61186: तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः =============================================================== **Padacheda:** तासि-अनुदात्तेत्-ङित्-अदुपदेशात् | S | 5 | 1 | ल-सार्वधातुकम् | S | 1 | 1 | अनुदात्तम् | S | 1 | 1 | अ-हन्व-इङोः | S | 6 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The Personal-endings and their substitutes (3.2.124)-126 are, when they are सार्वधातुक (3.4.113) etc., unaccented after the characteristic of the Periphrastic Future (तासि) after a root which in the धातुपाठ has an unaccented vowel or a ङ् (with the exception of ह्नुङ् and इङ्) as indicatory letter, as well as after what has a final अ in the Grammatical System of Instruction (उपदेश)। Vasu English Translation ------------------------ The Personal-endings and their substitutes (3.2.124)-126 are, when they are सार्वधातुक (3.4.113) etc., unaccented after the characteristic of the Periphrastic Future (तासि) after a root which in the धातुपाठ has an unaccented vowel or a ङ् (with the exception of ह्नुङ् and इङ्) as indicatory letter, as well as after what has a final अ in the Grammatical System of Instruction (उपदेश)। Thus तासि :- कर्त्ता꣡, कर्त्ता꣡रौ, कर्त्ता꣡रः, this debars the affix accent (3.1.3). *Anudattet* :-as, आस् - आ꣡स्ते, वस् - व꣡स्ते ॥ डित् :- षूङ् - सू꣡ते, शीङ् - शेते ॥ अत् उपदेशः :- as तु꣡दतः, नु꣡दतः, प꣡चतः, प꣡ठतः ॥ A root taking शप् (अ) is considered as taught (*upadesa*) as if ending with an अ, as the indicatory letters श् and प् are disregarded on the maxim अनुबन्धस्यानैकान्तिकत्वं (= अनवयवत्वं) ॥ Thus प꣡चमानः, य꣡जमानः ॥ The augment मुक is added by आने मुक् (7.2.82) which may be explained in two ways; first, the augment मुक् is added to the final अ of the base (*anga*) when आन (आनच् &c) follows; or secondly, the the augment मुक् is added to the base (*anga*) which ends in अ, when आन follows. In the first case मुक् becomes part and parcel of अ and will be taken and included by the enunciation of अ, and therefore अदुपदेश will mean and include an अ having such मुक्, as on the maxim यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते "That to which an augment is added denotes, because the augment forms part of it, not merely itself, but it denotes also whatever results from its combination with that augment". Therefore मुक् will not prevent the verb becoming अदुपदेश ॥ But if secondly मुक् be taken as part of the base which ends in अ, then the लसार्वधातुक does not follow an अदुपदेश, because म intervenes. But we get rid of this difficulty by considering मुक् augment as *Bahiranga* and therefore *asiddha*, when the *Antaranga* operation of accent is to be performed. The augment मुक् (म्) in the last two examples consequently does not prevent the application of the rule. Though the affix शानच् has an indicatory च्, yet चित् accent (6.1.163) is debarred by this rule, as it is subsequent. Why do we say after तासि &c. Observe चिनुतः꣡ चिन्वन्तिः꣡ ॥ The *vikarana* श्नु is ङित् (1.2.4) with regard to operations affecting the prior term, and not those which affect the subsequent. Therefore though श्नु is considered as ङित् for the purposes of preventing the *guna* of the prior term चि, it will not be considered so for the purposes of subsequent accent. Or the word ङित् in this *sutra* may be taken as equal to ङिदुपदेश and not the आतिदेशिक ङित् like श्नु ॥ Why do we use the word *upadesa* ? So that the rule may apply to प꣡चावः, प꣡चामः, but not to हतः, हथः the dual of हन् which ends in न् in *upadesa*. though before तस् and थस् it has assumed the form ह ॥ Therefore ह॒तः꣡, ह॒थः꣡ ॥ Why do we use the word ल (Personal endings)? Observe कतीह प꣡चमाना formed by शानन् added to पू (3.2.128), which not being a substitute of लट्, is not a personal ending like शानच् ॥ Why do we use the word *Sarvadhatuka* ? Observe, शिश्ये꣡, शिश्य꣡ति, शिश्यि꣡रे ॥ Why do we say with the exception of ह्नुङ् and इङ् ? Observe ह्नु॒ते꣡, यद् अधीते ॥ Bhashya ------- तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (2623) (अनुदात्ताधिकरणम्) (अकारान्तं यदुपदेश इत्यर्थकरणपरभाष्यम्) अदुपदेशादिति कथमिदं विज्ञायते - अकारो य उपदेश इति, आहोस्विकारान्तं यदुपदेश इति ? किं चातः ? यदि विज्ञायते - अकारो य उपदेश इति, हतः, हथः इत्यत्रापि प्राप्नोति । अथ विज्ञायते - अकारान्तं यदुपदेश इति, न दोषो भवति । ननु चाकारान्तं यदुपदेश इत्यपि विज्ञायमानेऽत्रापि प्राप्नोति । एतदपि हि व्यपदेशिवद्भावेनाकारान्तं भवत्युपदेशे । अर्थवता व्यपदेशिवद्भावः ॥ (अकारान्तं यदुपदेश इत्यर्थस्वीकारे दोषनिवारकभाष्यम्) यदि तर्हि अकारान्तं यदुपदेश इति विज्ञायते, मा हि धुक्षाताम् - मा हि धुक्षाथाम् - अत्रापि प्राप्नोति । अस्तु, अनुदात्तत्वे कृते लोपः, उदात्तनिवृत्तिस्वरेण सिद्धम् । न सिध्यति । इदमिह संप्रधार्यम् - अनुदात्तत्वं क्रियताम्, लोप इति; किमत्र कर्तव्यम् ? परत्वाल्लोपः । एवं तर्हि - इदमद्य लसार्वधातुकानुदात्तत्वं प्रत्ययस्वरस्यापवादः । न चापवादविषय उत्सर्गोऽभिनिविशते । पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । प्रकल्प्य वापवादविषयं तत उत्सर्गोऽभिनिविशते । तन्न तावदत्र कदाचित्प्रत्ययस्वरो भवति, अपवादं लसार्वधातुकानुदात्तत्वं प्रतीक्षते । तत्रानुदात्तत्वं क्रियताम्, लोप इति, किमत्र कर्तव्यम् ? परत्वाल्लोपः । यद्यपि परत्वाल्लोपः सोऽसावविद्यमानोदात्तेऽनुदात्ते उदात्तो लुप्यते ॥ (6301 सप्तमीनिर्देशोपसंख्यानवार्तिकम् ॥ 1 ॥) - तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थः - तास्यादिभ्यश्चानुदात्तत्वे सप्तमीनिर्देशः कर्तव्यः, लसार्वधातुके इति वक्तव्यम् । किं प्रयोजनम् ? अभ्यस्तसिजर्थम् । अभ्यस्तानामादिरुदात्तो भवति लसार्वधातुके, सिजन्तस्यादिरुदात्तो भवति लसार्वधातुके । लसार्वधातुकम् इत्युच्यमाने तस्यैवाद्युदात्तत्वं स्यात् ॥ यदि सप्तमीनिर्देशः क्रियते, तास्यादीनामेवानुदात्तत्वं प्राप्नोति । नैष दोषः । तस्मादिभ्यः इत्येषा पञ्चमी लसार्वधातुके इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति ॥ (6302 विप्रतिषेधबोधकवार्तिकम् ॥ 2 ॥) - चित्स्वरात्तास्यादिभ्योऽनुदात्तत्वं विप्रतिषेधेन - चित्स्वरात्तास्यादिभ्योऽनुदात्तत्वं भवति विप्रतिषेधेन । चित्स्वरस्यावकाशः - चलनः, चोपनः । तास्यादिभ्योऽनुदात्तत्वस्यावकाशः - आस्ते, शेते । इहोभयं प्राप्नोति - आसीनः, शयानः । तास्यादिभ्योऽनुदात्तत्वं भवति विप्रतिषेधेन । नैष युक्तो विप्रतिषेधः । किं कारणम् ? द्विकार्ययोगो हि विप्रतिषेधः, न चात्रैको द्विकार्ययुक्तः । आदेरनुदात्तत्वम्, अन्तस्योदात्तत्वम् । नावश्यं द्विकार्ययोग एव विप्रतिषेधः । किं तर्हि ? असंभवोऽपि । ननु चात्राप्यस्ति संभवो यदुभयं स्यात् - आदेरनुदात्तत्वमन्तस्य चोदात्तत्वमिति, अस्ति च संभवो यदुभयं स्यात् । नैषोऽस्ति संभवः - आदेरनुदात्तत्वमन्त्यस्य चोदात्तत्वमिति । कथम् ? वक्ष्यत्येतत् - स्वरविधौ सङ्घातः कार्यी भवति - इति ॥ (6303 उपसंख्यानवार्तिकम् ॥ 3 ॥) - मुकश्चोपसंख्यानम् - मुकश्चोपसंख्यानं कर्तव्यम् । पचमानः, यजमानः । मुका व्यवहितत्वाददुपदेशाल्लसार्वधातुकमनुदात्तं भवतीत्यनुदात्तत्वं न प्राप्नोति । ननु चायं मुगदुपदेशभक्तोऽदुपदेशग्रहणेन ग्राहिष्यते । न सिध्यति । अङ्गस्य मुगुच्यते, विकरणान्तं चाङ्गं सोऽसौ सङ्घातभक्तोऽशक्यो मुक् अदुपदेशग्रहणेन ग्रहीतुम् ॥ (अद्भक्तत्वेनोपसंख्यानानर्थक्यबोधकभाष्यम्) अथायमतो भक्तः स्यात्, गृह्येतायमदुपदेशग्रहणेन । बाढं गृह्येत । अद्भक्तस्तर्हि भविष्यति । तत्कथम् ? वक्ष्यत्येतस्य परिहारम् ॥ (6304 एकदेशिन उपसंख्यानवार्तिकम् ॥ 4 ॥) - इतश्चोपसंख्यानम् - इतश्चोपसंख्यानं कर्तव्यम् । इदि्भश्च व्यवहितत्वादनुदात्तत्वं न प्राप्नोति । पचतः, पठतः ॥ (6305 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 5 ॥) - इतश्चानेकान्तत्वात् - अनेकान्ता अनुबन्धाः ॥ (अनेकान्तत्वे दोषभाष्यम्) यद्यनेकान्ता अनुबन्धा अदिप्रभृतिजुहोत्यादिभ्यः प्रतिषेधो वक्तव्यः । अत्तः, जुहुत इति । अदुपदेशात् इत्यनुदात्तत्वं प्राप्नोति ॥ (6306 दोषनिवारकवार्तिकम् ॥ 6 ॥) - तत्रादिप्रभृतिभ्यो जुहोत्यादिभ्योऽप्रतिषेधः स्थान्यादेशाभावात् - तत्रादिप्रभृतिभ्यो जुहोत्यादिभ्योऽप्रतिषेधः । अनर्थकः प्रतिषेधः - अप्रतिषेधः । अनुदात्तत्वं कस्मान्न भवति ? स्थान्यादेशाभावात् । नैवात्र स्थानिनं नैवादेशं पश्यामः ॥ (6307 ज्ञापकेन दोषनिवारकवार्तिकम् ॥ 7 ॥) - अनुदात्तङिद्ग्रहणाद्वा - अथवा यदयमनुदात्तङिद्ग्रहणं करोति तज्ज्ञापयत्याचार्यः - न लुप्तविकरणेभ्योऽनुदात्तत्वं भवतीति । नैतदस्ति ज्ञापकम् । श्नमर्थमेतत्स्यात् - विन्दाते, खिन्दाते ॥ यत्तर्हि ङिद्ग्रहणं करोति, न हि श्नम्विकरणो ङिदस्ति ॥ (प्रतिषेधोपसंख्यानभाष्यम्) ङितोऽनुदात्तत्वे विकरणेभ्यः प्रतिषेधो वक्तव्यः । चिनुतः, सुनुतः, लुनीतः, पुनीतः । ङित इत्यनुदात्तत्वं प्राप्नोति ॥ (6308 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 8 ॥) - ङितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः सर्वस्योपदेशविशेषणत्वात् - ङितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः, अनर्थकः प्रतिषेधः - अप्रतिषेधः। अनुदात्तत्वं कस्मान्न भवति ? सर्वस्योपदेशविशेषणत्वात् । सर्वमुपदेशग्रहणेन विशेषयिष्यामः - उपदेशेऽनुदात्तेतः, उपदेशे ङितः, उपदेशेऽकारान्तादिति ॥ Kashika ------- तासेरनुदात्तेतो ङितोऽकारान्तोपदेशात् च शब्दात् परं लसार्वधातुकमनुदात्तं भवति ह्नुङ् इङ् इत्येताभ्यां परं वर्जयित्वा। तासेस्तावत् — क॒र्ता, क॒र्तारा॑ै,क॒र्तारः॑। प्रत्यय — स्वरापवादोऽयम्। अनुदात्तेतः — आस — आस्ते॑। वस — वस्ते॑। ङित् — षूङ् — सूते॑। शीङ् — शेते॑। अदुपदेशात् — तु॒दतः॑। नु॒दतः॑। पच॑तः। पठ॑तः। अनुबन्धस्यानैकान्तिकत्वात् (परि० ४) अकारान्तोपदेश एव शप्। पच॑मानः। यज॑मानः। यद्यत्र मुक् अकारमात्रस्य स्यात् ,तदा लसार्वधातुकमदुपदेशादनन्तरमिति सिद्धो निघातः। अथाकारान्तस्याङ्गस्य, तथापि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वादसिद्धः इति सिद्धम्। चित्स्वरोऽप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद् बाध्यते। तास्यादिभ्य इति किम् ? चि॒नु॒तः। चि॒न्वन्ति॑। ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य। उपदेशग्रहणं किम् ? इह च यथा स्यात् — पचा॑वः, पचा॑म इति। इह च मा भूत् — ह॒तः, ह॒थ इति। लग्रहणं किम् ? कतीह प॒च॒मा॒नाः। सार्वधातुकमिति किम् ? शि॒श्ये, शि॒श्याते॑, शि॒श्ियरे। अह्न्विङोरिति किम् ? ह्नु॒ते। यद॑धी॒ते॥ Siddhanta Kaumudi ----------------- अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः (अ॒भिच॑ष्टे॒ अनृ॑तेभिः) । अदुपदेशात् । पुरुभुजा चनस्यतम् (पुरु॑भुजा चन॒स्यत॑म्) । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं स्वे दमे (वर्ध॑मानं॒ स्वे दमे॑) । तास्यादिभ्यः किम् । अभि वृधे गृणीतः (अ॒भि वृ॒धे गृ॑णी॒तः) । उपदेशग्रहणान्नेह । हतो वत्राण्यार्या (ह॒तो वृत्राण्यार्या॑) । लग्रहणं किम् । कितीह पचमानाः । सार्वधातुकं किम् । शिश्ये । अन्ह्विङोः किम् । ह्नुते । यदधीते । (वार्तिकम्) ॥ इन्धे राजा (इ॒न्धे राजा॑) । एतच्च अनुदात्तस्य च यत्र-(SK3651) इति सूत्रे भाष्ये स्थितम् ॥ Nyaas ----- तासिप्रभृतीनां समाहारद्वन्द्वेन निर्देशः। `अद्रुपदेशात्` इति। उपदिश्यत इत्युपदेशः, शास्त्रवाक्येषु खिलपाठे च यः प्रथममुच्चार्यते स इत्यर्थः। अच्चासावुपदेशश्चेत्यदुपदेशः। कर्मसाधनस्योपदेशशब्दस्याश्रयणम्, भावसाधनस्य वा, नानेन सामानाधिकरण्यानुपपत्तेः। `लसार्वधातुकम्` इति। षष्ठीसमासः। `अदुपदेशात्` इति। पूर्ववत्? कर्मसाधनेनोपदेशशब्देन कर्मधारयः। वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतित्यकारन्तोपदेशादित्यर्थः। `कर्ता` इति। करोतेर्लुट्, आत्मनेपदपरथमपुरुषः, तस्य डारौरसः। एकवचने टेर्लोपः। द्विवचनबहुवचनयोः `रि च` (7.4.51) इति सकारस्य। `आस्ते` इत्येवमादिषु `शेते` इत्येवंपर्यन्तेष्वदादित्वाच्छपो लुक्। `वस्ते` इति। `वस आच्छादने` (धातुपाठः-1023)। `सूते` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031)। `शेते` इति। शीङः सार्वधातुके गुणः` (7.4.21) इति गुणः। `तुदतः नुदतः` इति। तसन्ते एते। एवं `पचतः, पठतः` इत्येते अपि। ननु च व्यञ्जनान्तोऽयमुपदेशे शप्, नकारान्तः, तत्? कथमिहानुदात्तत्वं भवति? इत्याह -`अनुबन्धस्य` इत्यादि। एकान्तः=एकदेशः; नैकान्तोऽनेकान्तः, तद्ग्रहणेन गृह्रत इति यावत्, अनेकान्तस्य भावोऽनेकान्तत्वम्। ततो हेतोरकारान्तोपदेश एव शप्, न व्यञ्जनान्तः। तेन पचते -इत्यादावनुदात्तत्वं भवतीति भावः। अकारान्तत्वं तु शबकारस्य व्यपदेशिवद्भावात्। `पचमानः, यजमानः` इति। शानच्। कथं पुनरिहानुदात्तत्वम्, यावता मुकाऽत्र व्यवधानम्? इत्याह -`यद्यत्र` इत्यादि। मुगागमोऽयमकारमात्रस्य वा स्यात्? अकारान्ताङ्गस्य वा? तत्र यद्यकारमात्रस्य तदाऽदुपदेशग्रहणेनैव तस्य ग्रहणमिति लसर्वधातुकमदुपदेशादनन्तरमेव भवति, व्यवधानाभावात्, न हि स्वावयवो व्यवधायको भवति। तेनान्तरङ्गत्वात्? सिद्धो निघातः। `अथ` इत्यादिना द्वितीये पक्षे निधातस्यासिद्धत्वात्? प्रतिपादयति -`तथापि` इति। एवमपीत्यर्थः। लसर्वधातुकस्येत्यस्य सिद्धो निघात इति वक्ष्यमाणेन सम्बन्धः। `असिद्धः` इत्यस्यापि मुगित्यनेन प्रकृतेन। इतिकरणो हेतौ। तदयमर्थः -यस्माल्लसार्वधातुकानुदात्ते बहिरङ्गत्वान्म#उगसिद्धः, तस्मादेवमपि सार्वधातुकस्यानुदात्तत्वम्। बहिरङ्गत्वं तु मुको बह्वपेक्षत्वात्। स ह्रकारान्तविशिष्टमङ्गमाश्रयति, आनञ्च प्रत्ययविशेषम्। अङ्गावयवमदुपदेशं लसार्वधातुकामात्रं निधातः। तस्मादसावन्तरङ्गः। स्वरविधित्वाच्च, उकग्तं