62029: इगन्तकालकपालभगालशरावेषु द्विगौ ===================================== **Padacheda:** इगन्त-काल-कपाल-भगाल-शरावेषु | S | 7 | 3 | द्विगौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a द्विगु समास (Numeral Determinative Compound) the first member preserves its original accent before a stem ending in a simple vowel with the exception of अ (इक्) before a word denoting time, as well as before 1. कपाल 2. भगाल and 3. शराव। Vasu English Translation ------------------------ In a द्विगु समास (Numeral Determinative Compound) the first member preserves its original accent before a stem ending in a simple vowel with the exception of अ (इक्) before a word denoting time, as well as before 1. कपाल 2. भगाल and 3. शराव। Thus प꣡ञ्चारत्निः, द꣡शारत्निः ॥ The above are examples of *Taddhitartha* *Dvigu* (2.1.52), equal to पंचारत्नयः प्रमाणमस्य, the प्रमाण denoting-affix मात्रच् is always elided in *Dvigu* (V. 2.3 *Vartika*). So also प꣡ञ्चमास्य, द꣡शमास्यः = पञ्च मासान् भृतो भूतो भावी वा. This is also a *Taddhitartha* *Dvigu* (2.1.52), formed by the affix यप् (5.1.80) — (6.1.82). So also प꣡ञ्चवर्षः द꣡शवर्षः the affix ठञ् being elided (5.1.88). So also प꣡ञ्चकपालः, द꣡शकपालः, प꣡ञ्चभगालः, द꣡शभगालः, प꣡ञ्चशरावः, द꣡शशरावः ॥ These are also *Taddhitartha* *Dvigu* formed by (4.2.16), the affix अण् being elided by (4.1.88). Why do we say "before an इगन्त stem &c"? Observe पंचभिरश्वैः क्रीतः = पंचाश्वः꣡, दशाश्वः꣡ ॥ Why do we say "in a *Dvigu* Compound ?" Observe परमारत्निः꣡, परमशराव꣡म् ॥ When these *Dvigu* compounds, by case-modifications do not end in इक् vowel, but the vowel is replaced by a semivowel or *Guna*, the rule will still apply. Thus प꣡ञ्चारत्न्यः or प꣡ञ्चारत्नयः ॥ This is done on the strength of the maxim असिद्धं बहिरङ्गमन्तरङ्गे. "That which is *bahiranga* is regarded as not having taken effect or as not existing, when that which is *antaranga* is to take effect:" because the substitution of semivowel or *guna* is a *bahiranga* operation in relation to accent. Or the substitutes may be considered as *sthanivat* to the short-vowel which they replace. Bhashya ------- इगन्तकालकपालभगालशरावेषु द्विगौ (2689) (6332 उपसंख्यानवार्तिकम् ॥ 1 ॥) - इगन्तप्रकृतिस्वरत्वे यण्गुणयोरुपसंख्यानम् - इगन्तप्रकृतिस्वरत्वे यण्गुणयोरुपसंख्यानं कर्तव्यम् । पञ्ञ्चारत्न्यः, दशारत्न्यः । पञ्ञ्चारत्नयः, दशारत्नयः । यण्गुणयोः कृतयोरिगन्ते द्विगावित्येष स्वरो न प्राप्नोति ॥ (6333 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यम् । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गौ यण्गुणौ । अन्तरङ्गः स्वरः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ Kashika ------- इगन्त उत्तरपदे कालवाचिनि कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति। इगन्त — पञ्चा॑रत्निः। दशा॑रत्निः। पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्येति तद्धितार्थे द्विगुः,**प्रमाणे लो द्विगोर्नित्यम्** (५.२.३७ वा०) इति मात्रचो लोपः। इगन्त। काल — पञ्च॑मास्यः। दश॑मास्यः। पञ्च मासान् भृतो भूतो भावी वा (५.१.८०) इति तद्धितार्थे **द्विगोर्यप्** (५.१.८२)। पञ्च॑वर्षः। दश॑वर्षः। **वर्षाल्लुक् च** (५.१.८८) इति ठञो लुक्। काल। कपाल — पञ्च॑कपालः। दश॑कपालः। कपाल। भगाल — पञ्च॑भगालः। दश॑भगालः। भगाल। शराव — पञ्च॑शरावः। दश॑शरावः। **संस्कृतं भक्षाः** (४.