62019: न भूवाक्चिद्दिधिषु ========================= **Padacheda:** न | S | 0 | 0 | भू-वाक्-चित्-दिधिषु | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The words भू , वाक् , चित् and दिधिषू however do not preserve their original accent in तत्-पुरुष समास when coming before the word पति denoting 'master' or 'lord'. Vasu English Translation ------------------------ The words भू , वाक् , चित् and दिधिषू however do not preserve their original accent in तत्-पुरुष समास when coming before the word पति denoting 'master' or 'lord'. This debars the accent taught by the last aphorism. Thus भूपतिः꣡, वाक्पतिः꣡, चित्पतिः꣡, दिधिषूपतिः꣡ ॥ All these are Genitive compounds and are finally accented by (6.1.223). Kashika ------- पतिशब्द उत्तरपद ऐश्वर्यवाचिनि तत्पुरुषे समासे भू वाक् चित् दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति। पूर्वेण प्राप्तः स्वरः प्रतिषिध्यते। भू॒प॒तिः। वा॒क्प॒तिः। चि॒त्प॒तिः। दि॒धि॒षू॒प॒तिः। षष्ठीसमासा एते समासस्वरेणान्तोदात्ता भवन्ति॥ Siddhanta Kaumudi ----------------- पतिशब्दे परे ऐश्वर्याचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्यपतिः । चित्पतिः । दिधिषूपतिः ॥ Padamanjari ----------- भूवादीनां समाहारद्वन्द्वे नपुंसकहस्वत्वम्, अत्र पूर्वपदप्रकृतिस्वरप्रतिषेधाद् वृत्तिकारेण पूर्वपदानां स्वरो व्याख्यातः । तत्रादितस्त्रयः क्किबन्ताः । अन्दूदृभ्भूजम्बूकफेलूकर्कन्धूदिधिषूः इति कूप्रत्ययान्तो दिधिषूशब्दो निपातितिः ॥ Nyaas ----- `भुवः संज्ञान्तरयोः` (3.2.179) इति क्विपा भूशब्दो धातुस्वरेणान्तोदात्तः। एवं वाक्शब्दः, वचः `क्विब्वचिप्रच्छि` (द।उ।10।2) इत्यादिना क्विप्। `चित्` इति। `चितौ संज्ञाने` (धातुपाठः-39) इत्यस्मात्? **अन्येभ्योऽपि दृश्यते** (3.3.130) इति क्विप्। `नृतिशृध्योः कूः` (द।उ।1।174) इत्यधिकृत्य `अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः (द।उ।1।176) दिधिषूशब्दः कूप्रत्ययान्तोऽन्तोदात्त इति॥ Prakriyasarvasvam ----------------- ऐश्वर्यार्थे पत्यौ परे भ्वादयः प्रकृत्या न स्युः । भूपतिः । वाक्पति । दिधिषूपतिः । एषु समासस्वरः ।