61197: ञ्नित्यादिर्नित्यम् ========================== **Padacheda:** ञ्निति | S | 7 | 1 | आदिः | S | 1 | 1 | नित्यम् | S | 1 | 1 | Sutrartha --------- **ञित् प्रत्यये परे नित्-प्रत्यये च परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति ।** यस्मिन् प्रत्यये ञकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'ञित्' प्रत्ययः अस्ति इत्युच्यते । तथैव, यस्मिन् प्रत्यये नकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'नित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः ञित्/नित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य आदि-स्वरः उदात्तसंज्ञकः भवति । यथा - 1. गर्ग + यञ् → गार्ग्य॑ । अत्र 'यञ्' प्रत्ययः ञित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति । 2. विद् + घञ् → वेदऺ । अत्र 'घञ्' प्रत्ययः ञित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति । 3. वासुदेव + वुन् → वासु॑देवक । अत्र 'वुन्' प्रत्ययः नित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति । 4. धा + तृन् → धातृ॑ । अत्र 'तृन्' प्रत्ययः नित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति । ज्ञातव्यम् - यदि कस्मिंश्चित् तद्धितप्रत्यये चकारञकारौ द्वावपि इत्संज्ञकौ स्तः, तर्हि अस्मिन् प्रत्ययस्य संयोगेन निर्मितस्य समुदायस्य वर्तमानसूत्रेण आद्युदात्तत्वे प्राप्ते, तं बाधित्वा **तद्धितस्य** (6.1.164) इत्यनेन एतादृशस्य शब्दस्य अन्तोदात्तत्वं विधीयते । यथा, **गोत्रे कुञ्जादिभ्यः च्फञ्** (4.1.98) इत्यनेन 'कुञ्ज' शब्दात् च्फञ्-प्रत्यये कृते 'कुञ्ज + च्फञ् → कौ॒ञ्जा॒य॒न' इति सिद्ध्यति । अत्र यद्यपि प्रत्ययः ञित्-अस्ति, तथापि प्रत्ययः चित्-अपि अस्ति, अतः वर्तमानसूत्रम् बाधित्वा **तद्धितस्य** (6.1.164) इत्यनेन अस्य शब्दस्य अन्तोदात्तत्वं विधीयते । Sutrartha (English) ------------------- The word ending in a ञित् or a नित् प्रत्यय become आद्युदात्त. Vasu English Summary -------------------- Whatever is derived with an affix having an indicatory ञ् or न् , has the acute accent invariably on the first syllable. Vasu English Translation ------------------------ Whatever is derived with an affix having an indicatory ञ् or न् , has the acute accent invariably on the first syllable. Thus गा꣡र्ग्य with यञ् (4.1.105), वा꣡सुदेवकः, अ꣡र्जुनकः with थुन् (4.3.98). This is an exception to (3.1.3). When the affixes are, however, elided, the word loses this accent, i. e. the affix does not leave its mark behind, as it generally does by (1.1.62). Therefore गर्गाः꣡, बिदाः꣡, चञ्चाः꣡ having lost यञ्, अञ् and कन्, have lost their accent also. Kashika ------- ञिति निति च नित्यमादिरुदात्तो भवति। **गर्गादिभ्यो यञ्** (४.१.१०५) — गार्ग्यः॑। वात्स्यः॑। **वासुदेवार्जुनाभ्यां वुन्** (४.३.९८) — वासु॑देवकः। अर्जु॑नकः। प्रत्ययस्वरापवादोऽयं योगः। प्रत्ययलक्षणमत्र नेष्यते, तेन ग॒र्गाः, बि॒दाः, च॒ञ्चा इत्यत्र यञि कनि च लुप्ते न भवति॥ Siddhanta Kaumudi ----------------- ञिदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या (यस्मि॒न्विश्वा॑नि॒ पौंस्या॑) । पुंसः कर्मणि ब्राह्मणादित्वात् ष्यञ् । सुते दधिष्व नश्चनः (सु॒ते द॑धिष्व न॒श्चनः॑) । चायतेरसुन् । चायेरन्ने ह्रस्वश्च (उ639) इति चकारादसुनो नुडागमश्च ॥ Padamanjari ----------- प्रत्ययस्वरापवाद इति। बाहुल्यादेवमुक्तम्।'श्रोत्रियंश्च्छन्दो' धीतेऽ इत्, अत्र हि वाक्यार्थे पदवचनमित्यत्र पक्षे न प्रत्ययश्वरप्रसङ्गः । प्रत्ययलक्षणमत्र नेष्यत इति। ननु च'न लुमताङ्गस्य' इति प्रतिषेधादेव प्रत्ययलक्षणं न करिष्यते, किमुच्यते - प्रत्ययलक्षणमत्र नेष्यत इति ? एवमन्यतो ज्ञापितमेतत् -'स्वरविधौ सप्तम्यस्तदन्तसप्तम्यः' इति। ततश्च यथा पूर्वसूत्रे थलन्तं कार्यि; तथात्रापि ञ्निदन्तं न तु ततः पूर्वमङ्गमित्यनङ्गकार्यत्वात्प्रतिषेधो न सिद्ध्यतीति। यञि कनि चेति। चकाराद्बिदाद्यञि च ॥ Nyaas ----- `वासुदेवकः` इति। वासुदेवे भक्तिरस्येत्यर्थे वुन्। अथेह गर्गा, विदा इति **यञञोश्च** (2.4.64) इति बहुषु लुकि कृते, चञ्चेव चञ्चेत्यत्र च **इवे प्रतिकृतौ** (5.3.96) इत्युत्पन्नस्य कनः **लुम्मनुष्ये** (5.3.98) इति लुपि कृते कस्मान्न भवति, लुप्तेऽपि प्रत्यये `प्रत्ययलोपे प्रत्ययलक्षणम्? (1.1.62) इत्यस्ति प्राप्ति? इत्यत आह - `प्रत्ययलक्षणमत्र नेष्यते` इति। तत्? कथं पुनरिष्यमाणो न भवति? **संज्ञायामुपमानम्** (6.1.204) इत्यत्र वक्ष्यमाणाज्ज्ञापकात्। अथ वा **न लुमताङ्गस्य** (1.1.63) इत्यनेन यन्नाम किञ्चिदङ्गस्य कार्यमङ्गाधिकारे विहितमेव, तेन प्रतिषेधादिह प्रत्ययलक्षणं स्वीकार्यं न भविष्यति। एवमुत्तरात्रापि प्रत्ययलक्षणाभावो वेदितव्यः। `यञि कनि च लुप्ते` इति। चकाराद्विदाधञि च॥ Prakriyasarvasvam ----------------- ञिदन्ते नीदन्ते चादिर्नित्यमुच्चः स्यात् । घञ्—पोषमेव । तृन्—होतारं रत्नधातमम् । गार्ग्यः । वा²सुदेवकः । 'प्रत्ययलक्षणमत्र नेष्टम्' । गर्गाः । ञ्णिजन्तस्यैव स्वरोक्तेस्तस्याङ्गकार्यत्वाभावाद् 'न लुमता—' (१-१-६३) इत्यस्याप्रवृत्तेरत्र प्रत्ययलक्षणस्य प्रसक्तिः ।