62037: कार्तकौजपादयश्च ====================== **Padacheda:** कार्तकौजपादयः | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- Also in the द्वन्द समास-s कार्तकौजप etc. the first members retain their accent. Vasu English Translation ------------------------ Also in the द्वन्द समास-s कार्तकौजप etc. the first members retain their accent. Those words of this list which end in a dual or plural affix have been so exhibited for the sake of distinctness. The following is a list of these words. 1. कार्तं-कोजपो (formed by अण् (4.1.114) in the sense of Patronymic, from कृत and कुजप these being *Rishi* names) ॥ 2. सावर्णिमाण्डुकेयौ (*savarni* is formed by इञ् Patron affix and माण्डूकेय by ठक् (4.1.119)). 3. आवन्त्यश्मकाः The word *Avanti* is end-acute, to which is added the Patron affix *nyan* by (4.1.171), which being a *Tadraj* is elided in the plural; अवन्तीनां निवासो जनपद = अवन्ति the quadruple significant अण् being elided. 4. पैलश्यापर्णेयाः (*Paila* is derived from *Pila* the son of *Pila* is *Paila*, the *yuvan* descendent of *Paila* will be formed by adding फिञ् (4.1.156), which is, however, elided by (2.4.59) The word *Syaparna* belongs to *Bidadi* class (4.1.104), the female descendant will be *Syaparni*, the *yuvan* descendant of her will be *Syaparneya*. It is not necessary that the compound should be plural always We have पैलश्यापर्णेयौ also. 5. कपिश्यापर्णेयाः (*Kapi* has acute on the final. The son of *Kapi* will be formed by यञ् (4.1.107), which is however elided by (2.4.64). This compound must, therefore, be always in the plural. 6. शैतिकाक्षपांचालेयाः (*Sitikaksha* is the name of a *Rishi*, his son will be *Saitikaksha* by अण्, (4.1.114), the *yuvan* descendant of the latter will be formed by इञ् which is elided by (2.4.58). *Panchala*'s female descendant is *Panchali*, her *yuvan* descendant is *Panchaleya*. The plural number here is not compulsory. We have शैतकाक्षपाञ्चालेयौ also.) 7. कटुकवाधूलेयाः or कटुकवार्चलेयाः (The son of *Katuka* will be formed by इञ् (4.1.59), which is elided in the Plural by (2.4.66). The son of *Varchala* is *Varchaleya*). 8. शाकलशुनकाः (The son of *Sakala* is *Sakalya*, his pupils are *Sakalah* by अण् (4.2.111). The son of *Sunak* will be *Saunaka* by अञ् (4.1.104), which will be elided in the Plural by (2.4.64). Some read it as शकलसणकाः, where the इञ् affix after *Sanaka* is elided by (2.4.66). So also शुनकधात्रेयः ॥ 