२.१६) इति तद्धितार्थ एते समासा **द्विगोर्लुगनपत्ये** (४.१.८८) इति कृताण्प्रत्ययलोपा द्रष्टव्याः। इगन्तादिष्विति किम् ? पञ्चभिरश्वैः क्रीतः प॒ञ्चा॒श्वः। द॒शा॒श्वः। द्विगाविति किम् ? प॒र॒मा॒र॒त्निः। प॒र॒म॒श॒रा॒वम्। पञ्चा॑रत्न्यो दशा॑रत्नय इति च यण्गुणयोर्बहिरङ्गलक्षणयोरसिद्धत्वात् स्थानिवद्भावाद् वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते॥ Siddhanta Kaumudi ----------------- एषु परेषु पूर्वं प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारत्निः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः ॥ (वार्तिकम्) ॥ इत्यधिकारे । (वार्तिकम्) ॥ पञ्चकपालः । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । (फिट्)न्रः संख्यायाः इति पञ्चञ्छब्द आद्युदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरत्निः ॥ Padamanjari ----------- कृताणप्रत्ययलोपा इति। कुतोऽण्प्रत्ययलोपो यषां ते तथोक्ताः । द्विगाविति किं परमशराव इति । षष्ठीसमासोऽयम् । बहुव्रीरौ तु पूर्वपदप्रकुतिस्वरेण भाव्यमेव । इगन्तप्रकुतिस्वरत्वे यण्गुणयो रुपसंख्यानम् - पञ्चारत्न्यो दशारत्न्यः,यण्गुणयोः कृतयोरिगन्ते द्विगावित्येष स्वरो न प्राप्नोति इत्यत आह यण्गुणयोरित्यादि। प्राक्सुबुत्पते। स्वरो भवन्नन्तरङ्गः, यण्गुणौ तु सुबपेक्षत्वाद्बहिरङ्गौ । स्थानिवद्भावाद्वेति । न चात्र स्वरविधौ न स्थानिवत्वम्, अलोपाजादेशत्वात् । पञ्चारत्न्य इति । छान्दसोऽयं प्रयोगः। तत्र जसि चेति गुणे न भवति जसादिषु च्छन्दसि वा वचनम् इति वचनात्॥ Nyaas ----- `तद्धितार्थे द्विगोर्यप्` इति। **मासाद्वयसि यत्खञौ** (5.1.81) इत्यनुवर्तमाने **द्विगोर्यप्** (5.1.82) इति यप्। `ठञो लुक्` इति। प्राग्वतीयस्य। `पञ्चकपलः` इति। पञ्चसु कपालेषु संस्कृतः पुरोडाश इति **संस्कृतं भक्षाः** (4.2.16) इत्यण्, तस्य **द्विगोः** (4.1.21) इत्यादिना लुक्। `एते समासाः` इति। पञ्चकपाल इत्येवमादयो दशशरावपर्यन्ताः। `कृताष्प्रत्ययलोपा` इति। कृतोऽण्प्रत्ययलोपो येषां ते तथोक्ताः। पञ्चदशशब्दावत्र `ग्रः संख्यायाः` (फि।सू।2।28) इत्युदात्तौ। `पञ्चाआः` इति। तद्धितार्थे समासः। `आर्हादगोपुच्छ` (5.1.19) इत्यादिना ठक्। `अध्यर्धपूर्व` (5.1.28) इत्यादिना लुक्। पञ्च शरावाण्यस्मिन्निति बहुव्रीहिः। अथेह कथं भवति - पञ्चारत्न्यो दशारत्न्य इति, यवाता यणादेशे कृते गुणे च नात्रेगन्तमुत्तरपदम्? इत्याह - `पञ्चारत्न्यः` इत्यादि। यद्? यण्गुणौ ह्रजादौ विभक्तौ परत इति ताविह बहिरङ्गौ, स्वरस्त्वन्तरङ्ग; प्राग्विभक्त्युत्पत्तेर्भावात्, `असिद्धं बहिरङ्गमन्तरङ्गे` (व्य।प।42)। तेन पञ्चारत्न्य इत्यत्रापि द्विगुस्वर इगन्तलक्षणः प्रवर्तते। `स्थानिवद्भावाद्वा` इति। **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति पूर्वस्वरे कर्तव्यो यो गुणः स्थानिवद्भावेनेगन्तलक्षणः प्रवर्तते। ननु च स्वरविधौ `न पदन्त` (1.1.58) इत्यादिना स्थानिवद्भावः प्रतिषिध्यते? नैतदस्ति; `स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` इत्युक्तत्वात्? (का।1.1.59) न चैवमिको यण्गुणौ लोपाजादेशौ। `पञ्चारत्न्यः` इति। अरत्निशब्दोऽत्र `कृदिकारादक्तिनः` (ग।सू।50) `सर्वतोऽक्तिन्नर्थादित्येके` (ग।सू।51) इति बह्वादिषु पाठान्ङीषन्तः। इहापि पूर्ववत्? तद्धितार्थे द्विगुः, मात्रचस्तु लोपः॥ Prakriyasarvasvam ----------------- इगन्ते कालार्थे कपालादिषु च परेषु द्विगो प्राक्पदं प्रकृत्या स्यात् । पञ्चारत्निः । दशमास्यः । 'द्विगोर्यप्' (५-२-८२) पञ्चकपाल । पञ्चभगालः । पञ्चशरावः । एषु संस्कृ(ते?ता) णोलुक् । पञ्चदण्डीत्यत्र तु नलोपस्यासिद्धत्वादयं स्वरो न ।