हि स्वरविधेर्भाव्येऽन्तरह्गत्त्वम्। ननु चाद्ये पक्षे मुकि कृते निघातो न सिध्यति, अदुपदेशादिति तपरकरणात्, मुकि च कृते कालस्यातिरिच्यमानत्वात्? नैष दोषः; यद्यवमपि कृतेऽर्धमात्राधिका भवति, तथाप्युपदेशग्रहणात्? सिध्यत्येव, उपदेशे मात्रिकस्यैवोच्चारणात्। `चित्स्वरोऽप्यनेन` इत्यादि। चित्स्वरस्यावकाशः -**चलनशब्दार्थादकर्मकाद्युच्** (3.2.148) चलनम्, चोपनमिति, तास्यादिभ्योऽनुदात्तस्यावकाशः -आस्ते, शेत इति; इहोभयं प्राप्नोति -पचमानो यजमान इति परत्वाल्लसार्वधातुकानुदात्तत्वमेव चित्स्वरं बाघित्वा प्रवर्तते। `चिनुतः, चिन्वन्ति` इति। नु **सार्वधातुकमपित्** (1.2.4) इति श्नुरपि ङिदेव, तत्कथमिदं प्रत्युदाहरणमुपपद्यते? इत्याह -`ङिदयम्` इत्यादि। **सार्वधातुकमपित्** (1.2.4) इत्यनेन पूर्वस्य कार्यमतिदिश्यते, न परस्य। तथा चोक्तम् -सिद्धं तु पूर्वस्य कार्यातिदेशादिति। तस्मात्? पूर्वस्य कार्यं प्रति ङित्वं भवति, न तु परस्येत किमत्र नोपपद्यते। `इह च` इत्यादि। पचावः पचामः इत्यत्र हि **अतो दीर्घो यञि** (7.3.101) इति दीर्घत्वे कृते न स्यात्? असत्युपदेशग्रहणे। तस्मस्तु सति शबकारोऽपि मात्रिक एवोपदिष्ट इति यद्यप्युत्तरकाल दीर्घत्वं भवति तथापि निघातो न भवतीति। `इह च मा भूदिति -हतः; हथ` इति। अत्र `अनुदात्तोपदेश` (6.4.37) इत्यादिनाऽनुनासिकलोपे सत्युपदेशात्परं लसार्वधातुकं भवति, तत्रासत्युपदेशग्रहण इहापि स्यात्। अस्मिस्तु सति न भवति, न हि हन्तिरवर्णान्त उपदिश्यते। किं तर्हि? व्यञ्जनान्तः। `पचमानाः` इति। **ताच्छील्यवयोवचनशक्तिषु चानश्** (3.2.129) न च स लादेशः, अपि तु प्रत्ययः। लसर्वधातुकत्वं त्वस्य न विद्यते। `शिश्ये` इति। शीङो ह्रात्मनेपदे रूपम्, `एरनेकाचः` (6.4.82) इत्यादिना यणादेशः। `लिट्? च` (3.4.115) इत्यार्धधातुकमेतत्। `शिश्याते` इति। लिटआतामि रूपम्। नानुदात्तत्वम्, असार्वधातुकसंज्ञाविधानात्। `ह्यु ते, यदधीते` इति। `ह्यु ङ्? अपनयने` (धातुपाठः-1082) `इङ्? अध्ययने` (धातुपाठः-1046) यच्छब्दस्य प्रयोगः `निपातैयैद्यदि` (8.1.30) इति निघातप्रतिषेधो यथा स्यात्॥ Prakriyasarvasvam ----------------- तत्र भूधातोर्लटि तिपि शपि च कृते तयोः पित्वेनानुच्चत्वात् धातुस्वर एव शिष्यते । (भवत्यात्मना पित्स्वेवम् ?) तसादौ तु - तास्यादेः परं लसार्वधातुकमनुच्चं स्यात् हनुङिङोस्तु न । अदुपदेश इति शब्दादिरुक्तः । तेनात्र शपः परत्वात्तसादेः प्रत्ययस्वराभावः । भवतः, भवन्तीत्यादि । लिङि तु—'यासुट् परस्मैपदेषु' (३-४-१०३) इति यासुट उच्चत्वात् तदादेशेनेया सह शप एकादेशे सत्ये (के ? का) रस्योच्चत्वम् । भवेत् । भवेतामित्यादि । लोटि लद्वत् । लङि लुङि च 'लुङ् (लङ् लृङ्) क्षु -' (६-४-७१) इत्यट उच्चत्वम् । अभवत् । अभूत् । (इदम्) । लिटि—णलोलित्स्वरः । बभूव । अतुसादौ प्रत्ययस्वरः । बभूवतुः । बभूवुः । थलि तु—