61215: विभाषा वेण्विन्धानयोः ============================ **Padacheda:** विभाषा | S | 1 | 1 | वेणु-इन्धानयोः | S | 6 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The acute accent is optionally on the first syllable of वेणु and इन्धान। Vasu English Translation ------------------------ The acute accent is optionally on the first syllable of वेणु and इन्धान। Thus वे꣡णुः or वेणुः꣡; इ꣡न्धानः or इन्धा꣡नः or इन्धानः꣡ ॥ The word वेणु is derived by the *Unadi* affix णु (III.38), which being a नित् would always have acute on the first. This allows an option. The word इन्धान, if it is formed by चानश् it will have the accent on the final. If it is considered to be formed by शानच्, the affix being a *sarvadhatuka* is *anudatta*, and as it replaces *udatta* final of the root, it becomes *udatta* (6.1.161), and thus इन्धान gets acute on the middle. It would never have acute on the first syllable, the present rule ordains that also. When वेणु is used as an -*upamana* वेणुरिव वेणुः, then it is invariably acutely accented on the first (6.1.204). Bhashya ------- विभाषा वेण्विन्धानयोः (2652) (विभाषानिर्धाकरकभाष्यम्) किमियं प्राप्ते विभाषा,आहोस्विदप्राप्ते? कथं च प्राप्ते, कथं चाप्राप्ते? यदि संज्ञायामुपमानम् निष्ठा च द्व्यजनात् (6-1-204,205) इति वा नित्ये प्राप्ते आरम्भस्ततः प्राप्ते, अन्यथा त्वप्राप्ते। वेणुरिक्तयोरप्राप्ते विभाषा, प्राप्ते नित्यो विधिः। वेणुरिव वेणुः। रिक्तो नाम कश्चित्॥ Kashika ------- वेणु इन्धान इत्येतयोर्विभाषा आदिरुदात्तो भवति। वेणुः॑, वे॒णुः। इन्धा॑नः, इ॒न्धा॒नः, इ॒न्धानः॑। वेणुशब्दोऽयम् **अजिवृरीभ्यो निच्च** (प० उ० ३.३८) इति णुप्रत्ययान्तो नित्त्वाद् नित्यमाद्युदात्तः प्राप्तः। इन्धानशब्दोऽपि यदा चानशन्तस्तदा चित्त्वादन्तोदात्तः। अथ शानजन्तस्तदा लसार्वधातुकानुदात्तत्वे कृत उदात्तनिवृत्तिस्वरेण मध्योदात्तः। तदेवमिन्धाने सर्वथाप्राप्तमाद्युदात्तत्वं पक्षे विधीयते। वेणुरिव वेणुरित्युपमानं यदा संज्ञा भवति, तदा **संज्ञायामुपमानम्** (६.१.२०४) इति नित्यमाद्युदात्तत्वमिष्यते॥ Siddhanta Kaumudi ----------------- आदिरुदात्तो वा । इन्थानो अग्निम् (इन्धा॑नो अ॒ग्निम्) ॥ Nyaas ----- `णुप्रत्ययान्त` इति। तद्विधौ `स्थो णुः` (द।उ।1।147) इत्यतो णुग्रहणानुवृत्ते। `यदि चानशन्तः` [`यदा - काशिका] इति। `ताच्छील्यवयोवचनशक्तिषु चानश्? (3.2.129) इत्यनेन। `अथ शानजन्तः` इति। `लट) शतृशानचो` (3.2.124) इत्यादिना। `लसार्वधातुकनिघाते कृते` इति। `तास्यनुदात्तेत्` (6.1.180) इत्यादिना। इन्धाने` इति। अस्यानुदात्तत्वात्। `उदात्तनिवृत्तिस्वरेण` इति। **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इत्यनेन। `वेणुः` इत्यादि। **संज्ञायामुपमानम्** (6.1.204) इत्यस्यावकाशः - चञ्चा, वर्घ्रिकेति, अस्या विभाषाया अवकाशः - अनुपमानो वेणुशब्दः शुष्को वने वेणुरिति वेति, यदा वेणुरिवेत्युपमानवेणुशब्दः कस्यचित्? संज्ञा भवति तदा **संज्ञायामुपमानम्** (6.1.204) इति तस्याद्युदात्तत्वमिष्यते, तच्च पूर्वविप्रतिषेधाल्लभ्यते॥ Prakriyasarvasvam ----------------- अनयोरादिरुच्चो वा स्यात् । वेणुः । वेणुर्वेणवीभवति । इन्धानो अग्निः । अग्निमिन्धानो२ नाम्नि मनसा ।