61219: मतोः पूर्वमात् संज्ञायां स्त्रियाम् ========================================== **Padacheda:** मतोः | S | 5 | 1 | पूर्वम् | S | 1 | 1 | आत् | S | 1 | 1 | संज्ञायाम् | S | 7 | 1 | स्त्रियाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The आ before the affix मत् has the acute accent, when the word is a name in the Feminine Gender. Vasu English Translation ------------------------ The आ before the affix मत् has the acute accent, when the word is a name in the Feminine Gender. Thus अदुम्बरा꣡वती, पुष्करा꣡वती, शरा꣡वती (4.2.85). The lengthening takes place by (6.3.120). वीरणा꣡वती ॥ Why do we say 'the आ'? Observe इक्षुम꣡ती, द्रुमवती꣡ ॥ The words इक्षु *Un*. III.157 and द्रुम (5.2.108) are end-acute, so accent is on मतुप् by (VI.I.I76). Why do we say when a name? Observe ख꣡ट्वावती ॥ खट्वा is formed by क्वन् and has acute on the first (*Un*. I.151). Why do we say in the Feminine Gender? Observe शरावान् ॥ Why do we say when followed by मत् ? Observe गवादिनी ॥ Kashika ------- मतोः पूर्व आकार उदात्तो भवति, तत् चेद् मत्वन्तं स्त्रीलिङ्गे संज्ञा भवति। उ॒दु॒म्ब॒राव॑ती। पु॒ष्क॒राव॑ती। वी॒र॒णाव॑ती। श॒राव॑ती। **शरादीनां च** (६.३.१२०) इति दीर्घः। आदिति किम् ? इ॒क्षु॒मती॑। द्॒रुम॒वती॑। संज्ञायामिति किम् ? खट्वा॑वती। स्त्रियामिति किम् ? शरा॑वान्। मतोरिति किम् ? ग॒वा॒दिनी॑॥ Siddhanta Kaumudi ----------------- मतोः पूर्वमाकार उदात्तः स्त्रीनाम्नि । उदुम्बरावती । शरावती ॥ Padamanjari ----------- मतोः पूर्वं आकार इति। अर्थव्याख्यानमेतत्। सूत्रे तु शब्दरूपापेक्षय नपुंसकनिर्देशः। केचितु सूत्रे पूर्वशब्दं पुंल्लिङ्गमेव पठन्ति। उदाहरणे चातुरथिकः'नद्यां मतुप्' ,'मतौ बह्वचो' नचिरादीनां चऽ इति दीर्घत्वम्। मतोरिति किम् ? गवादिनीति। मतोरित्यस्मिन्नसति पूर्वग्रहणमपि न क्रियेतेति संज्ञाशब्दसम्बन्धिन आकारमात्रस्य प्रसङ्गः। पूर्वग्रहणं मतोरनन्तरस्य पूर्वस्य यथा स्यात्, इह मा भूत् - सानुमतीति ॥ Nyaas ----- `उदुम्बरावती` इति। उदुम्बरा अस्यां सन्तीति चातुरर्थिको मतुप्, **मतौ बह्वचोऽनजिरादीनाम्** (6.3.119) इति दीर्घत्वम्। `शरावती` इति। अत्र **शरादीनां च** (6.3.120) इति। `मतोरिति किम्? गवादिनी` इति। `मतोः` इत्यस्मिन्ननुच्यमाने तत्सम्बद्धं पूर्वग्रहणमपि नोच्येत, संज्ञाशब्दस्याकारमात्र स्योदात्तत्वं प्रसज्येत। पूर्वग्रहणं मतोरनन्तरस्यास्य यथा स्यात्। इह मा भूत् - सानुमतीति। लक्षणप्रतिपदोक्त परिभाषया (व्या।प।3) चेहैव स्यात् - श्यमावती, उदुम्बरावतीत्यादि न स्यात्। पूर्वग्रहणात्? पूर्वमात्रस्य भवति॥ Prakriyasarvasvam ----------------- ङयन्तस्य नाम्न्यूक्तस्य मतुपः पूर्व आत् उदात्तः स्यात् । शरावती ।