9. शणकबाभ्रवाः (the son of *Babhru* is *Babhrava*). 10. आर्चाभिमौद्गलाः (*Archavinah* are those who study the work produced by *Richava*, the affix णिनि being added by (4.3.104). *Mudgala* belongs to *Kanvadi* class (4.2.111); *Maudgalah* are pupils of the son of *Mudgala*). 11. कुन्तिसुराष्ट्राः This a *Dvandva* of *Kunti* and *Surashtra* in the plural or of the country-names derived from them like *Avanti*. *Kunti* and *Chinti* have acute on the final. 12. चिन्तिसुराष्ट्राः as the last. 13. तण्डवतण्डाः (Both belong to *Pachadi* class formed by अच् (3.1.134), from तडि ताडने *Bhvadi* 300, वतण्ड is formed from the same root with the prefix अव, the अ being elided, and both have acute on the final: and are enumerated in the *Gargadi* list (4.1.105). In the plural the patronymic affix यञ् is elided by (2.4.64). 14. गर्गवत्साः Here also यञ् affix is elided (2.4.64). 15. अविमत्तकामवधाः or विद्धाः ॥ *Avimatta* has acute on the first being formed by the नञ् particle. Both the words lose इञ् patronymic by (2.4.66). 16. बाभ्रवशालङ्कायनाः The son of *Babhru* is *Babhrava*, and the son of *Salanku* or *Salanka* of नडादि (4.1.99) is *Salankayana*. 17. बाभ्रवदानच्युताः *Danchyuta* takes इञ् in the patronymic which is elided by (2.4.66). 18. कठकालापाः *Kathah* are those who read the work of *Katha*, the affix णिनि (4.3.104) being elided by (4.3.107). Those who study the work of *Kalapin* are *Kalapah*, the अण् being added by (4.3.108), which required the इन् of *kalapin* to be retained by (6.4.164) but by a *Vartika* under (6.4.144) the इन् portion is elided before अण् ॥ 19. कठकौथुमाः Those who study the work of *Kuthumin* are कौथुमाः formed by अण् (4.1.83) the इन् being elided before अण् by (6.4.144) *Vartika* already referred to above. 20. कौथुमलौकाक्षाः Those who study the work of *Lokaksha* are *Laukaakshah*. Or the son of *Lokaksha* is *Laukakshi*, the pupils of latter are *Laukakshah*. 21. स्त्रीकुमारम् ॥ *Stri* has accent on the final. 22. मौदपैप्पलादाः, the son of *Muda* is *Maudi*, the pupils of latter *Maudah*. So also *Paippaladah*. 23. मौदपैप्पलादाः꣡ The double reading of this word indicates that Rule (6.1.223) also applies. 24. वत्सजरत् or वत्सजरन्तः = वत्स + जरत् ॥ *Vatsa* has acute on the final. 25. So also सौश्रुतपार्थवाः, The pupils of *Susruta* and *Prithu* are so called they take अण् (4.1.83). 26. जरामृत्यू, 27. याज्यानुवाक्ये *Yajya* is formed by ण्यत्, added to यज्, the ज् is not changed to a Guttural by (7.3.66). It has *svarita* on the final by तित् accent (6.1.185). *Anuvakya* is derived from *anu* + *vach* + ण्यत् ॥ Kashika ------- कार्तकौजपादयो ये द्वन्द्वास्तेषु पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति। विभक्त्यन्तानां पाठो वचनविवक्षार्थः। चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः। का॒र्तका॑ैजपौ। कृतस्यापत्यं कुजपस्यापत्यम् इत्यणन्तावेतौ। साव॑र्णिमाण्डूकेयौ। सावर्णिरिञन्तः। अ॒व॒न्त्य॑श्मकाः। अवन्तेरपत्यानि बहूनि, तन्निवासो जनपदोऽवन्तयः। तथाश्मकाः। प॒ैलश्या॑पर्णेयाः। युवद्वन्द्वोऽयम्। पीलाया अपत्यं पैलः, तस्यापत्यं युवेति **अणो द्व्यचः** (४.१.१५६) इति विहितस्य फिञः **पैलादिभ्यश्च** (२.४.५९) इति लुक्। श्यापर्णशब्दो बिदादिः, तस्यापत्यं स्त्री श्यापर्णी, तदपत्यं युवा श्यापर्णेयः। बहुवचनमतन्त्रम्, तेन पै॒लश्या॑पर्णेयौ इत्यत्रापि भवति। क॒पिश्या॑पर्णेयाः। कपिरन्तोदात्तः, तस्यापत्यं बहुत्वे **कपिबोधादाङ्गिरसे** (४.१.१०७) इत्युत्पन्नस्य यञो **यञञोश्च** (२.४.६४) इति लुक्, तेनात्र बहुत्वमाश्रीयत एव। श॒ैति॒का॒क्षपा॑ञ्चालेयाः। शितिकाक्षो नाम ऋषिः, तस्यापत्यमिति ऋप्यण् तदपत्ये यूनि य इञ् तस्य **ण्यक्षत्रियार्षञितो यूनि लुक्०** (२.४.५८) इति लुक्। पाञ्चालस्यापत्यं स्त्री पाञ्चाली, तदपत्यं युवा पाञ्चालेयः। अत्रापि बहुवचनमविवक्षितमिति श॒ैति॒का॒क्षपा॑ञ्चालेयौ इत्यत्रापि भवति। कटु॑कवार्चलेयाः। कटुकस्यापत्यमिति **अत इञ्** (४.१.९५), तस्य **बह्वच इञः प्राच्यभरतेषु** (२.४.६६) इति बहुषु लुक्। वर्चलाया अपत्यं वार्चलेयः। शा॒क॒लशु॑नकाः। शकलस्यापत्यं शाकल्यः, तस्य छात्राः शाकलाः। **कण्वादिभ्यो गोत्रे** (४.२.१११) इत्यण्। शुनकस्यापत्यमिति बिदादिभ्योञ् (४.१.१०४) तस्य बहुषु लुक्। शाकलशणका इति केचित् पठन्ति। तेषां शणकशब्दादुत्पन्नस्येञो **बह्वच इञः प्राच्यभरतेषु** (२.४.६६) इति बहुषु लुक्। शुन॑कधात्रेयाः। धात्र्या अपत्यं धात्रेयः। शण॑कबाभ्रवाः। बभ्रोरपत्यं बाभ्रवः। आ॒र्चा॒भिमा॑ैद्गलाः। ऋचाभेन प्रोक्तमधीयत आर्चाभिनः। वैशम्पायनान्तेवासित्वाद् णिनिः। मुद्गलः कण्वादिः। तदपत्यस्य छात्रा मौद्गलाः। कु॒न्तिसु॑राष्ट्राः। कुन्तेः सुराष्ट्रस्य चापत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वोऽयम्। कुन्तिचिन्तिशब्दावन्तोदात्तौ। चि॒न्ति — सु॑राष्ट्राः। कुन्तिसुराष्ट्रवत्। त॒ण्डव॑तण्डाः। पचाद्यच्प्रत्ययान्तावन्तोदात्तावेतौ गर्गादिषु पठ्येते। तत्रापत्यबहुत्वे यञो लुक् क्रियते। ग॒र्गव॑त्साः। अत्राप्यपत्यबहुत्वे यञो लुक्। अवि॑मत्तकामविद्धाः। अविमत्तशब्दो नञ्स्वरेणाद्युदात्तः। द्वयोरप्येतयोरपत्येषु बहुषु इञो ’बह्वच इञः प्राच्यभरतेषु’ (२.