62033: परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ============================================== **Padacheda:** परि-प्रति-उप-अपाः | S | 1 | 3 | वर्ज्यमान-अहः-रात्रावयवेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The particles 1. परि 2. प्रति 3. उप and 4. अप preserve their accent before that word which specifies an exclusion or a portion of day and night (in an अव्ययीभाव समास also). Vasu English Translation ------------------------ The particles 1. परि 2. प्रति 3. उप and 4. अप preserve their accent before that word which specifies an exclusion or a portion of day and night (in an अव्ययीभाव समास also). Thus प꣡रित्रिगर्त्ते वृष्टो देवः "It rained all round (but not in) *Trigarta*". (See (2.1.11) and (2.1.12). So also प꣡रिसौवीरम् प꣡रिसार्वसनि, प꣡रिपूर्वरात्रम् ॥ So also प्र꣡तिपूर्वाह्णम्, प्र꣡त्यपराह्णम्, प्र꣡त्यपररात्रम्, उ꣡पपूर्वाह्णम्, उ꣡पापराह्णम्, उ꣡पपूर्वरात्रम्, उ꣡पापररात्रम् ॥ अ꣡पत्रिगर्ते वृष्टो देवः, अ꣡पसौवीरम्, अ꣡पसार्वसेनी (2.1.11) and (2.1.12). By *Phit* *Sutras¬* IV. 12, and 13 all Particles (*Nipata*) have acute on the first syllable. So also *upasargas* with the exception of अभि ॥ Therefore परि &c, have acute on the first. In a *Tatpurusha* and *Bahuvrihi* compounds, these words '*pari*', '*prati*' &c, as first members would have retained their accent by the rules already gone before; the present *sutra*, therefore, extends the principle of the preservation of the accent to *Avyayibhava* compounds also. The prepositions अप and परि alone denote the limit exclusive or वर्जन, and it is therefore with these two prepositions only that the second member can denote the thing excluded, and not with प्रति and उप ॥ With these prepositions अप and परि, the second term if denoting a member of day or night, are also taken even as excluded, therefore no separate illustrations of those are given. Why do we say 'before a word which is excluded, or is a part of a day and night'? Observe प्रत्यग्नि शलभाः पतन्ति ॥ In परिवनम् "all round the forest, but not in it', the accent falls on the last by (6.2.178), which debars this general rule, as well as all special rules which might affect वन in a compound. Bhashya ------- परिप्रत्युपापा र्वज्यमानाहोरात्रावयवेषु (2693) (6334 एकदेशिनो विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - परिप्रत्युपापेभ्यो वनं समासे विप्रतिषेधेन - परिप्रत्युपापेभ्यः नवं समासे (6.2.178) इत्येतद्भवति विप्रतिषेधेन । परिप्रत्युपापा र्वज्यमानाहोरात्रावयवेष्वित्यस्यावकाशः - परित्रिगर्तम्, परिसौवीरम् । वनं समास इत्यस्यावकाशः - प्रवणे यष्टव्यम् । इहोभयं प्राप्नोति - परिवनम्, अपवनम् । वनं समासे इत्येतद्भवति विप्रतिषेधेन ॥ (6335 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - न वा वनस्यान्तोदात्तवचनं तदपवादनिवृत्त्यर्थम् - न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? वनस्यान्तोदात्तवचनं तदपवादनिवृत्त्यर्थम् । सिद्धमत्रान्तोदात्तत्वमुत्सर्गेणैव । तस्य पुनर्वचन एतत् प्रयोजनं - येऽन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् । स यथैव तदपवादमव्ययस्वरं बाधते, एवमिममपि बाधिष्यते ॥ Kashika ------- परि प्रति उप अप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववाचिनि रात्र्यवयववाचिनि चोत्तरपदे प्रकृतिस्वरा भवन्ति। परि॑त्रिगर्तं वृष्टो देवः। परि॑सौवीरम्। परि॑सार्वसेनि। प्रति — प्रति॑पूर्वाह्णम्। प्रत्य॑पराह्णम् प्रति॑पूर्वरात्रम्। प्रत्य॑पररात्रम्। उप — उप॑पूर्वाह्णम्। उपा॑पराह्णम् । उप॑पूर्वरात्रम्। उपा॑पररात्रम्। अप — अप॑त्रिगर्तं वृष्टो देवः। अप॑सौवीरम्। अप॑सार्वसेनि। निपाता आद्युदात्ता **उपसर्गाश्चाभिवर्जम्** (फिट्० सू० ८०) इत्याद्युदात्तानि पूर्वपदानि। तत्पुरुषे बहुव्रीहौ च सिद्धत्वादव्ययीभावार्थोऽयमारम्भः। तत्रापपरी वर्जने (१.४.८८) वर्तेते इति तयोरेव वर्ज्यमानमुत्तरपदम् नेतरयोः। अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्तीति न पृथगुदाह्रियन्ते। वर्ज्यमानाहोरात्रावयवेष्विति किम्? प्॒रत्य॒ग्नि शलभाः पतन्ति। प॒रि॒व॒नमित्यत्र **वनं समासे** (६.२.१७८) इत्येतद् भवति॥ Siddhanta Kaumudi ----------------- एते प्रकृत्या वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्तं वृष्टो देवः । प्रतिपूर्वाह्णम् । उपपूर्वाह्णम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्यमानार्थत्वात् । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । वर्ज्येति किम् । अग्निं प्रति । प्रत्यग्नि ॥ Padamanjari ----------- परित्रिगर्तमिति । त्रिगर्तन्वर्जयित्वेत्यर्थः। अपपरी वर्जने इति कर्मप्रवचनीयसंज्ञा, पञ्चम्यगाङ्परिभिः इति पञ्चमी । अपपरिबहिरञ्चवः पञ्चम्या इत्यव्ययीभावः। सौवीरादयोऽपि जनपदविशेषाः। प्रतिपूर्वाह्णमिति । लक्षणेनाभिप्रती आभिमुख्ये इत्यव्ययीभावः। उपपूर्वाह्णमिति । अव्ययं विभक्ति इत्यादिना सामीप्ये। किं पुनः एकारणमपपरर्योरेव वर्ज्यमानमुदाहृतम्, नेतरयोः तत्राह - तत्रेति । अथाहोरात्रावयवा अपि इतरयोरपपर्थोः कस्मान्नोदाह्रियन्ते अत आह - अहोरात्रावयवा अपीति । परिवनमित्यत्रेति । परिप्रत्युपापा इत्यस्यावकाशः - परित्रिगर्तमिति, वनं समासे इत्यस्यावकाशः - प्रवणमिति परिवनमित्यत्र वनं समासे इत्येतद्भवति विप्रतिषेधेन । अपवादत्वं चात्र हेतुः, न विप्रतिषेधः । समासस्य इत्येव सिद्धे वनस्य पुनर्वचने एतत्प्रयोजनम् - येऽन्ये तदपवादास्तद्वाधनार्थम् । सर्वयैवाव्ययस्वरं बहुव्रीहिस्वरं च बाधते, एवमिदमपि बाधिष्यते॥ Prakriyasarvasvam ----------------- एते वर्ज्यमानवाचिनि अहोरात्रांशवाचिनि च परे प्रकृत्या स्युः । परिग्रामं सेना याति । प्रतिपूर्वाह्णम् । प्रतिपूर्वरात्रम् । उपपूर्वाह्णम् । उपापररात्रम् । अपग्रामम् । एषु प्राक् पदानि उपसर्गाभिवर्जम् (स. क. ८-३-१९०) इत्याद्यु- दात्तानि ।