61187: आदिः सिचोऽन्यतरस्याम् ============================ **Padacheda:** आदिः | S | 1 | 1 | सिचः | S | 6 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The सिच् Aorist, the first syllable may optionally have the acute accent. Vasu English Translation ------------------------ The सिच् Aorist, the first syllable may optionally have the acute accent. The word उदात्त is understood here. Thus मा हि का꣡र्ष्टाम्, मा हि कार्ष्टा꣡म्; मा हि ला꣡विष्टाम् or मा हि लाविष्टा꣡म् ॥ In the last example the accent is on पि; and the reason why मा and हि are used in these illustrations, has already been explained in (6.1.161). The indicatory च् of सिच् the shows that by (6.1.163) the acute will be on the otherwise unaccented augment इट्, when it takes this augment. The सिच् being a वलादि affix will take the augment इट् (7.2.35), and it is a general rule that augments are unaccented; so in the above the वि would have been unaccented, and the accent would have been on the final, but for the indicatory च् of सिच्, which otherwise would find no scope. Thus वि gets acute. Vart:- An affix having an indicatory प् (पित्) when coming after an Aorist by सिच् without the augment इट् (अनिट् सिच्) is in one alternative *udatta* (in the other, it is non-acute). This *vartika* restricts the scope of the *sutra* with regard to पित् affixes. Thus we get the following two forms, which otherwise would have one form only by *dhatu*-accent, namely, acute on the first, for पित् is *anudatta*. Thus माहि का꣡र्षम् or मा हि कार्ष꣡म् ॥ But when it takes the इट् augment, there are two forms (Ist.) मा हि ला꣡विषम् as a तिङन्त, (2nd.) मा हि लाविष꣡म् accent on वि (6.1.163). but never मा हि लाविष꣡म् ॥ When however the augment अ is added, the accent falls on this augment (6.4.71). Bhashya ------- आदिः सिचोऽन्यतरस्याम् (2624) (आद्युदात्ताधिकरणम्) (6309 उपसंख्यानवार्तिकम् ॥ 1 ॥) - सिच आद्युदात्तत्वेऽनिटः पित उपसंख्यानम् - सिच आद्युदात्तत्वेऽनिटः पित उपसंख्यानं कर्तव्यम् । मा हि कार्षम् । अनिट इति किमर्थम् ? मा हि लाविषम् ॥ Kashika ------- उदात्त इति वर्तते। सिजन्तस्यान्यतरस्यामादिरुदात्तो भवति। मा हि कार्ष्टा॑म्, मा हि का॒र्ष्टाम्। एकोऽत्राद्युदात्तः, अपरोऽन्तोदात्तः। मा हि लावि॑ष्टाम्, मा हि ला॒विष्टा॑म्। एकोऽत्राद्युदात्तः, अपरो मध्योदात्तः। सिचश्चित्करणादागमानुदात्तत्वं हि बाध्यते॥ सिच आद्युदात्तत्वेऽनिटः पित पक्ष उदात्तत्वं वक्त व्यम् ॥ मा हि का॒र्षम्, मा हि कार्ष॑म्। अनिट इति किम् ? मा हि ला॒विष॑म् । मध्योदात्त एवाद्युदात्ताभावपक्षे भवति॥ Siddhanta Kaumudi ----------------- सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना (या॒सि॒ष्टं व॒र्तिर॑श्विना) ॥ Padamanjari ----------- मा हि कार्ष्टामिति। हेः, माङ्श्च प्रयोगे पूर्वमेव प्रयोजनमुक्तम्। अपरो मध्योदात इति। ननु न वलादिरिह प्रत्ययः, इडागमः, आगमाश्चानुदाता भवन्ति, तस्मादिहाप्यन्तोदातत्वेन भवितव्यम् ? अत आह - सिचश्चित्करणादिति। अनिटः पित इति। अनिटः सिचः परः पित्पक्षे उदातो भवति, पक्षे त्वनुदातः, तेन मा हि कार्षमिति तिङ्न्तं पक्षे आद्यौदातम्, पक्षे त्वन्तोदातम्; अन्यथा धातुस्वरेण नित्यमाद्यौदातं स्यात्। मध्योदात एवेति। सिचः स्वरेण, एवकारेण न त्वन्तोदात इति दर्शयति ॥ Nyaas ----- `मा हि कार्ष्टाम्` इति। हेः, माङश्च प्रयोगो प्रयोजनं पूर्वमेवोक्तम्। `अपरोऽन्तोदात्तः` इति। प्रत्ययस्वरेण। `अपरो मध्योदात्तः` इति। प्रत्ययस्वरेणैव। ननु च वलादिरिह प्रत्ययः, इट्? चागमः, आगमानां चानुदात्तत्वं भवति, तस्मादिहाप्यन्तोदात्तेनैव भवितव्यम्, तत्? कथं मध्योदात्तत्वम्? इत्याह - `सिचश्चित्कारणात्` इत्यादि। सिचश्चित्करणेनानुदात्तत्वे बाधिते चित्स्वर एव भवतीति युक्तं मध्योदात्तत्वम्। `सिच आद्युदात्त` इत्यादि। सिच आद्युदात्तत्वे कर्तव्येऽनिटो विद्यमानो सिचः परो यश्चित्प्रत्ययस्तस्योदात्तत्वं वक्तव्यम्। `मा हि कार्षम्` इति। पक्षे सर्वानुदात्तं पदं मा भूदित्येवमर्थमिदम्। पक्षे तूदात्तत्वेन मुक्ते सर्वानुदात्तमेव पदं भवति॥ Prakriyasarvasvam ----------------- सिजन्तस्यादिरुच्चो वा स्यात् । मा हि काष्टाम् । मा हि काष्टाम् । एक आद्युच्चः । अन्योऽन्तोच्चः । मा हि लाविष्टाम् । एको मध्योच्चः । (अन्य आद्युच्चः) । (वा.) मा हि का (र्षीः र्षम्) । (धि ? पि) त्वाद्धातुस्वरे प्राप्त उक्तिः ।