४.६६) इति लुक् क्रियते। बा॒भ्॒रवशा॑लङ्कायनाः। बभ्रोरपत्यं बाभ्रवः। **शलङ्कु शलङ्कं च** (४.१.९९ ग०सू०) इति शालङ्कायनः। बा॒भ्॒रवदा॑नच्युताः। दानच्युतशब्दादिञो **बह्वच०** (२.४.६६) इति लुक्। क॒ठका॑लापाः। कठेन प्रोक्त मधीयते कठाः। वैशम्पायनान्तेवासित्वाद् णिनिः। तस्य **कठचरकाल्लुक्** (४.३.१०७)। कलापिना प्रोक्तमधीयते कालापाः। **कलापिनोऽण्** (४.३.१०८) इत्यण्प्रत्ययः, तस्मिन् **इनण्यनपत्ये** (६.४.१६४) इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पीत्यादिना (६.४.१४४ वा०) उपसंख्यानेन टिलोपः। क॒ठ का॑ैथुमाः। कुथुमिना प्रोक्त मधीयत इति **प्राग्दीव्यतोऽण्** (४.१.८३)। तत्र पूर्ववत् टिलोपः। का॒ैथु॒मला॑ैकाक्षाः। लोकाक्षेण प्रोक्त मधीयते लौकाक्षाः। लोकाक्षस्य वापत्यं लौकाक्षिः। तस्य छात्रा लौकाक्षाः। स्त्रीकु॑मारम्। स्त्रीशब्दोऽन्तोदात्तः। मा॒ैदप॑ैप्पलादाः। मुदस्यापत्यं मौदिः। तस्य छात्रा मौदाः। तथा पैप्पलादाः। मौदपैप्पलादा इति द्विः पठ्यते तस्य प्रयोजनं पक्षे समासान्तोदात्तत्वमेव यथा स्यादिति। व॒त्सज॑रत्। वत्सश्च जरच्च। वत्सशब्दोऽन्तोदात्तः। सा॒ैश्रु॒तपा॑र्थवाः। सुश्रुतस्य पृथोश्च छात्राः। **प्राग्दीव्यतोऽण्** (४.१.८३)। ज॒रामृ॑त्यू। या॒ज्या॑नुवाक्ये। यजेर्ण्यत्। **यजयाच०** (७.३.६६) इति कुत्वाभावः। **तित् स्वरितम्** (६.१.१८५) इत्यन्तस्वरितः। अनुवाक्येति वचेरनुपूर्वाद्ण्यत्। आचार्योपसर्जनान्तेवासिनामिह पाठः प्रपञ्चार्थः॥ Siddhanta Kaumudi ----------------- एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमण्डूकेयौ ॥ Padamanjari ----------- प्रकृतिस्परपूर्वपदा इति । प्रकृतिशब्दः स्पाभाविक् वर्त ते, प्रकृति - स्वाभाविकः स्वरो येषां तानि प्रकृतिस्वराणि, एवंविधानि पूर्वपदानि येष्विति बहुव्रीहिः। कृतस्यापत्यम्, कुजस्यापत्यमिति । आणन्तानेताविति । ऋषिवाचित्वादाभ्यामण् । उतरपदस्य व्युत्पत्तिप्रदर्शनं प्रासङ्गिकम्, पूर्वपदस्यैव तु स्वरसिद्धये प्रदर्शनीयम् । माण्डूअकेशब्दः ढक्च मण्डूअकात् इति ढगन्तः। अवन्त्यश्मका इति। अवन्तिशब्दोऽन्तोदातः, तस्मात् वृद्धेत्कोसलाजादाङ् तस्य तद्राजत्वाद्बहुषु लुक्, अवन्तीनां निवासो जनपदः, जातुरर्थिकस्याणा जनपदे लुक्। अश्मकशब्दात् साल्वावयव इत्यादिना इञ्, लुगादि पूर्ववत्। श्यापर्णीति । शाण्Çóरवाद्यञो ङीन् । कपिरन्तोदात इति । प्रातिपदिकस्वरेण, कमु कान्तौ क्तिच्, पृषोदरादित्वादत उत्वम् । कुन्तिशब्दोऽन्तोदातः, अवन्तिवत्कुन्तयः। शोभनं