62038: महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ======================================================================= **Padacheda:** महान् | S | 1 | 1 | व्रीहि-अपराह्ण-गृष्टि-इष्वास-जाबाल-भार-भारत-हैलिहिल-रौरव-प्रवृद्धेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The word महत् (महा) retains its accent before the following - 1. व्रीहि 2. अपराह्ण 3. गृष्टि 4. इष्वास 5. जाबाल 6. भार 7. भारत 8. हैलिहिल 9. रौरव and 10. प्रवृद्धे। Vasu English Translation ------------------------ The word महत् (महा) retains its accent before the following - 1. व्रीहि 2. अपराह्ण 3. गृष्टि 4. इष्वास 5. जाबाल 6. भार 7. भारत 8. हैलिहिल 9. रौरव and 10. प्रवृद्धे। Thus महा꣡व्रीहिः, महा꣡पराह्णः, महा꣡गृष्टिः, महे꣡ष्वासः, महा꣡जाबालः, महा꣡भारः, महा꣡भारतः, महा꣡हैलिहलः, महा꣡रौरवः, महा꣡प्रवृद्धः ॥ The महत् has acute on the final. (*Unadi* II.84) On the प्रतिपदोक्त maxim already mentioned under (6.2.26), this accent will apply to that compound of महत् which it forms under rule (2.1.61), for that is the particular rule of *Karmadharaya* compounding relating to *mahat* (*pratipadokta*). This rule therefore, will not apply to Genitive *Tatpurusha*. Thus महतो व्रीहिः = महद्व्रीहिः꣡ which has accent on the final by (6.1.223). Q. The word प्रवृद्ध is a Participle formed by क्त affix, and by rule (6.2.46), in a *Karmadharaya* compound, the first member will retain its original accent. What is then the necessity of reading this word in this *sutra*? Ans. That *sutra* (6.2.46) applies, on the maxim of *pradipadokta*, to the special participles and nouns mentioned in (2.1.59) and not to every participle and noun. Bhashya ------- महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु (2699) (प्रवृद्धशब्दाक्षेपसमाधानभाष्यम्) किमर्थं महतः प्रवृद्धशब्द उत्तरपदे पूर्वपदप्रकृतिस्वरत्वमुच्यते, न कर्मधारयेऽनिष्ठा (6.2.46) इत्येव सिद्धम् ? न सिध्यति । किं कारणम् ? श्रेण्यादिसमास इत्येवं तत् । किं पुनः कारणं श्रेण्यादिसमास इत्येवं तत् ? इह मा भूत् - महानिरष्टो दक्षिणा दीयते ॥ Kashika ------- प्रकृत्या पूर्वपदमिति वर्तते, द्वन्द्व इति निवृत्तम्। महानित्येतत् पूर्वपदं व्रीहि अपराह्ण गृष्टि इष्वास जाबाल भार भारत हैलिहिल रौरव प्रवृद्ध इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। म॒हाव्री॑हिः। म॒हाप॑राह्णः। म॒हागृ॑ष्टिः। म॒हेष्वा॑सः। म॒हाजा॑बालः। म॒हाभा॑रः। म॒हाभा॑रतः। म॒हाहै॑लिहिलः। म॒हारा॑ैरवः। म॒हाप्॑रवृद्धः। महच्छब्दोऽन्तोदात्तः। तस्य प्रतिपदोक्तो यः समासः **सन्महत्परमोत्तमोत्कृष्टाः०** (२.१.६१) इति तत्रैव स्वरः। तेनैषां षष्ठीसमासोऽन्तोदात्त एव भवति — महतो व्रीहिः म॒ह॒द्व्री॒हिरिति। **कर्मधारयेऽनिष्ठा** (६.२.४६) इत्ययमपि श्रेण्यादिसमासे (२.१.५९) विधिरिति प्रवृद्धशब्द इह पठ्यते॥ Siddhanta Kaumudi ----------------- महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्णः । महागृष्टिः । महेष्वासः । महाहैलिहिलः । महच्छब्दोऽन्तोदात्तः । सन्महत्-(SK740)इति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो व्रीहिर्महह्व्रीहिः ॥ Nyaas ----- `महच्छब्दोऽन्तोदात्तः` इति। `वर्तमाने पृषद्बृहन्महत्` (द।उ।6।5) इत्यन्तोदात्तस्य तस्योणादिषु निपातनात्। अथेह कस्मान्न भवति। महतो व्रीहिर्महद्व्रीहिः? इत्यात आह -`तस्य` इत्यादि। एतच्च लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) लभ्यते। अथ किमर्थं प्रवृद्धशब्द इह पठते, यावता निष्ठान्तोऽसौ, तत्र **कर्मधारयेऽनिष्ठा** (6.2.46) इति वक्ष्यमाणेनैव सिदधम्? इत्यत आह -`कर्मधारयेऽनिष्ठ` इत्यादि। तथैव हि परिभाषया **श्रेण्यादयः कृतादिभिः** (2.1.59) इति तेन प्रतिपदोक्तेनायं समासः। तत्र `कर्षारयेऽनिष्ठा` (6.2.46) इत्यनेन प्रकृतिबावस्याविधिः। न च महाप्रवृद्ध इत्ययं प्रतिपदोक्तेन निष्ठान्तेन कर्मधारयः; तत्र यदि प्रवृद्धशब्दोऽत्र न पठते, तत्र परतः प्रकृतिभावो न स्यात्। तस्मात्? तस्येह पाठः क्रियते। योगश्चायं समासस्वरस्यापवादः॥ Prakriyasarvasvam ----------------- एषु परेषु महान् प्रकृत्या स्यात् । महानन्तोदात्तः । महाव्रीहिः । महापराह्णः । इत्यादि । 'सन्महत्' (२-१-६१) इति समासः । षष्ठी समासे समासस्वरः । महद्ब्रीहिः । 'कर्मधारयेऽनिष्ठा' (६-२-४६) इति विधिः श्रेण्यादिष्वेवेति प्रवृद्धस्यात्र पाठः ।