62008: निवाते वातत्राणे ======================= **Padacheda:** निवाते | S | 7 | 1 | वातत्राणे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word निवात in the sense of 'a protection from wind'. Vasu English Translation ------------------------ The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word निवात in the sense of 'a protection from wind'. Thus कुट्येवं निवातं = कु॒꣡टीनिवातम् 'a hut as the only shelter from the wind'. So also श꣡मीनिवातम्, कु꣡ड्यनिवातम् or कुड्य꣡निवातम् ॥ The word निवात is an *Avyayibhava* compound = वातस्य अभावः (2.1.6): or a *Bahuvrihi* = निरुद्धो वातोऽस्मिन् ॥ The words कुटीनिवातम् &c, are examples of compounds of two words in apposition. कुटी and शमी are formed by ङीष् (4.1.41) and have acute on the last (3.1.3). Some say that कुड्य is derived from कु by adding यत् with the augment डक् and treating it as कित्, is has the acute on the first; others hold that it is derived by the affix ड्यक् to कु and the affix has the accent. Why do we say when meaning 'a shelter from wind'? Observe राजनिवाते꣡ वसति, सुखं मातृनिवातं꣡ = 'he lives under the shelter of the king'; 'pleasant is the shelter or the protection of the mother'. Here निवात = पार्श्वः or vicinity. Kashika ------- निवातशब्द उत्तरपदे वातत्राणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। कुट्येव निवातं कु॒टीनि॑वातम्। श॒मीनि॑वातम्। कुड्य॑निवातम्। वातस्याभावो निवातम्, अर्थाभावः (२.१.५) इत्यव्ययीभावः। निरुद्धो वातोऽस्मिन्निति वा निवातमिति बहुव्रीहिः। तत्र कुड्यादिहेतुके निवाते कुड्यादयो वर्तमानाः समानाधिकरणेन निवातशब्देन सह समस्यन्ते। कुटीशमीशब्दौ गौरादिङीषन्तावन्तोदात्तौ। कुड्यशब्दोऽपि कवतेर्यत् डक् किच्च इति यत्प्रत्ययान्त आद्युदात्त इत्येके। ड्यक्प्रत्ययान्तोऽन्तोदात्त इत्यपरे। वातत्राण इति किम् ? रा॒ज॒नि॒वा॒ते वसति। सुखं मा॒तृ॒नि॒वा॒तम्। निवातशब्दोऽयं पार्श्ववाची रूढिशब्दस्तत्रोभयत्र षष्ठीसमासः॥ Siddhanta Kaumudi ----------------- निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीपन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ॥ Padamanjari ----------- ड।ल्क्प्रत्ययान्तोऽन्तोदात इत्यपरे इति । कवतेड।ल्Çक् इति सूत्रमधीयते । डकारस्येत्संज्ञा न भवति गुणप्रतिषेधार्थात्ककारानुबन्धात् ॥ Nyaas ----- `कुडआदिहेतुके` इत्याद। कुडआदिहेतुके वर्तन्ते; कार्ये कारणोपचारात्। भवति कारणे कार्योपचारः, यथा -`सर्वमिदं पुरातनं कर्म भुजयते` इति। `कवतेः` इति। `कु शब्दे (धातुपाठः-1042)। `आद्युदात्तः` इति। **यतोऽनावः** (6.1.213) इत्यनेन। `डक्प्रत्ययांन्तोऽन्तोदात्त इत्यपरे` इति। ते `कवतेडर्क्` (द।उ।8।20) इति सूत्रमधीयते॥ Prakriyasarvasvam ----------------- वातत्राणा१र्थे निवाते परे प्राक्पदं प्रकृत्या स्यात् । कुटीनिवातम् । कुटी ङीपन्तः ।