राष्ट्रमस्य सुराष्ट्रः, तस्यापत्यानि बहूनि जनपदशब्दात्क्षत्रियादञ् लुगादि पूर्ववत् । चिति स्मृत्याम्, क्तिच्, कुन्तिवच्चिन्तयः । तडि ताडने, तण्डः, तस्मादेवावपुर्वाद्वतण्डः, वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः इत्यकारलोपः। मदी हर्षे, विपूर्वात् क्तः, न ध्याख्या इत्यादिना नत्वाभावः, न विमतोऽविमतः। शलङ्कु शलङ्कं चेति । नडादिष्वेतत्पठ।ल्ते । बभ्रोरपत्यं बाभ्रतवः, अण् । दानच्चयुतो दानच्युतः तदपत्यमपि दानच्युत एव। कटशब्दः पचाद्यजन्तः, लोकेऽक्षि यस्य स लोकक्षः, तस्यापत्यं लौकाक्षिः, तस्य एछात्रा लौकाक्षाः । स्त्रीकुमारमिति । समाहरद्वन्द्वः । मुद हर्षे, इगुपधलक्षणः कः, मुदः, पिप्पतमतीति पिप्पलादः, कर्मण्यण् । वदेः सः, वत्सः, जीर्यतेरतृन्, जरन् , तयोः समाहारद्वन्द्वः । षिद्भिदादिभ्योऽङ्, जरा । भुजिमृङ्भ्यां युक्त्युकौ मृत्युः ॥ एमहान् व्रीह्यपराह्वगृष्टीष्वासजाबालभारभारतहेलिहिलरौरवप्रवृद्धेषु॥ 6 - 2।38 ॥ महच्छब्दोऽन्तोदात इति । वर्तमाने पृषद्बृहन्महनत् इत्यत्र तथा निपातनात् । तस्येत्यादि । एतञ्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । यद्येवम्, प्रवृद्धग्रहणमनर्थकम्, कर्मधारयेऽनिष्ठा इति वक्ष्यमाणेनैव सिद्धत्वात्, कृद्ग्रहणे गरिकारकपूर्वस्यापि ग्रहणम् इति प्रवृद्धशब्दस्यापि क्तान्तत्वाद् अत आह - कर्मधारयेऽनिष्ठेत्ययमपीति । एतत्रापि लक्षणप्रतिपदोक्तपरिभाषया क्तान्तेन प्रतिपदोक्तो यः कर्मधारयस्तस्य ग्रहणमित्यर्थः ॥ Nyaas ----- `अणन्तावेतौ` इति। तेन प्रत्ययस्वरेणान्तोदात्ताविति भावः। उत्तरत्राप्यणन्तस्यानोदात्तता वेदितव्या। `सौवर्णिरिञन्तः` [`सावर्णिः -काशिका] इति। ञित्स्वरेणाद्युदात्त इत्यभिप्रायः। एवमुत्तरत्रापीञन्तस्याद्युदात्तत वेदितव्या। माण्डूकेयशब्दः `ढक्? च मण्डूकात्` (4.1.119) इति ढगन्तः। `अवन्तेः` इत्यादि। अवन्तेरपत्यानि बहुनीति **वृद्धेत्कोसलाजादाञ्ञ्यङ्** (4.1.171) इति ञ्यङ्, तस्य `तद्राजस्य` (2.4.62) इत्यादिना लुक्। अवन्तीनां निवासो जनपदः **तस्य निवासः** (4.2.69) इति चातुर्थिकोऽण्। तस्य **जनपदे लुप्** (4.2.81) इति लुप्। `अवन्तयः, तथाश्मकाः` इति। यथावन्तय इति कृतस्तथाश्मका इत्यत्रापि। अत्र क्षत्त्रियवाचिनो जनपदवाचिनश्च शब्दाः। तद्धितेऽपत्येषु यो बहुषत्पद्यते तदन्ताचच निवासे चातुरर्थिकः। तस्य लुप्? कृतः। तथाश्मका इत्यत्रापि। एतावन्मात्रमतिदिश्यते। अश्मकस्यापत्यानि बहूनि, **साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्** (4.1.173) इत्यादिनेञ्, तस्य लुक्? पूर्ववत्, तेषां निवासेऽण्, तस्य पूर्ववल्लुप्। अवन्तिशब्दो घृतादित्वादन्तोदात्त इत्येके। चित्स्वरेणेत्यपरे, ते हि `भुवो झिच्` (पं।उ।