्युदात्तं स्यात् । आचारनियतं देयं धर्म्यम् । हलेर्द्विपदिका । ‘संज्ञायाम्’ (२-१-४४) इति समासः । याज्ञिकाश्वः । हरणे तु बाडवहरणम् । बाडवो निषिक्ता । अश्वः । तस्य पुष्ट्यर्थं देयं हरणम् । परोऽपि कृत्स्वरो हारिस्वरेण बाध्यत इति अहरणोक्तेर्ज्ञाप्यते । तेन बाडवहार्यमिति हारिस्वरः स्यात् ।