61185: तित्स्वरितम् =================== **Padacheda:** तित् | S | 1 | 1 | स्वरितम् | S | 1 | 1 | Sutrartha --------- **तित् प्रत्ययस्य आदिस्वरः स्वरितः भवति ।** यस्मिन् प्रत्यये तकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'तित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशस्य तित्-प्रत्ययस्य स्वरः स्वरितसंज्ञकः भवति । 1. पठ् + तव्यत् → पठि॑तव्य । अत्र 'तव्यत्' अयम् 'तित्' प्रत्ययः अस्ति, अतः अत्र प्रत्ययस्य आदिस्वरः तकारात् परः अकारः स्वरितः जायते । 2. किम् + अत् → क्व ॑ । अत्र 'अत्' अयम् 'तित्' प्रत्ययः अस्ति, अतः प्रत्ययस्य आदिस्वरः अकारः अत्र स्वरितः जायते । (विशेषः - वस्तुतः 'अत्' इति विभक्तिंसंज्ञकः प्रत्ययः अस्ति, अतः **न विभक्तौ तुस्माः** (1.3.4) इत्यनेन तकारस्य इत्संज्ञा न भवितुमर्हति । परन्तु **न विभक्तौ तुस्माः** (1.3.4) एतत् सूत्रम् 'अनित्यम्' अस्ति, अतः तकारस्य अत्र इत्संज्ञा क्रियते ।) ज्ञातव्यम् - **आद्युदात्तश्च** (3.1.3) अनेन सूत्रेण प्रत्ययस्य आदिस्थः स्वरः उदात्तत्वं प्राप्नोति । तस्य अपवादत्वेन तित्-प्रत्ययस्य विषये अयं स्वरः स्वरितः जायते । Sutrartha (English) ------------------- The first स्वर of a तित् प्रत्यय becomes स्वरित. Vasu English Summary -------------------- An affix having an indicatory त् , is स्वरित i.e. has circumflex accent. Vasu English Translation ------------------------ An affix having an indicatory त् , is स्वरित i.e. has circumflex accent. Thus चिकी॒र्ष्य॑म्, जिही॒र्ष्य॑म्, formed by यत् (3.1.97). कार्य॑म्, हार्य॑म् with ण्यत् (3.1.124). This is an exception to (3.1.3) which makes all affixes *adyudatta*. For exception to this rule see (6.1.213) &c. Bhashya ------- तित्स्वरितम् (2622) (स्वरिताधिकरणम्) (6300 उपसंख्यानवार्तिकम् ॥ 1 ॥) - तिति प्रत्ययग्रहणम् - तिति प्रत्ययग्रहणं कर्तव्यम् । इह मा भूत् - ऋत इद्धातोः (7.1.100) किरति, गिरति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । नैष तकारः । कस्तर्हि ? दकारः ॥ (दकारकरणे दोषनिवारकभाष्यम्) यदि दकार आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति । भाव्यमानेन सवर्णानां ग्रहणं नेत्येवं न भविष्यति ॥ (भाव्यमानोऽप्युकार इति परिभाषासाधकभाष्यम्) यदि भाव्यमानेन सवर्णानां ग्रहणं नेत्युच्यते अदसोसेर्दादुदोमः (8.2.80) अमूभ्यामित्यत्र न प्राप्नोति । एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति - भवत्युकारेण भाव्यमानेन सवर्णानां ग्रहणम् - इति, यदयं दिव उत् (6.1.131) इति उकारं तपरं करोति ॥ (उपसंख्यानोपष्टम्भकभाष्यम्) एवमर्थमेव तर्हि प्रत्ययग्रहणं कर्तव्यम्, अत्र मा भूदिति ॥ (उपसंख्यानाक्षेपभाष्यम्) नैष तकारः । कस्तर्हि ? दकारः । यदि दकारः, न ज्ञापकं भवति । (समाधानभाष्यम्) एवं तर्हि तपरस्तत्कालस्य (1.1.70) इति दकारोऽपि र्चत्वभूतो निर्दिश्यते । यद्येवं र्चत्वस्यासिद्धत्वात् हशि च (6.1.114) इत्युत्वं प्राप्नोति । सौत्रो निर्देशः । अथवा - असंहितया निर्देशः करिष्यते - अणुदित्सवर्णस्य चाप्रत्ययः त्तपरस्तत्कालस्य इति ॥ Kashika ------- तित् स्वरितं भवति। सन्नन्ताद् यत् — चि॒की॒र्ष्य॑म्। जि॒ही॒र्ष्य॑म्। **ऋहलोर्ण्यत्** (३.१.१२४) — का॒र्य॑म्। हा॒र्य॑म्। प्रत्ययाद्युदात्तस्यापवादः॥ Siddhanta Kaumudi ----------------- निगदव्याख्यातम् । क्वनूनम् (क्व॑नू॒नम्) ॥ Padamanjari ----------- इह कस्मान्न भवति ठृत इद्धातोःऽ आस्तीर्णम्, विस्तीर्णम्, तत्कालग्रहणार्थतया चरितार्थत्वादिति चेत् ? न; अनेकप्रयोजनदर्शनादनुबन्धानाम्। तद्यथा आक्षिक इत्यादौ ठकि सति स्वरो वृद्धिश्च भवति। एवं नर्हि नायमिकारस्तपरः, किं तर्हि? दपरः। यद्येवम्, ऋकारस्य स्थाने आन्तर्य्यतो दीर्घः प्राप्नोति ?'भाव्यमानो' ण् सवर्णान्न गृह्यातिऽ । इद्येवम्, ठदसोऽसेर्दादु दो मःऽ इमूभ्याम् दीर्घस्य स्थाने दीर्घो न स्यात् ? नैष दोषः ज्ञापितमेतत्'दिव उत्' ठृत उत्ऽ इति तपरकरणेन -भाव्यमानोऽप्युकारः सवर्णान् गृह्णातीति। तयोरेव तर्ह्युकारयोः स्वरितत्वप्रसङ्गः ? तावपि तहि न तपरौ, किं तर्हि ? दपरौ। कथं त'श्ह ज्ञापकम्?'तपरस्तत्कालस्य' इत्यत्र दकारोऽपि चर्त्वभूतोनिर्दिश्यते, ठणुदित्सवर्णस्य चाप्रत्ययस्तपरस्तत्कालस्यऽ इति, यदि दकारोऽपि निर्दिश्यते ठृदोरप्ऽ इत्यत्रापि दद्ग्रहणादिहैव, स्याद्यवः, स्तवः; लवः, पव इत्यत्र न स्यात्;'तादपि परस्तपरः' इति तादपि परस्य तपरत्वात्। एवं तर्हि ऋदोरप्ऽ इत्यत्र धकारो जश्त्वभूत उच्चारणार्थो निर्दिश्यते, तत्र जश्त्वस्यासिद्धत्वान्नायमृकारो दपरः। ये तु'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' इति परिभाषां पठन्ति, तेषाम् ठृत इद्धातोःऽ इत्यादौ सत्यपि तित्वेनास्य स्वरस्य प्रसङ्गः।'तपरस्तत्कालस्य' इत्यत्र दकारोऽपि न प्रश्लेष्टव्यः। तस्यास्तु परिभाषाया भाष्यवार्तिकयोहिर। अदर्शनादयं यत्नो महानस्माभिरादृतः ॥ तास्यनुदातेन्ङ्दिदुपदेशाल्लसार्वधातुकमनुदातमह्न्विङेः ॥ Nyaas ----- `चिकीष्र्यम्, जिहीष्र्यम्` इति, `न गोआन्सावर्ण` (6.1.176) इति नित्ये प्रतिषेधे च प्राप्ते विभाषेयमारभ्यते॥ Prakriyasarvasvam ----------------- न यजुष्यकर्तव्यम् । चिकीर्ष्यम् । अनुदात्तपदम्—' (६-१-१५८) इत्याद्य- कारनुच्चत्वे कृते द्वितीययोः ‘उदात्तस्वरितपरस्य-’ (१-२-४०) इत्यति- नीचत्वम् ।