330) बहुलवचनादवतेरपि झिज्भवतीति वर्णयन्ति। `युवद्वन्द्वोऽयम्` इति युदसंज्ञकप्रत्ययान्तयोरयं द्वन्द्व इत्यर्थः। `फैलः` इति। **पीलाया वा** (4.1.118) इत्यण्। `श्यायर्णशब्दो बिदादिः` इति तेन ततोऽप्त्यविवक्षायामञ्? भवतीति भवाः। `स्त्री` इति। `शाङ्र्गरवाद्यञो ङीन्` (4.1.73) । `श्यापर्णेयः` इति। **स्त्रीभ्यो ढक्** (4.1.120) । `बहुचचनमतन्त्रम्` इति। अविवक्षितत्वात्। `तेन` इत्यादिना बहुवचनाविवक्षायाः फलं दर्शयति। `कपिरन्तोदात्तः` इति। प्रातिपदिकस्वरेण। `तेन` इत्यादि। यस्मात्? कपिशब्दोऽयं लुगन्त; तेन बहुवचनमत्राश्रीयत एव। `ऋष्यण्` इति। `ऋष्यन्धक` (4.1.114) इत्यादिना। `यूनि य इञ्` इति। `अत इञ्` (श्र4.1.95) इत्यनेन। `पाञ्चाली` इति। **जनपदशब्दात् क्षत्रियादञ्** (4.1.168) इत्यञ्। तदन्तात्? पूर्ववन्ङीप्। `पाञ्चालेयी` [पाञ्चालेयः -काशिका] पूर्ववड्ढक्। एवं `वार्चलयी` इत्यत्रापि। `शाकल्यः` इति। गर्गादित्वात्? यञ्। शाकल्यशब्दो ञित्स्वरेणाद्युदात्तः। `शणकबाभ्रवाः` इति। शणं करोतीति `कै गै शब्दे` (धातुपाठः-916,917) इत्यस्माद्धात्तोः **आतोऽनुपसर्गे कः** (3.2.3) , तेन प्रत्ययस्वरेण शणकशब्दोऽन्तोदात्तः। `बाभ्रवः` इति। **ओर्गुणः** (6.4.146) । `आर्चाभिनः` इति। प्रोक्तार्थे णिनिः, तस्मादध्येतर्यण्, तस्य **प्रोक्ताल्लुक्** (4.2.64) इति लुक्। एवमुत्तरत्रापि प्रोक्तप्रत्ययान्तादध्येतृप्रत्ययस्य लुग्वेदितव्यः। `मुद्गलः कण्वादिः` इति। गर्गाद्यन्तर्गणः। `तदपत्यस्य` इति। मौद्गलाः` इति। मौद्गल्यशब्दात्? **कण्वादिभ्यो गोत्रे** (4.2.111) इत्यण्, **यस्येति च** (6.4.148) इत्यकारलोपः। `आपत्यस्य च तद्धेतेऽनाति` (6.4.151) इति यकारस्य। आर्चाभिशब्दः प्रत्ययस्वरेणान्तोदात्तः। `कुन्ते सुराष्ट्रस्य` इत्यादि। `कमु कान्तौ` (धातुपाठः-443) इत्यस्मात्? पूर्ववत्? क्तिच्, बहुलवचनादुत्त्वम्। कुन्ति शोभनं राष्ट्रमस्येति सुराष्ट्रः। कुन्तेरपत्यानि बहूनि **वृद्धेत्कोसलाजादाञ्ञ्यङ्** (4.1.171) ; सुराष्ट्रस्यापत्यानि बहूनि, जनपदशब्दादिना (4.1.166) अण्, तयोः `तद्राजस्य` (2.4.62) इत्यादिना बहुषु लुक्। ततः कुन्तीनां निवासो जनपदः **तस्य निवासः** (4.2.69) इति चातुरर्थिकोऽण्, `तस्य जनपदे लुप्` (4.2.80) इति लुप्। कुन्तयश्च सुराष्ट्राश्च कुन्तिसुराष्ट्राः। एवं कुन्तेः सुराष्ट्रस्य चापत्येषु बहुषु तन्निवासे जनपदद्वन्द्वादयं भवति। कुन्तिशब्दाश्चित्स्वरेणान्तोदात्तः। `चिन्तिसुराष्ट्राः` इति। चिन्तिशब्दोऽप्यान्तोदात्त एव। सोऽपि `चिति समृत्याम्` (धातुपाठः-1535) इत्यस्मात्। क्तिच्प्रत्ययान्तः। केचिदवन्तिकुन्तिशब्दौ **क्तिच्क्तौ च संज्ञायाम्** (3.3.174) इति क्तिच्प्रत्ययान्तौ व्युत्पादयन्ति। `पचाद्यन्प्रत्ययान्तौ` इति। `तडि हर्षे` (धा।प।