61167: चतुरः शसि ================ **Padacheda:** चतुरः | S | 6 | 1 | शसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word चतुर् , followed by the Accusative Plural, has acute accent on the last syllable. Vasu English Translation ------------------------ The word चतुर् , followed by the Accusative Plural, has acute accent on the last syllable. Thus च॒तु꣡रः पश्य the accent is on तु ॥ The feminine of चतुर् is चतसृ (7.2.99), which has acute accent on the first (7.2.99) *Vartika*)), and its accusative plural will not have accent on the last syllable. This is so, because चतुर् has acute on the first, as formed by उरन् affix. Its substitute चतसृ will also be so, by the rule of स्थानिवत् ॥ The special enunciation of आद्युदात्त with regard to चतसृ in the *Vartika* चतसर्याद्युदात्तनिपातनं कर्तव्यं (7.2.99) indicates that the present rule does not apply to चतसृ ॥ Another reason for this is as follows: चतसृ + शस् = चतसृ + शस् ॥ Now comes the present *Sutra*; here, however, the र् substitute of ऋ being *sthanivat*, will prevent the *udatta* formation of the अ of त; nor will ऋ be considered as final and take the acute, as there exists no vowels ऋ but a consonant र् which cannot take an accent. As चतस्रः पश्य ॥ Professor Bohtlingk places the accent thus चतुरः꣡, Professor Max Muller चतु꣡रः ॥ I have followed Professor Max Muller in interpreting this *sutra*; for Bohtlingk's interpretation would make the ending शस् accented, and not the final of चतुर् ॥ Bhashya ------- चतुरः शसि (2604) (प्रतिषेधोपसंख्यानभाष्यम्) शसि स्त्रियां प्रतिषेधो वक्तव्यः । चतस्रः पश्य ॥ (6285 प्रतिषेधाक्षेपवार्तिकम् ॥ 1 ॥) - चतुरः शसि स्त्रियामप्रतिषेध आद्युदात्तनिपातनात् - चतुरः शसि स्त्रियामप्रतिषेधः । अनर्थकः प्रतिषेधः - अप्रतिषेधः । शसि स्वरः कस्मान्न भवति ? आद्युदात्तनिपातनात् । आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधको भविष्यति ॥ (उपदेशिवद्भावोपसंख्यानभाष्यम्) एवमप्युपदेशिवद्भावो वक्तव्यः । यथैव हि निपातनस्वरः शसि स्वरं बाधते, एवं विभक्तिस्वरमपि बाधेत - चतसृणामिति ॥ (6286 उपदेशिवद्भावाक्षेपवार्तिकम् ॥ 2 ॥) - विभक्तिस्वरभावश्च हलादिग्रहणात् - विभक्तिस्वरस्य च भावः सिद्धः । कुतः ? हलादिग्रहणात् । यदयं षट्त्रिचतुर्भ्यो हलादिः (6.1.179) इति हलादिग्रहणं करोति तज्ज्ञापयत्याचार्यः - न निपातनस्वरो विभक्तिस्वरं बाधत इति । कथं कृत्वा ज्ञापकम् ? (6287 आक्षेपसाधने ज्ञापनसाधकवार्तिकम् ॥ 3 ॥) - आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् - आद्युदात्तनिपातने हि सति हलादिग्रहणमनर्थकं स्यात् । न ह्यन्यद्धलादिग्रहणं प्रयोजयति - अन्यदतश्चतसृशब्दात् ॥ षट्संज्ञास्तावन्न प्रयोजयन्ति । किं कारणम् ? बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । जसिशसी चातो लुप्येते । अन्याः सर्वा हलादयो विभक्तयः ॥ त्रिशब्दश्चापि न प्रयोजयति । किं कारणम् ? बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानमिति वचनाज्जसि न भवितव्यम्। शसि भवितव्यम् - एकादेश उदात्तेनोदात्तः इति । अन्या - सर्वा हलादयो विभक्तयः ॥ तिसृशब्दोऽपि न प्रयोजयति । किं कारणम् ? बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानमिति वचनाज्जसि न भवितव्यम् । शसि भवितव्यम् - उदात्तयणो हल्पूर्वात् (6.1.174) इति । अन्याः सर्वा हलादयो विभक्तयः ॥ चतुः शब्दश्चापि न प्रयोजयति । किं कारणम् ? बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वानामस्थानमिति वचनाज्जसि न भवितव्यम् । शसि भवितव्यम् - चतुरः शसि इति । अन्याः सर्वा हलादयो विभक्तयः ॥ तत्र चतसृशब्दादेकस्माच्छस् - असर्वनामस्थानमजादिर्विभक्तिरस्ति । यदि चात्र निपातनस्वरः स्यात् हलादिग्रहणमनर्थकं स्यात् ॥ (सिद्धान्तभाष्यम्) नैव वा पुनरत्र शसि स्वरः प्राप्नोति । किं कारणम् ? यणादेशे कृते शसः पूर्व उदात्तभावी नास्तीति कृत्वा । अवशिष्टस्य तर्हि प्राप्नोति । ऋकारेण व्यवहितत्वान्न भविष्यति । यणादेशे कृते नास्ति व्यवधानम् । स्थानिवद्भावाद्व्यवधानमेव । प्रतिषिध्यते तत्र स्थानिवद्भावः - स्वरविधिं प्रति न स्थानिवद्भवतीति । नैषोऽस्ति प्रतिषेधः । उक्तमेतत्प्रतिषेधे - स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवदिति ॥ Kashika ------- चतुरः शसि परतोऽन्त उदात्तो भवति। च॒तुरः॑ पश्य। चतस्रादेश आद्युदात्तनिपातनाद् यणादेशस्य च पूर्वविधौ स्थानिवत्त्वादयं स्वरो न भवति — चत॑स्रः पश्येति॥ Siddhanta Kaumudi ----------------- चतुरोन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र-(SK299) इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य । चतेरुरन् । नित्त्वादाद्युदात्तता ॥ Padamanjari ----------- अनुकरणत्वेनार्थपरत्वाभावादेकवचनम्। इह चतस्रः पश्यैत्यत्र चतस्रादेशे कृते स्थानिवद्भावादयं स्वरः प्राप्नोति? तत्राह - चतस्रादेश इति। स्थानिवद्भावादेवाद्यौदातत्वे सिद्धे पुनराद्यौदातत्वनिपातनमस्य स्वरस्य बाधनार्थमिति। भावः। यथैव तर्हि निपातनस्वरः शस्स्वरंक बाधते, एवम्'षट्त्रिचतुर्भ्यो हलादिः' इत्येतमपि विभक्तिस्वरं बाधेत - चतसृणामिति? ज्ञापकात्सिद्धम्, यदयम्'षट्त्रिचतुर्भ्यो हलादिः' इति हलादिग्रहणं करोति, तज्ज्ञापयति -'न निपातनस्वरो विभक्तिस्वरं बाधते' इति। तद्धि तत्र न कर्तव्यम्, कथम् ? सर्वेषामपि बहुवचनविषयत्वाद् द्विवचनैकवचने न सम्भवतः। न चोपसमस्ते सम्भवः; विहितविशेषणाश्रयणात्। तत्र षड्भ्यस्तावत् जश्शसोर्लुका भवतिव्यम्। अन्याः सर्वा हलादयो विभक्त्यः। स्त्रीशब्दऽपि जसि न भवितयम्; असर्वनामस्थानमित्यधिकारात्, शसि भवितव्यम् ठेकादेश उदातेनोदातःऽ इति, अन्या हलादयः। तिसृशब्देऽपि जसि'तिसृभ्यो जसः' इति भवितव्यम्, शस्यपि ठुदातयणो हलपूर्वात्ऽ इति, अन्या हलादयः। चतुर्-शब्देऽपि जस्यसर्वनामस्थान इति निषेधः, शसि'चतुरः शशि' इत्ययमेव भवति, अन्यास्तु हलादयः। तदेतद्धलादिग्रहणं चतस्रः पश्येत्यत्र मा भूदित्येतदर्थमेव कृतम्। यदि च निपातनस्वरेण विभक्तिस्वरो बाध्येत हलादिग्रहणमनर्थकं स्यात्। चतस्रः पश्येत्यत्र निपातनस्वरेणैव बाधितत्वाद् विभक्तिस्वरस्याप्रसङ्गात् किं तन्निवृत्यर्थेन हलादिग्रहणेन! तत्क्रियमाणम् - विभक्तिस्वरस्य बलीयस्त्वं ज्ञापयतीति चतसृणामित्यत्र विभक्तिस्वरः सिद्धः। यणादेशस्य चेति। ठचि र ऋतःऽ इति रादेशस्यास्मात्स्वरात्पूर्वं परत्वात्कृतस्य। एतदुक्तं भवति - परत्वादादेशे कृते ऋकारस्य तावन्न भवति, तशब्दाकारस्यापि न भवति; रादेशस्य स्थानिवद्भावादिति। न च स्वरविधौ स्थानिवत्वनिषेधः,'स्वरदीर्घयलोपेषु लोपजादेश एव न स्थानिवत्' इति वचनात् ॥ Nyaas ----- `चतेरुरन्` (द।उ।8।78) इत्युरन्प्रत्ययान्तत्वाच्चतुःशब्द आद्युदात्तः, तस्य हि शसि परतोऽनेनान्तो दात्तत्वं विधीयते। अथेह कस्मान्न भवति - चतरुआः पश्येति, चतरुआआदेशेऽपि चतुरः कृते स्थानिवद्भावेन न प्राप्नोति? इत्यत आह - `चतरुआआदेश` इत्यादि। चतरुआआदेश कृत आद्युदाततनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधक इत्याद्युदात्तत्वनिपातनाच्यतन्नः पश्येत्यत्रायं स्वरो न भवति। अथ वा पुरावात्? **अचि र ऋतः** (7.2.100) इति रादेशे कृत ऋकारसय तावन्न भवितव्यम्। अकारस्यापि **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति यणादेशस्य स्थानिवद्भावदृकारेम व्यवधाने सति न भवितव्यमेव। ननु च `न पदान्तद्विर्वचन` (1.1.58) इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः? नैतदस्ति; उक्तं हि तत्र `स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` (का।वृ।1.1.59) इति, न चायं लोपाजादेशः॥ Prakriyasarvasvam ----------------- अस्य शसि परेऽन्त उदात्तः स्यात् । चतुरश्चिद्दमानान् । स्त्रियाँ तु (वा.) । चतस्रो नावः । अत्र जस् । चतस्र आशाः (प्रचन्तु ?) अत्र शस् ।