62031: दिष्टिवितस्त्योश्च ========================= **Padacheda:** दिष्टि-वितस्त्योः | S | 7 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In a द्विगु समास (Numeral Determinative Compound) the first member may optionally preserve its accent when followed by the words दिष्टि and वितस्ति।as its second members. Vasu English Translation ------------------------ In a द्विगु समास (Numeral Determinative Compound) the first member may optionally preserve its accent when followed by the words दिष्टि and वितस्ति।as its second members. Thus प꣡ञ्चदिष्टिः or पञ्चदिष्टिः꣡, प꣡ञ्चवितस्तिः or पञ्चवितस्तिः꣡ ॥ The affix मात्रच् is elided after the प्रमाण denoting words *dishti* and *vitasti* (5.2.37). Kashika ------- दिष्टि वितस्ति इत्येतयोरुत्तरपदयोर्द्विगौ समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति। पञ्च॑दिष्टिः, प॒ञ्च॒दि॒ष्टिः। पञ्च॑वितस्तिः, प॒ञ्च॒वि॒त॒स्तिः। दिष्टिवितस्ती प्रमाणे, तेनात्र मात्रचो लुक्॥ Siddhanta Kaumudi ----------------- एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ॥ Nyaas ----- अबह्वर्थोऽयमारम्भः। `पञ्चदिष्टिः` इति। पञ्चारत्निरित्यनेन तुल्यम्॥ Prakriyasarvasvam ----------------- अनयोः परयोर्द्विगो प्राक्पदं वा प्रकृत्या स्यात् । पञ्चदिष्टिः । पञ्चवितस्तिः । द्वे प्रमाणे ।