280) इत्यस्मात्? केवलादवपूर्वाच्च पचाद्यच्। `वष्टि भागुरिरल्लोपमवाप्योरुपसरगयोः` इत्यवशब्दाकारस्य लोपः। `यञो लुक्? क्रियते` इति। **यञञोश्च** (2.4.64) इति। `अविमत्तकामविद्धा` इति। `मदी हर्षे` (धातुपाठः-1208) इत्यस्माद्विपूर्वान्निष्ठा -विमत्तः, न विमत्तोऽविमत्त इति। `तत्पुरुषे तुल्यार्थं` (6.2.2।) इत्यादिना पूर्वपदसय प्रकृतिभावे कृते नञ्स्वरेणाद्युदात्तः। `बह्वचः` इति। अनेन सूत्रैकदेशेन `बह्वच इञः प्राचयभरतेषु` (2.4.66) इत्येतत्? सूत्रमुपलक्षयति। `शलङ्कु शलङ्कञ्च` इति। नडादिष्वेतत् पठते। अस्यायमर्थः -शलङ्कुशब्दः फकमुत्पादयति शलङ्कादेशञ्चापद्यत इति। `बाभ्रवदानच्युताः` इति। ब्राभ्रोरपत्यं बाभ्रवः, अणन्तः। दानच्युतशब्दादिञो बह्वचो लुगिति पूर्ववत्। `कठकालपाः` इति। कठशब्दः पचाद्यचि व्युत्पादितत्वादन्तोदात्तः। लोकाक्षस्यापत्यं `लौकाक्षि)` तसय च्छात्रा `लौकाक्षाः`। `स्त्रीकुमाम्` इति। `सत्यायतेर्ड्रट्` (पं।उ।4।165) तदन्तात्? `टिड्ढाणञ्` (4.1.15) इति ङीप्, तत्र प्रतद्ययस्वरेणान्तोदात्ताकारस्य **यस्येति च** (6.4.148) इति लोपः, **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इति ङीप उदात्तत्वे कृते स्त्रीशब्दो ह्रुदात्तः। `तस्य च्छात्रा मीदाः` इति। `इञश्च` (4.2.111) इत्यण्। `तथा पैप्पलादाः` इति। पिप्पलावस्यापत्यं पौप्यलादिः, तस्य च्छात्राः पैप्पलादाः। `वत्सजरत्` इति। `वृतृवदिहनिकमिकषिभ्यः सः` (द।उ।9।21) [वृतृवदिहिनिकमिकषियुमुचिभ्यः सः -द।उ।] इति वदेः सः, अनेन वतसशब्दोऽन्तोदात्तः, **जीर्यतेरतृन्** (3.2.104) । जरत्, तयोद्र्वन्द्वः। `सौश्रुतपर्थवाः` इति। सुश्रुतस्य छात्राः सौश्रुताः। `पृथोश्छात्राः पार्थवाः` इति। उभयत्र **तस्येदम्** (4.3.120) इत्यण्। `जरामृत्यु` इति। जृषित्येतस्मात्? **षिद्भिदादिभ्योऽङ्** (3.3.104) इत्यङ्, जरा, तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्। म्रियतेः `भृजडिमृङ्भ्यां युक्त्युकौ` (द।उ।1।135) इति त्युक्, मृत्युः॥ Prakriyasarvasvam ----------------- एते प्राक् पदप्रकृतिस्वराः स्युः । 'कार्तकौजपसावर्णिमाण्डूकेयकटुकवार्जलेय- शैतिकाक्षपाञ्चालेया¹ अवन्त्यश्मकौ² अविमत्तकामविद्ध³तण्डवतण्डशाकलशुनकश- णकबाभ्रव्यपाज्यानुवाक्यावत्सजरञ्जरामृत्युस्त्रीकु⁴माराः' (स. ८-४-६६) अपत्याणि कार्तकौजपौ । शाकलशुनका(न्?)शाकल्यस्य शिष्याः शाकलाः। 'कण्वादिभ्यो गोत्रे' (४-२-१११) इत्यण् । शुनका (न् ?) विदाद्यणन्तो बहुषु लुक् । याज्यानुवाक्ये । वत्सजरन्तौ । जरामृत्यू । स्त्रीकुमा(रं? रौ)। ण्यति याज्या । से वत्सः । अङि जरा । अन्तोदात्तः स्त्रीशब्दः । कपिंपेलौ श्यावर्णये । 'कुन्तिचिन्ती1 सुराष्ट्रे' (स. ८-४-६७) । वाभ्रवशा2लङ्कायनदानच्युतयोः' (स. ८-४-६८) । अप्रसिद्धत्वात् सर्वेषां प्रत्ययानुक्तिः ।